भीष्मः
इत्येवमुक्ते वचने ब्रह्मर्षिस्सुमहातपाः
प्रातिष्ठत शुकस्सिद्धो हित्वा दोषांश्चतुर्विधान्
तमो ह्यष्टगुणं हित्वा जहौ पञ्चविधं रजः
ततस्सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत्
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन्
उल्कापाता दिशां दाहो भूमिकम्पास्तथैव च
प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत्
द्रुमाश्शाखाश्च मुमुचुश्शिखराणि च पर्वताः
निर्घातशब्दैर्बहुभिर्हिमवान्दीर्यतीव ह
न बभासे सहस्रांशुर्न जज्वाल च पावकः
ह्रदाश्च सरितश्चैव चुक्षुभुस्सागरास्तथा
ववर्ष वासवस्तोयं रसवच्च सुगन्धि च
ववौ समीरणश्चापि दिव्यगन्धवहश्शुचिः
स शृङ्गप्रतिमे दिव्ये हिमवन्मेरुसन्निभे
संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत
उदीचीं दिशमास्थाय रुचिरे सन्ददर्श ह
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः
ततः पर्वतशृङ्गे ते सहसैव द्विधाकृते
अदृश्येतां महाराज तदद्भुतमिवाभवत्
ततः पर्वतशृङ्गाभ्यां सहसैव विनिस्सृतः
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम्
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधा कृतम्
साधु साध्विति तत्राऽऽसीन्नादस्सर्वत्र भारत
स पूज्यमानो देवैश्च गन्धर्वैर्ऋषिभिस्तथा
यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा
दिव्यैः पुष्पैस्समाकीर्णमन्तरिक्षं समन्ततः
आसीत्किल महाराज शुकाभिपतने तदा
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन्
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम्
तस्यां क्रीडन्त्यभिरतास्स्नान्ति चैवाप्सरोगणाः
शून्याकारा निराकारं शुकं दृष्ट्वा विवाससः
तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह
शुकस्तु मारुतादूर्ध्वं गतिं गत्वाऽन्तरिक्षगः
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा
महायोगगतिं चाग्र्यां व्यासोत्थाय महातपाः
निमेषान्तरमात्रेण शुकातिपतनं ययौ
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्
शशंसुर्ऋषयस्तस्मै कर्म पुत्रस्य तत्तदा
ततश्शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा
स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै
शुकस्सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः
प्रत्यभाषत धर्मात्मा भोशब्देनानुनादयन्
तत एकाक्षरं नादं भो इत्येव समीरयन्
प्रव्याहरज्जगत्सर्वमुच्चैस्स्थावरजङ्गमम्
ततःप्रभृति चाद्यापि शब्दानुच्चारितान्पृथक्
गिरिगह्वरपृष्ठेषु व्याहरन्ति शुकं प्रति
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा
गुणान्सन्त्यज्य शब्दादीन्पदमभ्यगमत्परम्
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन्
ततो मन्दाकिनीतीरे क्रीडन्तोऽऽप्सरसां गणाः
आसाद्य तमृषिं सर्वास्सम्भ्रान्ता गतचेतसः
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे
वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम्
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा
सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह
तं देवगन्धर्ववृतो महर्षिगणपूजितः
पिनाकहस्तो भगवानभ्यागच्छत शङ्करः
तमुवाच महादेवस्सान्त्वपूर्वमिदं वचः
पुत्रशोकाभिसन्तप्तं कृष्णद्वैपायनं तदा
श्रीमहादेवः-
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह
वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः
स तथालक्षणो जातस्तपसा तव सम्भृतः
मम चैव प्रभावेण ब्रह्मतेजोमयश्शुचिः
स गतिं परमां प्राप्तो दुष्प्रापामकृतात्मभिः
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः
तावत्तवाक्षया कीर्तिस्सपुत्रस्य भविष्यति
छायां पुत्रस्य सदृशीं सर्वतोऽनपगां सदा
द्रक्ष्यसि त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने
भीष्मः-
सोऽनुगीतो भगवता स्वयं रुद्रेण भारत
छायां पश्यन्परावृत्तस्स मुनिः परया मुदा
इति जन्म गतिश्चैव शुकस्य भरतर्षभ
विस्तरेण मयाऽऽख्यातं यन्मां त्वं परिपृच्छसि
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा
व्यासश्चैव महायोगी सञ्जल्पेषु पदे पदे
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम्
धारयेद्यश्शमपरस्स गच्छेत्परमां गतिम्