भीष्मः-
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा
शिष्याः-
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम्
तन्नो मनसि संरूढं करिष्यामस्तथा च तत्
भीष्मः-
अन्योन्यं संविभाष्यैवं सुप्रीतमनसः पुनः
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः
शिष्याः-
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने
वेदाननेकधा कर्तुं यदि ते रुचितं प्रभो
भीष्मः-
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्
भीष्मः-
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्
भीष्मः-
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाऽभिवाद्य च
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा
हिमवन्तमगं द्रष्टुं सिद्धचारणसेवितम्
तं ददर्शाश्रमपदे नारदः सुमहातपाः
अथैनमब्रवीत्काले मधुराक्षरया गिरा
भीष्मः-
भोभो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते
रजसा तमसा चैव सोमः सोपप्लवो यथा
न भ्राजते यथापूर्वं निषादानामिवालयः
देवर्षिगणजुष्टोऽपि वेदध्वनिविनाकृतः
भीष्मः-
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः
वियुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण
एतन्मनोऽनुकूलं मे भवानर्हसि भाषितुम्
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम्
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः
नारद
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम्
अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः
भीष्म
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्
तथेत्युक्त्वाऽथ संहृष्टो वेदाभ्यासे दृढव्रतः
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्
स्वरेणोच्चैः सशैक्ष्येण लोकानापूरयन्निव
तयोरभ्यसतोरेव नानाधर्मप्रवादिनोः
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्
शुको वारितमात्रस्तु कौतूहलसमन्वितः
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम्
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम्
शुकस्यैतद्वचः श्रुत्वा व्यासः परमधर्मवित्
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्
भीष्म
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः
तमसा रजसा चापि त्यक्तः सत्वे व्यवस्थितः
आदर्शे स्वामिव च्छायां पश्यस्यात्मानमात्मना
न्यस्यात्मनि स्वयं चेतो बुद्ध्या समनुचिन्तय
देवयानपथो विष्णुः पितृयानपथो रविः
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः
तत्र देवगणाः साध्याः सम्बभूवुर्महाबलाः
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः
अपानस्तु ततो ज्ञेयः प्राणश्चासीत्ततः परम्
अनपत्योऽभवत्प्राणो दुर्धर्षश्शत्रुमर्दनः
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम्
प्राणिनां सर्वतो वायुश्चेष्टां वर्तयते पृथक्
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते
प्रेरयत्यभ्रसङ्घातान्धूमजानूष्मजांश्च यः
प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः
अम्बरे स्नेहमभ्रेभ्यस्तटिद्भ्यश्चोत्तमद्युतिः
आवहो नाम संवाति द्वितीयश्च स नो महान्
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः
अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः
यश्चतुर्भ्यस्समुद्रेभ्यो वायुर्धारयते जलम्
उद्धृत्य ददते चापो जीमूतेभ्योऽम्बरेऽनिलः
योऽद्भिस्सम्पूर्य जीमूतान्पर्जन्याय प्रयच्छति
उद्वहो नाम वर्षिष्ठस्तृतीयस्स सदागतिः
समुह्यमाना बहुधा येऽनिलाश्च पृथग्घनाः
वर्षमोक्षकराम्भास्ते भवन्ति घनाघनाः
संहता येन चाविद्धा भवन्ति नदनान्तराः
रक्षणार्थाय भूतानां मेघत्वमुपयान्ति च
योऽसौ वहति देवानां विमानानि विहायसा
चतुर्थस्संवहो नाम वायुस्स गिरिमर्दनः
येन वेगवता तूर्णं रूक्षेणारुजता रसान्
वायुना विहता मेघा न भवन्ति बलाहकाः
दारुणोत्पातसञ्चारो नभसस्स्तनयित्नुमान्
पञ्चमस्स महावेगो विवहो नाम मारुतः
यस्मिन्पारिप्लवा दिव्या भवन्त्यापो विहायसा
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः
यो निरंशुस्सहस्रस्य येन याति वसुन्धराम्
यस्मादाप्यायते सोमो योनिर्दिव्योऽमृतस्य यः
षष्ठः परिवहो नाम स वायुर्जीविनां वरः
सर्वप्राणभृतां प्राणान्योऽन्तकाले नियच्छति
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ
सम्यगन्वीक्षतां बुद्ध्या शान्तयाऽध्यात्मनित्यया
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः
येन सृष्टः पराभूतो यात्येव न निवर्तते
परावहो नाम परो वायुस्स दुरतिक्रमः
एवमेते दितेः पुत्रा मारुताः परमाद्भुताः
अनारमन्तस्संवान्ति सर्वगास्सर्वधारिणः
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः
कम्पितस्सहसा तेन वायुनाऽभिप्रवायता
विष्णोर्निश्श्वासवातोऽयं यदा वेगसमीरितः
स यदोदीर्यते तात जगत्प्रव्यथते तदा
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति
वायौ वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्
भीष्मः-
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा