भीष्मः-
एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः
आत्मनाऽऽत्मानमास्थाय दृष्ट्वा चात्मानमात्मना
कृतकार्यस्सुखी दान्तस्तूष्णीं प्रायादुदङ्मुखः
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा
हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम्
गन्धर्वैस्तु समाकीर्णं गीतस्वनविनादितम्
किन्नराणां सहस्रैश्च भृङ्गराजैस्तथैव च
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः
चित्रवर्णैर्मयूरैश्च केकाशतविराविभिः
राजहंससमूहैश्च हृष्टैः परभृतैस्तथा
पक्षिराजो गरुत्मांश्च यं नित्यमधिगच्छति
चत्वारो लोकपालाश्च देवास्सर्षिगणास्तथा
यत्र नित्यं समायान्ति लोकस्य हितकाम्यया
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना
यत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमत्य वै
यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा
योऽन्योस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः
यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान्
सोऽभ्युद्धरत्विमां शक्तिमथवा कम्पयत्विति
तच्छुत्वा व्यथिता लोकाः क इमामुद्धरेदिति
अथ देवगणं सर्वं सम्भ्रान्तेन्द्रियमानसम्
अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम्
किन्न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन्
स नामृष्यत तं क्षेपमवैक्षत च पावकिम्
स प्रसह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा
कम्पयामास सव्येन पाणिना पुरुषोत्तमः
शक्त्यां तु कम्प्यमानायां विष्णुना प्रभविष्णुना
मेदिनी कम्पिता सर्वा सशैलवनकानना
शक्तेनापि समुद्धर्तुं कम्पिता सा न तद्धृता
रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना
तां कम्पयित्वा भगवान्विष्णुः प्रह्लादमब्रवीत्
श्रीभगवान्-
पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति
भीष्मः-
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः
जग्राह तां तदा शक्तिं न चैनामप्यकम्पयत्
नादं महान्तं मुक्त्वा स मूर्च्छितो गिरिमूर्धनि
विह्वलः प्रापतद्वीरो हिरण्यकशिपोस्सुतः
यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः
तपोऽतप्यत दुर्धर्षं तात नित्यं वृषध्वजः
पावकेन परिक्षिप्तो दीप्यते तस्य चाश्रमः
आदित्यबन्धनं नाम दुष्प्रापमकृतात्मभिः
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः
दशयोजनविस्तारमग्निज्वालसमावृतम्
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान्
सर्वान्विघ्नान्प्रशमयन्महादेवस्य धीमतः
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः
देवान्सन्तापयंस्तत्र महादेवो धृतव्रतः
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य मूर्धनि
विविक्ते पर्वततटे पाराशर्यो महातपाः
वेदानध्यापयामास व्यासश्शिष्यान्महामुनिः
सुमन्तुं च महाभागं वैशम्पायनमेव च
जैमिनिं च महाप्राज्ञं पैलं चैव तपस्विनम्
एभिश्शिष्यैः परिवृतो व्यास आस्ते महातपाः
तत्राऽऽश्रमपदं रम्यं ददर्श पितुरुत्तमम्
आरणेयो विशुद्धात्मा नभसीव दिवाकरः
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव तेजसा
ददृशे सुतमायान्तं दिवाकरसमप्रभम्
असज्जमानं वृक्षेषु शैलेषु विषमेषु च
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम्
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः
यथोपजोषं तैश्चापि समागच्छन्महामुनिः
ततो निवेदयामास पित्रे सर्वमशेषतः
शुको जनकराजेन संवादं प्रीतमानसः
एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान्
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः
ततः कदाचिच्छिष्यास्तं परिवार्योपतस्थिरे
वेदाध्ययनसम्पन्नाश्शान्तात्मानो जितेन्द्रियाः
वेदेषु निष्ठां सम्प्राप्य साङ्गेष्वपि तपस्विनः
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम्
शिष्याः-
महता श्रेयसा युक्ता यशसा च समन्विताः
एकं त्विदानीमिच्छामो गुरुणाऽनुग्रहं कृतम्
भीष्मः-
इति तेषां वचश्श्रुत्वा ब्रह्मर्षिस्तानुवाच ह
उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया
एतद्वाक्यं गुरोश्श्रुत्वा शिष्यास्ते हृष्टमानसाः
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम्
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम्
शिष्या-
यदि प्रीत उपाध्यायो धन्यास्स्म मुनिसत्तम
काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा
षष्ठश्शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः
चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः
इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः
भीष्मः-
शिष्याणां वचनं श्रुत्वा महर्षिप्रवरस्तदा
पराशरात्मजो धीमान्परलोकार्थचिन्तकः
उवाच शिष्यान्धर्मात्मा धर्म्यं नैश्श्रेयसं वचः
व्यासः-
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा
ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षते
भवन्तो बहुलास्सन्तु वेदो विस्तार्यतामयम्
नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि
एते शिष्यगुणास्सर्वे विज्ञातव्या यथार्थतः
नापरीक्षितचारित्रे विद्या देया कथञ्चन
यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः
परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः
न नियोज्याश्च वश्शिष्या अनियोज्ये महाभये
यथामति यथातत्त्वं तथा विद्या फलिष्यति
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु
श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः
वेदस्याध्ययनं हीदं देवकार्यं महत्स्मृतम्
स्तुत्यर्थमिह देवानां वेदास्सृष्टास्स्वयम्भुवा
यो विनिन्देच्च सम्मोहाद्ब्राह्मणं वेदपारगम्
सोऽवज्ञानाद्ब्राह्मणस्य पराभूयादसंशयम्
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति
तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति
एतद्वस्सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति
उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत्