भीष्मः-
स एवमुक्तो द्विपदां वरिष्ठो नारायणेनोत्तमपूरुषेण
जगाद वाक्यं द्विपदां वरिष्ठं नारायणं लोकहिताधिवासम्
नारदः-
यदर्थमात्मप्रभवेह जन्म तवोत्तमं धर्मगृहे चतुर्धा
तत्साध्यतां लोकहितार्थमद्य गच्छामि द्रष्टुं प्रकृतिं तवाद्याम्
वेदास्स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम्
पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम्
गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम्
तं चादिदेवं सततं प्रपन्न एकान्तभावेन वृणोम्यजस्रम्
एभिर्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमीशम्
भीष्मः-
तत्पारमेष्ठ्यस्य वचो निशम्य नारायणस्सात्त्वतधर्मगोप्ता
गच्छेति तं नारदमुक्तवान्वै सम्पूजयित्वा विधिवत्क्रियाभिः
ततो विसृष्टः परमेष्ठिपुत्रस्सोऽभ्यर्चयित्वा तमृषिं पुराणम्
खमुत्पपातोत्तमयोगयुक्तस्ततोऽधिमेरौ सहसा निलिल्ये
तत्रावतस्थे च मुनिर्मुर्हुतमेकान्तमासाद्य गिरेस्स शृङ्गे
आलोकयन्नुत्तरपश्चिमेन ददर्श चाप्यद्भुतमुक्तरूपम्
क्षीरोदधेरुत्तरतो हि द्वीपश्श्वेतस्स नाम्ना प्रथितो विशालः
मेरोस्सहस्रेण हि योजनानां शतत्रयाद्वै कविभिर्निरुक्तः
अनिन्द्रियाश्चानशनाश्च नित्यं निष्पन्दहीनास्सुसुगन्धिनस्ते
श्वेताः पुमांसो गतसर्वपापाश्चक्षुर्मुषः पापकृतां नराणाम्
वज्रास्थिकायास्सममानोन्माना दिव्यावयवरूपाश्शुभसारोपेताः
छत्राकृतिशीर्षा मेघौघनिनादास्सममुष्कचतुष्का राजीवच्छदपादाः
षष्ठ्या दन्तैर्युक्ताश्शुक्लैरष्टाभिर्ये षष्ट्याभिश्च
जिह्वाभिर्ये विश्ववक्त्रं लेलिहन्ते सूर्यप्रख्यम्
भक्तादेवं विधिविशेषोत्पत्तिं यस्मात्सर्वे लोकास्सम्प्रसूताः
वेदा धर्मा मुनयश्शान्ता देवास्सर्वे तस्य विसर्ग
युधिष्ठिरः-
अनिन्द्रिया निराहारा अनिष्पन्दास्सुगन्धिनः
कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा
ये हि भक्ता भवन्तीह नरा भरतसत्तम
तेषां लक्षणमेतद्धि तच्छ्वेतद्द्वीपवासिनाम्
तस्मान्मे संशयं छिन्धि परं कौतूहलं हि मे
त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वयम्
भीष्मः-
नारदः-
विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसन्निधौ
सैषा तव हि वक्तव्या कथासारो हि स स्मृतः
शन्तनोः कथयामास नारदो मुनिसत्तमः
राज्ञा पृष्टः पुरा प्राह तत्राहं श्रुतवान्पुरा
राजोपरिचरो नाम बभूवाधिपतिर्भुवः
आखण्डलसमः ख्यातो भक्तो नारायणं हरिम्
धार्मिको नित्यभक्तश्च पितुर्नित्यमतन्द्रितः
साम्राज्यं तेन सम्प्राप्तं नारायणवरात्पुरा
सात्त्वतं विधिमास्थाय प्राक्सूर्यमुखनिस्सृतम्
पूजयामास देवेशं तच्छेषेण पितामहान्
पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः
सर्वभावेन भक्तस्स देवदेवं जनार्दनम्
अनादिमध्यनिधनं लोककर्तारमव्ययम्
तस्य नारायणे भक्तिं वहतोऽमित्रकर्शन
एकशय्यासनं शक्रो दत्तवान्देवराट् स्वयम्
आत्मराज्यं धनं चैव कलत्रं वाहनानि च
एतद्भागवतं सर्वमिति तत्प्रेक्षितं सदा
काम्यनैमित्तिकाजस्रयाज्ञीयाः परमक्रियाः
सर्वास्सात्त्वतमास्थाय विधिं चक्रे समाहितः
पाञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः
वरान्नं भगवत्प्रोक्तं भुञ्जते चाऽग्रभोजनम्
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः
नानृता वाक्समभवन्मनो दुष्टं न चाभवत्
न च कायेन कृतवान्स पापं परमण्वपि
ये हि ते मुनयः ख्यातास्सर्वे चित्रशिखण्डिनः
तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम्
वेदैश्चतुर्भिस्समितं कृतं मेरौ महागिरौ
आस्यैस्सप्तभिरुद्गीतं लोकधाम ह्यनुत्तमम्
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः
सप्त प्रकृतयो ह्येतास्तथा स्वायम्भुवोऽष्टमः
एताभिर्धार्यते लोकस्ताभ्यश्शास्त्रं विनिस्सृतम्
एकाग्रमनसो दान्ता मुनयस्संयमे रताः
इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम्
लोकान्विचिन्त्य मनसा ततश्शास्त्रं प्रचक्रिरे
तत्र धर्मार्थकामा हि मोक्षः पश्चाद्धि कीर्तितः
मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः
आराध्य तपसा देवं हरिं नारायणं प्रभुम्
दिव्यं वर्षसहस्रं ते तस्थुः पवनपा द्विजाः
नारायणानुशिष्टा हि तदा देवी सरस्वती
विवेश तानृषीन्सर्वाल्ँलोकानां हितकाम्यया
ततः प्रवर्तिता सम्यक्क्रियाविद्भिर्द्विजातिभिः
शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा
आदावेव हि तच्छास्त्रमोङ्कारस्वरभूषितम्
ऋषिभिश्श्रावितं तत्र यत्र कारुणिको ह्यसौ
ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः
ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः
श्रीभगवान्-
कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम्
लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रपत्स्यते
प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति
ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा
यथाप्रमाणं च मया कृतो ब्रह्मा प्रसादतः
रुद्रश्च क्रोधजो विप्रा यूयं प्रकृतयस्तथा
सूर्याचन्द्रमसौ चात्र भूमिरापोऽग्निरेव च
सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम्
अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः
सर्वे प्रमाणं हि यथा तथा तच्छास्त्रमुत्तमम्
भविष्यति प्रमाणं वै एतन्मदनुशासनम्
अस्मात्प्रवक्ष्यते धर्मान्मनुस्स्वायम्भुवस्स्वयम्
उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः
ततः प्रवक्ष्यतश्शास्त्रं युष्मन्मतिभिरन्वितम्
स्वायम्भुवेषु शास्त्रेषु शास्त्रे चोशनसा कृते
बृहस्पतिमते चैव लोकेषु प्रविचारिते
युष्मत्कृतमिदं शास्त्रं लोकपालो वसुस्ततः
बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः
स हि मद्भावितो राजा मद्भक्तश्च भविष्यति
तेन शास्त्रेण लोकेषु क्रियास्सर्वाः करिष्यति
एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसञ्ज्ञितम्
एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम्
अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ
स च राजा श्रिया युक्तो भविष्यति महान्वसुः
संस्थिते नृपतौ तस्मिञ्शास्त्रमेतत्सनातनम्
अन्तर्धास्यति तत्सर्वमेतद्वः कथितं मया
भीष्मः-
एतावदुक्त्वा वचनमीश्वरः पुरुषोत्तमः
विसृज्य तानृषीन्सर्वान्कामपि प्रसृतो दिशम्
ततस्ते लोकपितरस्सर्वलोकार्थचिन्तकाः
प्रावर्तयन्त तच्छास्त्रं धर्मयोनिं सनातनम्
उत्पन्नेऽङ्गिरसे चैव युगे प्रथमकल्पिते
साङ्ख्योपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ
जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः |
धारणात्सर्वलोकानां सर्वो धर्मः प्रवर्तते