भीष्मः-
नारदस्य वचश्श्रुत्वा शुकः परमबुद्धिमान्
सञ्चिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत
शुकः-
पुत्रदारे महान्क्लेशो विद्याम्नाये महाञ्छ्रमः
किन्नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम्
भीष्मः-
ततो मुहूर्तं सञ्चिन्त्य निश्चलां गतिमात्मनः
परावरज्ञो धर्मस्य परां नैश्श्रेयसीं गतिम्
शुकः-
कथं न्वहमसङ्क्लिष्टो गच्छेयं परमां गतिम्
नावर्तेयं यथा भूयो योनिसंसारसागरे
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः
सर्वान्सङ्गान्परित्यज्य निश्चितां परमां गतिम्
तत्र यास्यामि यत्राऽऽत्मा शर्म मेऽधिगमिष्यति
अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः
न तु योगमृते शक्या प्राप्तुं सा परमा गतिः
अवबन्धो हि युक्तस्य कर्मभिर्नोपपद्यते
तस्माद्योगं समास्थाय त्यक्त्वा गृहकलेबरम्
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम्
न ह्येष क्षयतामायाति सोमस्सुरगणैर्यथा
कम्पितः पतते भूमिं पुनश्चैवाधिरोहति
क्षीयते च यथा सोमः पुनश्चैवाभिपूर्यते
नेच्छाम्येवं विदित्वैते ह्रासवृद्धी पुनः पुनः
रविस्तु सन्तापयते लोकान्रश्मिभिरुल्बणैः
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम्
अत्र वत्स्यामि दुर्धर्षो निस्सङ्गेनान्तरात्मना
सूर्यस्य तपतश्चाहं जगत्स्थावरजङ्गमम्
ऋषिभिस्सहितो दीप्तं तेजो वत्स्यामि नित्यदा
प्रवेक्ष्यामि नगान्नागान्गिरीनुर्वीं दिशो दश
देवदानवगन्धर्वान्पिशाचोरगराक्षसान्
लोकेषु सर्वभूतानि प्रवेक्ष्यामि न संशयः
पश्यन्तु योगवीर्यं मे सर्वे देवास्सहर्षिभिः
भीष्मः-
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम्
तस्मादनुज्ञां सम्प्राप्य जगाम पितरं प्रति
सोऽभिवाद्य महात्मानं कृष्णद्वैपायनं मुनिम्
शुकः प्रदक्षिणं कृत्वा कृष्णमापृष्टवान्मुनिम्