युधिष्ठिरः-
कथं निर्वेदमापन्नश्शुको वैयासकिः पुरा
एतदिच्छामि कौरव्य श्रोतुं कौतूहलं हि मे
भीष्मः-
प्राकृतेन स्ववृत्तेन चरन्तमकुतोभयम्
अध्याप्य कृत्स्नं स्वाध्यायमन्वशिक्षयत स्वयम्
व्यासः-
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ च हिमातपौ
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः
सत्यमार्जवमक्रोधमनसूयां दमं तपः
अहिंसां चानृशंस्यं च विधिवत्परिपालय
सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम्
देवतातिथिशेषेण यात्रां प्राणस्य पालय
फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते
अनित्येऽप्रियसंवासे कथं स्वपिषि पुत्रक
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु
अन्तरं लिप्समानेषु बालस्त्वं नावबुध्यसे
गण्यमानेषु वर्षेषु क्षीयमाणे तथाऽऽयुषि
जीविते लुप्यमाने च किमुत्थाय न धावसि
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम्
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः
धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः
अपथा गच्छतां तेषामनुयाताऽपि पीड्यते
ये तु तुष्टास्सुनियतास्सत्यागमपरायणाः
धर्म्यं पन्थानमारूढास्तानुपास्व च पृच्छ च
उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम्
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै
अद्यकालिकया बुद्ध्या दूरे श्व इति निश्चयात्
सर्वभक्षा न पश्यन्ति कर्मभूमिमचेतनाः
धर्मं निश्श्रेणिमास्थाय किञ्चित्किञ्चित्समारुह
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे
नास्तिकं भिन्नमर्यादं कूलघातमिव स्थितम्
वामतः कुरु विस्रब्धं रथरेणुमिवोद्धृतम्
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्
नावं धृतिमयीं कृत्वा सर्वदुर्गाणि सन्तर
मृत्युनाऽभ्याहते लोके जरया परिवारिते
अमोघासु पतन्तीषु धर्मयानेन सन्तर
तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा
निर्वृतिं लभते कस्माद्यस्मात्त्वं मृत्युना सितः
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम्
वृकीवोरणमासाद्य मृत्युरादाय गच्छति
क्रमशस्सञ्चितशिखो धर्मबुद्धिमयो महान्
अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम्
सम्पतन्देहजालानि कदाचिदिह मानुषे
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय
ब्राह्मणस्य तु देहोऽयं न कामार्थाय जायते
इह क्लेशाय तपसे प्रेत्यानन्तसुखाय च
ब्राह्मण्यं बहुभिरवाप्यते तपोभिस्तल्लब्ध्वा न रतिपरेण हेलितव्यम्
स्वाध्याये तपसि दमे च सम्प्रयुक्तो मोक्षार्थी कुशलपरस्सदा यतस्व
अव्यक्तप्रकृतिरयं कलाशरीरस्सूक्ष्मात्मा क्षणत्रुटिकानिमेषरोमा
ऋत्वास्यस्समबलशुक्लकृष्णनेत्रो मासाङ्गो द्रवति वयोहयो नराणाम्
तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं गच्छन्तं सततमिहाप्यवेक्षमाणम्
चक्षुस्ते यदि न परप्रणेतृनेयं धर्मे ते भवतु मनः परं निशाम्य
येऽमी तु प्रचलितधर्मकामवृत्ताः क्रोशन्तस्सततमनिष्टसम्प्रयोगात्
क्लिश्यन्ते परिगतवेदनाशरीरा बह्वीभिस्सुभृशमधर्मवागुराभिः
राजा धर्मपरस्सदा शुभगोप्ता समीक्ष्य सुकृतिनां दधाति लोकान्
बहुधर्ममपि चरतः प्रतिदिशति सुखमनपगतं निरवद्यम्
श्वानो भीषणका अयोमुखानि वयांसि बलगृध्रकुररपक्षिणां च सङ्घातम्
उपाधिभिरसुखकृत्स्नपरमनिरये भृशमसुखमनुभवति दुष्कृतकर्मा
उष्णां वैतरणीं महानदीमवगाढोऽसिपत्रवनविपन्नगात्रः
परशुवनशयो निपतितो वसति महानिरयेषु भृशार्तः
महापदानि कत्थसे न चाप्यवेक्षसे परम् चिरस्य मृत्युकारितामथागतां न बुध्यसे
प्रयस्यतां किमास्यते समुत्थितं महद्भयम् अतिप्रमाथि दारुणं सुखस्य संविधीयताम्
पुरा मृतः प्रणीयसे यमस्य राजशासनात् तवान्तकाय दारुणैः प्रयत्नमार्जवे कुरु
पुरा समूलबन्धनं प्रभुर्हरत्यदुःखवत् तवेह जीवितं यमो न चास्ति तस्य वारकः
पुरा विवाति मारुतो यमस्य यः पुरस्सरः पुरैक एव नीयसे कुरुष्व साम्परायिकम्
पुरा स एक एव ते प्रयाति मारुतोऽन्तकः पुरा च विभ्रमन्ति ते दिशो महाभयागमे
स्मृतिश्च सन्निरुध्यते पुरा तवैव पुत्रक समाकुलस्य गच्छतस्समाधिमुत्तमं कुरु
शुभाशुभे कृताकृते प्रमादकर्मविप्लुते स्मरन्पुराऽनुतप्यसे स्मरस्व केवलं निधिम्
पुरा जरा कलेबरं विजर्झरीकरोति भो बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्
पुरा शरीरमन्तको भिनत्ति रोगसायकैः प्रसह्य जीवितक्षये तपो महत्समारभ
पुरा वृका भयङ्करा मनुष्यदेहगोचरा अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने
पुराऽन्धकारमेकतो न पश्यसि त्वरस्व वै पुरा हिरण्मयान्नगान्न पश्यसेऽद्रिमूर्धतः
पुराऽत्र सङ्गता हि ते सुहृन्मुखाश्च शत्रवो विचारयन्ति दर्शनाद्वदस्व पुत्र यत्परम्
धनस्य यस्य राजतो भयं न चास्ति चोरतो मृतश्च यन्न मुञ्चसे समार्जयस्व तद्धनम्
न तत्र संविभज्यते स्वकर्मभिः परस्परं यदेव यस्य यौतकं तदेव तत्र सोऽश्नृते
परत्र यन्न जीर्यते तदेव पुत्र चीयतां धनं यदक्षयं ध्रुवं समार्जयस्व तत्स्वयम्
न यावदेव पच्यते महाजनस्य यावकमपक्व एव यावके मनो नियच्छ पुत्रक
न मातृपुत्रबान्धवा न संस्तुतः प्रियो जन अनुव्रजन्ति सङ्कटे व्रजन्तमेकपातिनम्
यदेव कर्म केवलं पुराकृतं शुभाशुभं तदेव तस्य साक्षिकं भवत्यमुत्र गच्छतः
हिरण्यरत्नसञ्चयास्स्पृहावशेन सञ्चिता न तस्य देहसङ्क्षये भवन्ति कार्यसाधकाः
परत्र गामिकस्य ते कृताकृतस्य कर्मणो न साक्षिरात्मना समो नृणामिहास्ति कश्चन
मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः प्रविश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वतः
इहाग्निसूर्यवायवश्शरीरमाश्रितास्त्रयस्त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः
तथा निशेषु सर्वतस्स्पृशत्सु सर्वचारिषु प्रकाशगूढवृत्तिषु स्वधर्ममेकमाचर
अनेकपारिपान्थिके विरूपरौद्ररक्षिते स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति
न तत्र संविभज्यते स्वकर्मणा परस्परं यथा कृतं स्वकर्मजं तदेव भुज्यते फलम्
यथाऽप्सरोगणैः फलं सुखं महर्षयस्सह तथाऽऽप्नुवन्ति कर्मतो विबुद्धिमोहनं पुनः
यथेह यत्कृतं शुभं तथैव तैर्विपाप्मभिस्तथाऽऽप्नुवन्ति मानवास्तथा विशुद्धयोनयः
प्रजापतेस्सलोकतां बृहस्पतेश्शतक्रतोर्व्रजन्ति ते परां गतिं गृहस्थकर्मसेतुभिः
सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे अबुद्धिमोहनं पुनर्भृगुर्विना न यावकः
गता द्विरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः कुरुष्व धर्मसञ्चयं वयो हि तेऽतिवर्तते
पुरा करोति सोऽन्तकः प्रमादगोमुखां चमूं यथागृहीतमुत्थितस्त्वरस्व धर्मपालने
यथा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि तथा गतिं गमिष्यतः किमात्मना परेण वा
यदेकपातिनां सतां भवत्यमुत्र गच्छताम्भयेषु साम्परायिकं निधत्स्व तं महानिधिम्
सतूलमूलबान्धवं प्रभुर्हरत्यसंशयं न सन्ति यत्र हारकाः कुरुष्व धर्मसंविधम्
इदं निदर्शनं मया तवेह पुत्र सम्मतं स्वदर्शनानुमानतः प्रवर्णितं कुरुष्व तत्
दधाति यस्स्वकर्मणा धनानि यस्य कस्यचित्प्रबुद्धिमोहजैर्गुणैस्स एक एव युज्यते
श्रुतं स्वधर्ममश्नुते प्रकुर्वतश्शुभाः क्रियास्तदेव तत्र दर्शनं कृतज्ञमर्थसंहितम्
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः
छित्त्वैतां सुकृतो यान्ति नैनां छिदन्ति दुष्कृतः
किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
को हि तद्वेद कस्याद्य मृत्युसेनाऽभिविक्ष्यते
अनुगम्य श्मशानान्ते निवर्तन्ते हि बान्धवाः
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयस्सुहृदस्तथा
नास्तिकान्निरनुक्रोशान्नरान्पापमतौ स्थितान्
वामतः कुरु विस्रम्भं परं प्रेप्सुरतन्द्रितः
एवमभ्याहते लोके कालेनोपनिपीडिते
सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु
अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः
सम्यक् स्वधर्मं कृत्वेह परत्र सुखमश्नुते
न देहभेदे मरणं विजानतां न च प्रणाशस्त्वनुपालिते पथि
धर्मं हि यो वर्तयते स पण्डितो य एव धर्माच्च्यवते स हीयते
प्रवृत्तयोः कर्मपथे स्वकर्मणोः फलं प्रयोक्ता लभते यथाकृतम्
विहीनकर्मा नरकं प्रपद्यते त्रिविष्टपं गच्छति धर्मपारगः
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम्
अथात्मानं समादध्याद्भ्रश्यते न पुनर्यथा
यस्य नोत्क्रामति मतिस्स्वर्गमार्गानुसारिणी
तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः
यस्य नोपहता बुद्धिर्निश्चयेष्ववलम्बते
स्वर्गे कृतावकाशस्य नास्ति तस्य महद्भयम्
तपोवने च ये जातास्तत्रैव निधनं गताः
तेषामल्पतरो धर्मः कामभोगमजानताम्
यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत्
न तेन किञ्चिदप्राप्तं तन्मे बहुफलं मतम्
मातापितृसहस्राणि पुत्रदारशतानि च
अनागतान्यतीतानि कस्य ते कस्य वा वयम्
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित्
तं न पश्यामि यस्याहं न स पश्यति यो मम
न तेषां भवता कार्यं न कार्यं तव तैरपि
स्वकृतैस्तानि यातानि भवांश्चैव गमिष्यति
इह लोके हि धनिनां परोऽपि स्वजनायते
स्वजनस्तु दरिद्राणां जीवतामपि नश्यति
सञ्चिनोत्यशुभं कर्म कलत्रापेक्षया नरः
ततः क्लेशमवाप्नोति परत्रेह तथैव च
पश्यत्यच्छिन्नभूतं हि जीवलोकं स्वकर्मणा
तत्कुरुष्व यथा पुत्र कृत्स्नं यत्समुदाहृतम्
तथैव तत्प्रविश्येत कर्मभूमिं प्रपश्यतः
शुभान्याचरितव्यानि परलोकमभीप्सता
मासर्तुसञ्ज्ञापरिवर्तनेन सूर्याग्निना रात्रिदिवेन्धनेन
स्वकर्मनिष्ठाफलसाक्षिकेण भूतानि कालः पचति प्रसह्य
धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपून्न बाधते
श्रुतेन किं येन न धर्ममाचरेत्किमात्मना यो न जितेन्द्रियो वशी
भीष्मः-
इदं द्वैपायनवचो हितमुक्तं निशम्य तु
शुकोऽगात्सम्परित्यज्य पितरं मोक्षदर्शिकम्