भीष्मः-
व्यासः-
श्रुत्वा मुनिस्तद्वचनं शुकस्य परं प्रहृष्टः पुनराह चैनम्
भो भो पुत्र स्थीयतां तावदद्य यावच्चक्षुः प्रीणयामि त्वदर्थम्
भीष्मः-
निरपेक्षश्शुको भूत्वा निस्स्नेहो मुक्तसंशयः
मोक्षमेवानुसञ्चिन्त्य गमनाय मनो दधे
पितरं सम्परित्यज्य जगाम द्विजसत्तमः
कैलासपृष्ठं विपुलं महद्योगं निषेवितुम्
गिरिपृष्ठं समारुह्य शुको व्यासस्य पश्यतः
समे देशे विविक्ते च निश्शलाक उपाविशत्
धारयामास चात्मानं यथाशास्त्रं महामुनिः
पादप्रभृतिगात्रेषु क्रमेण क्रमयोगवित्
ततस्स प्राङ्मुखो विद्वानादित्ये नाचिरोदिते
पाणिपादं समाधाय विनीतवदुपाविशत्
न यत्र पक्षिसम्पातो न शब्दो नापि दर्शनम्
तत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे
स ददर्श तदाऽऽत्मानं सर्वसङ्गविनिस्सृतम्
प्रजहास ततो हासं शुकस्सम्प्रेक्ष्य तत्परम्
स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये
महायोगेश्वरो भूत्वा सोऽत्यक्रामद्विहायसम्
ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा
निवेदयामास च तं स्वं योगं परमर्षये
शुकः-
दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते
भीष्मः-
नारदेनाभ्यनुज्ञातश्शुको द्वैपायनात्मजः
अभिवाद्य पुनर्योगमास्थायाऽऽकाशमाविशत्
कैलासपृष्ठादुत्पत्य स पपात दिवं तदा
अन्तरिक्षचरश्श्रीमान्व्यासपुत्रस्सुनिश्चितः
तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम्
ददृशुस्सर्वभूतानि मनोमारुतरंहसम्
व्यवसायेन लोकांस्त्रीन्सोऽन्यत्कामादचिन्तयन्
आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः
तमेकमनसं यान्तमव्यग्रमकुतोभयम्
ददृशुस्सर्वभूतानि जङ्गमानीतराणि च
यथाशक्ति यथान्यायं पूजयाञ्चक्रिरे तदा
पुष्पवर्षैश्च दिव्यैस्तमेवं चक्रुर्दिवौकसः
तं दृष्ट्वा विस्मितास्सर्वे गन्धर्वाप्सरसां गणाः
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः
अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः
अधःकायोर्ध्ववक्त्रश्च नेत्रैस्समतिवाह्यते
ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः
भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत्
शब्देनाकाशमखिलं पूरयन्निव सर्वशः
तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः
सम्भ्रान्तमनसो राजन्नासन्परमविस्मिताः
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः
दैवतं कतमं त्वेतदुत्तमां गतिमास्थितम्
सुनिश्चितमिहाऽऽयाति निर्मुक्तमिव निस्स्पृहम्
ततस्समभिचक्राम मलयं नाम पर्वतम्
उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवतः
ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम्
ऊर्वशी-
अहो बुद्धिसमाधानं वेदाभ्यासरते बुधे
अचिरेणैव कालेन जगद्व्याप्स्यत्यसंशयम्
पितृशुश्रूषया सिद्धिं सम्प्राप्तोऽयमनुत्तमाम्
पितृभक्तो दृढतपाः पितुस्सुदयितस्सुतः
अनन्यमनसा तेन कथं पित्रा विसर्जितः
भीष्मः-
ऊर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित्
उदैक्षत दिशस्सर्वा वचने गतमानसः
सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम्
विलोकयामास तदा सरांसि सरितस्तथा
ततो द्वैपायनसुतं बहुमानात्समन्ततः
कृताञ्जलिपुटास्सर्वा निरीक्षन्ते स्म देवताः
अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित्
शुकः-
पिता यद्यनुगच्छेन्मां क्रोशमानश्शुकेति वै
तस्य प्रतिवचो देयं सर्वैरेव समाहितैः
एतन्मे स्नेहतस्सर्वे वचनं कर्तुमर्हथ
भीष्मः-
शुकस्य वचनं श्रुत्वा दिशस्सवनकाननाः
समुद्रास्सरितश्शैलाः प्रत्यूचुस्तं समन्ततः
समुद्रादयः-
यथा ज्ञापयसे विप्र बाढमेवं भविष्यति
ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम्