भीष्मः-
स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः
अरणीं तु ततो गृह्य ममन्थाग्निचिकीर्षया
अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा
घृताचीं नामाप्सरसमपश्यद्भगवानृषिः
ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः
अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर
सा च कृत्वा तदा व्यासं कामसंविग्नमानसम्
शुकी भूत्वा महाराज घृताची समुपागमत्
स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम्
शरीरजेनानुगतस्सर्वगात्रातिगेन ह
स तु धैर्येण महता अगृह्णाद्धृच्छयं मुनिः
न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः
भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः
यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया
अरण्यामेव सहसा तस्य शुक्रमवापतत्
सोऽविशङ्केन मनसा तथैव द्विजसत्तमः
अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप
निर्मथ्यमानेन च स शुको जज्ञे महातपाः
परमर्षिर्महायोगी अरणीगर्भसम्भवः
यथाऽध्वरे समिद्धोऽग्निर्भाति हव्यमुपात्तवान्
तथारूपश्शुको जज्ञे प्रज्वलन्निव तेजसा
बिभ्रत्पितुश्च कौरव्य रूपं वर्णमनुत्तमम्
बभौ तदा भावितात्मा विधूमोऽग्निरिवोत्थितः
तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर
स्वरूपिणी तदाऽभ्येत्य स्नापयामास वारिणा
अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह
पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः
जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः
देवदुन्दुभयश्चैव प्रावाद्यन्त सहस्रशः
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ
हाहा हूहूश्च गन्धर्वौ तुष्टुवुश्शुकसम्भवम्
ततश्शक्रपुरोगाश्च लोकपालास्समागताः
देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च
दिव्यानि सर्वपुष्पाणि प्रववर्षात्र मारुतः
जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत्
तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः
जतामात्रं मुनेः पुत्रं विधिनोपानयत्तदा
तस्य देवेश्वरश्शक्रो दिव्यमद्भुतदर्शनम्
ददौ कमण्डलुं प्रीत्या देववासांसि चाभि भो
हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः
प्रदक्षिणं प्रकुर्वन्तश्शुकाश्चाषाश्च भारत
आरणेयस्तथा दिव्यं प्राप्य जन्म महाद्युतिः
तत्रैवोवास मेधावी ब्रह्मचारी समाहितः
उत्पन्नमात्रं तं वेदास्सरहस्यास्ससङ्ग्रहाः
उपतस्थुर्महाराज यथाऽस्य पितरं तथा
बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित्
उपाध्यायं महाराज धर्ममेवानुचिन्तयन्
सोऽधीत्य सखलान्वेदान्सरहस्यान्ससङ्ग्रहान्
इतिहासांश्च शास्त्राणि राजशास्त्राणि चाभि भो
गुरवे दक्षिणां दत्त्वा समावृत्तो महाद्युतिः
उग्रं तपस्समारेभे ब्रह्मचारी समाहितः
देवतानां च ऋषीणां च बाल्येऽपि स महातपाः
सम्मन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा
न त्वस्य रमते बुद्धिराश्रमेषु नराधिप
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः