भीष्मः-
ततस्स राजा जनको मन्त्रिभिस्सह भारत
पुरोहितं पुरस्कृत्य सर्वाण्यन्तःपुराणि च
आसनं च पुरस्कृत्य रत्नानि विविधानि च
शिरसा चार्घ्यमादाय गुरुपुत्रं समभ्ययात्
स तदासनमादाय बहुरत्नविभूषितम्
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत्
पुरोधसा सङ्गृहीतं हस्तेनाऽऽलभ्य पार्थिवः
प्रददौ गुरुपुत्राय शुकाय परमार्चितम्
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रतिपूज्य च
पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदयत्
स नाम मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि
प्रतिगृह्य तु तां पूजां जनकाद्द्विजसत्तमः
गां चैव समनुज्ञाय राजानमनुमान्य च
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम्
अनामयं च राजेन्द्र शुकस्सानुचरस्य ह
अनुज्ञातस्स तेनाथ निषसाद सहानुगः
उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः
किमागमनमित्येवं पर्यपृच्छत पार्थिवः
शुकः-
पित्राऽहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः
विदेहराजो याज्यो मे जनको नाम विश्रुतः
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः
प्रवृत्तौ वा निवृत्तौ वा स ते च्छेत्स्यति संशयम्
सोहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः
कथं च मोक्षः प्राप्तव्यो ज्ञानेन तपसाऽथवा
जनकः-
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु
कृतोपनयनः पित्रा जपवेदपरायणः
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चापि भो
देवतानामृषीणां चाप्यनृणोऽप्यनसूयकः
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च
अभ्यनुज्ञामनुप्राप्य समावर्तेत वै द्विजः
समावृत्तश्च गार्हस्थ्ये सदारो नियतो वसेत्
अनसूयुर्यथान्यायमाहिताग्निरनावृतः
उत्पाद्य पुत्रं पौत्रं तु वन्याश्रमपदे वसेत्
तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित्
निर्द्वन्द्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत्
शुकः-
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति
यथावेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप
जनकः-
न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत्
न विना गुरुसम्बन्धं ज्ञानस्याधिगमस्स्मृतः
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते
विज्ञानकृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत्
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम्
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंश्रितः
अनेन क्रमयोगेन बहुजातिषु कर्मणाम्
हित्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते
भावितैः करणैश्चायं बहुसंसारयोनिषु
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः
त्रिष्वाश्रमेषु कोऽन्वर्थो भवेत्परमभीप्सतः
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत्
सात्विकं मार्गमास्थाय पश्येदात्मानमात्मना
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
सम्पश्यन्नोपलिप्येत जले वारिचरो यथा
पक्षीव प्रायणादूर्ध्वममुत्रानन्त्यमश्नुते
विहाय देहं निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः
अत्र गाथाः पुरा गीताश्शृणु राज्ञा ययातिना
धार्यन्तो या द्विजैस्तात मोक्षशास्त्रविशारदैः
ज्योतिरात्मनि नान्यत्र रमतेऽत्रैव चैव तत्
स्वयं च शक्यं तं द्रष्टुं सुसमाहितचेतसा
न बिभेति परो यस्मान्न बिभेति पराच्च यः
यश्च नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तु सः
यदा भावं न कुरुते सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा
संयोज्य तपसाऽऽत्मानमीर्ष्यामुत्सृज्य मोहनीम्
त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते
यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम्
समो भवति निर्द्वन्द्वो ब्रह्म सम्पद्यते तदा
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति
काञ्चनं चायसं चैव सुखं दुःखं तथैव च
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम्
जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा
प्रसार्येह यथाऽङ्गानि कूर्मस्संहरते पुनः
तथेन्द्रियाणि मनसा नियन्तव्यानि भिक्षुणा
तमःपरिगतं वेश्म यथा दीपेन दृश्यते
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम्
एतत् सर्वं च पश्यामि त्वयि बुद्धिमतां वर
यच्चान्यदपि बोद्धव्यं तत्त्वतो वेद तद्भवान्
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः
गुरोस्तव प्रसादेन तव चैवोपशिक्षया
तस्यैव च प्रसादेन प्रादुर्भूतं महामुने
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम
अधिकं तव विज्ञानमधिका च गतिस्तव
अधिकं च तवैश्वर्यं त्वं तु तन्नावबुध्यसे
बाल्याद्वा संशयाद्वाऽपि भवाद्वाऽप्यविमोक्षजात्
उत्पन्ने चापि विज्ञाने नाधिगच्छसि तां गतिम्
व्यवसायेन शुद्धेन त्वद्विधश्छिन्नसंशयः
विमुच्य हृदयग्रन्थीनासादयति तां गतिम्
भवांश्चोत्पन्नविज्ञानस्स्थिरबुद्धिरलोलुपः
व्यवसायादृते ब्रह्मन्नासादयति तत्परम्
नास्ति ते सुखदुःखेषु विशेषो नासि लोलुपः
नौत्सुक्यं नृत्तगीतेषु न राग उपजायते
न बन्धुषु निबन्धस्ते न भयेष्वस्ति ते भयम्
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम्
अहं च त्वाऽनुपश्यामि ये चाप्यन्ये मनीषिणः
आस्थितं परमं मार्गमक्षयं तमनामयम्
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः
तस्मिन्प्रवर्तसे ब्रह्मन्किमन्यत्परिपृच्छसि