भीष्मः-
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात्
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः
शुकः-
भीष्मः-
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे
यथा मे मनसश्शान्तिः परमा सम्भवेत्प्रभो
श्रुत्वा पुत्रस्य वचनं परमर्षिरुवाच तम्
अधीहि पुत्र मोक्षं वै धर्मांश्च विविधानपि
व्यासः-
भीष्मः-
पितुर्नियोगाज्जग्राह शुको वेदविदां वरः
योगशास्त्रेण निखिलं कापिलं चैव भारत
स तं ब्राह्म्या श्रिया युक्तं ब्रह्मतुल्यपराक्रमम्
मेने पुत्रं यदा व्यासो मोक्षविद्याविशारदम्
उवाच गच्छेति तदा जनकं मिथिलेश्वरम्
स ते वक्ष्यति मोक्षार्थं निखिलेन विशेषतः
पितुर्नियोगादगमन्मैथिलं जनकं नृपम्
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम्
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मयः
न प्रभावेन गन्तव्यमन्तरिक्षचरेण वै
आर्जवेनैव गन्तव्यं न सुखान्वेषिणा तथा
नान्वेष्टव्या विशेषास्ते विशेषा हि प्रसङ्गिनः
अहङ्कारो न कर्तव्यो याह्येतस्मिन्नराधिपे
स्थातव्यं च वशे तस्य स ते छेत्स्यति संशयान्
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया
एवमुक्तस्स धर्मात्मा जगाम मिथिलां मुनिः
पद्भ्यां शक्तोऽन्तरिक्षेण क्रान्तुं भूमिं ससागराम्
स गिरींश्चाप्यतिक्रम्य नदीस्तीर्त्वा सरांसि च
बहुव्यालमृगाकीर्णा विविधाश्चौषधीस्तथा
मेरोर्गिरेश्च द्वे वर्षे हर्षं हैमवतस्य तम्
क्रमेणैवमतिक्रम्य भारतं वर्षमासदत्
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान्
आर्यावर्तमिमं देशं जगाम स महामुनिः
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन्
अध्वानं सोऽतिचक्राम सञ्चरन् खे चरन्निव
पत्तनानि च रम्याणि स्थिराणि नगराणि च
रत्नानि च विचित्राणि शुक्लः पश्यन्न पश्यति
उद्यानानि च रम्याणि तथैवायतनानि च
पुण्यानि चैव तीर्थानि ततोऽत्यक्रामदध्वगः
सोऽचिरेणैव कालेन विदेहानाससाद ह
रक्षितान्धर्मराजेन जनकेन महात्मना
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान्
पल्लीघोषान्समृद्धांश्च बहुगोकुलसङ्कुलान्
वृतांश्च शालियवकैर्हंससारससेवितान्
पद्मिनीभिश्च शतशश्श्रीमतीभिरलङ्कृतान्
सर्वान्देशानतिक्रम्य समृद्धजनसेवितान्
मिथिलोपवनं रम्यमाससाद समृद्धिमत्
हस्त्यश्वरथसङ्कीर्णं नरनारीसमाकुलम्
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह
स राजमार्गमासाद्य समृद्धजनकसङ्कुलम्
पार्थिवक्षयमासाद्य निश्शङ्कः प्रविवेश ह
तत्रापि द्वारपालास्तमुग्रवाचा न्यषेधयन्
तथैव च शुकस्तत्र निर्मन्युस्समतिष्ठत
न चातपाध्वसन्तप्तः क्षुत्पिपासाश्रमान्वितः
प्रताम्यति ग्लायति वा नोपैति च यथा रुषम्
तेषां तु द्वारपालानामेकश्शोकसमन्वितः
मध्यङ्गतमिवाऽऽदित्यं दृष्ट्वा शुकमवस्थितम्
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः
प्रावेशयत्ततः कक्ष्यां प्रथमां राजवेश्मनः
तत्राऽऽसीनश्शुकस्तात मोक्षमेवानुचिन्तयन्
छायायामातपे चैव समदर्शी समद्युतिः
तं मुहूर्तादिवाऽऽगम्य राज्ञो मन्त्री कृताञ्जलिः
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः
तत्रान्तःपुरसम्बद्धं महच्चैत्ररथोपमम्
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम्
तं दर्शयित्वा स शुकं मन्त्री काननमुत्तमम्
अर्हमासनमादिश्य निश्चक्राम ततः पुनः
तं चारुवेषास्सुश्रोण्यस्तरुण्यः प्रियदर्शनाः
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः
सँल्लापालापकुशला नृत्तगीतविशारदाः
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः
कालोपचारकुशला भावज्ञास्सत्त्वकोविदाः
परं पञ्चशतं नार्यो वारमुख्यास्समाद्रवन्
पाद्यादीनि प्रतिग्राह्य पूजया परयाऽस्य च
देशकालोपपन्नेन स्वाद्वन्नेनाभ्यतर्पयन्
तस्य भुक्तवतस्तात तदन्तःपुरकाननम्
सुरम्यं दर्शयामासुरैकैकश्येन भारत
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चापि ताः शुभम्
उदारसत्त्वास्सत्त्वज्ञास्सर्वाः पर्यचरंस्तदा
आरणेयस्तु शुद्धात्मा निस्सन्देहस्स्वकर्मकृत्
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति
तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम्
स्पर्ध्यास्तरणसंस्तीर्णं ददुस्ताः परमस्त्रियः
पादशौचं तु कृत्वैव शुक्रस्सन्ध्यामुपास्य च
निषसादाऽऽसने पुण्ये तमेवार्थं विचिन्तयन्
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः
मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम्
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत
अनेन विधिनाऽभीक्ष्णं तदहश्शेषमच्युत
तां च रात्रिं नृपकुले वर्तयामास भारत