वैशम्पायनः-
पुरा युधिष्ठिरो राजा प्रयतेनान्तरात्मना
द्वैपायनमृषिश्रेष्ठं पप्रच्छाधिकृताञ्जलिः
सहितो भ्रतृभिस्सर्वैरुदारमतिभिश्शुभैः
पृथिव्यामुपविष्टैस्तु विनीतैरुत्तमौजसैः
युधिष्ठिरः-
भगवान्सर्वभूतानां सर्वज्ञस्सर्वदर्शिवान्
विश्रुतस्त्रिषु लोकेषु धर्मेण च दमेन च
तदिच्छाम उपश्रोतुं मङ्गल्यमृषिसत्तम
कथां भगवता प्रोक्तां सर्वपापप्रणाशिनीम्
वयं च यद्यनुग्राह्यास्सर्वे भगवतो मताः
ब्रूहि सत्यवतां श्रेष्ठ शृणुमोपहिता वयम्
वैशम्पायनः-
एवं सम्प्रश्रयादुक्तस्सत्यात्मा सत्यवादिना
युधिष्ठिरेण सत्कृत्य कृष्णद्वैपायनोऽब्रवीत्
व्यासः-
युधिष्ठिर महाप्राज्ञ कुरूणां वंशवर्धन
श्रोतुमिच्छसि कौन्तेय भ्रातृभिस्सहितश्शुभाम्
इमां कथामुपश्रुत्य नराणामर्थसिद्धये
विजयश्च नरेन्द्राणामिह पार्थ न दुर्लभः
शान्तिकी पौष्टिकी रक्षा सर्वदुस्स्वप्ननाशिनी
कथेयममराकारा दैवतैरपि कथ्यते
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
बाल्येऽवाप्तं तु यद्धीर अगस्त्येन महात्मना
पुरा कृतयुगे राजन्महर्षिः कुम्भसम्भवः
मित्रावरुणयोः पुत्रश्श्रीमानतितपाः प्रभुः
सचाश्रमपदे पुण्ये पुण्यकर्मा महातपाः
समाद्वादशको राजन्वयसा भरतर्षभ
तमावसथ एकाकी ह्यभ्राकाशकृतं व्रतम्
मित्रावरुणयोस्स्वर्गं गतयोस्सुकृतात्मनोः
पुष्करस्योत्तरे तीरे सर्वदेवनमस्कृतः
पर्वतो भास्करो नाम भास्कराभस्स्वतेजसा
अतः प्रभवते राजन्पुण्यस्रोता महानदी
वरदा वितमा नाम सिद्धचारणसेविता
तस्मिन्गिरिवरे तस्य अगस्तेः पैतृकोऽश्रमः
पुण्यपुष्पफलोपेतैः पादपैरभिसंवृतः
तप्यते शिशुरेकाकी तपो द्वादशवर्षिकम्
यन्न तप्तं पुरा वत्स दिव्यैरन्यैस्तपोधनैः
नेश्वरेण न चेन्द्रेण यमेण वरुणेन वा
नित्योर्ध्वबाहुरादित्ये भास्करे तस्थिवान्मुनिः
ऊर्ध्वोन्मुखो निरालम्बो जितात्मा पवनोपमः
निरावृतो निरालम्बो नियतात्मा जितेन्द्रियः
निर्द्वन्द्वो निरहङ्कारो निराशो निस्पृहः क्वचित्
काष्ठभूतस्तपस्तेपे सर्वभूतहिते रतः
निर्वृतो निस्तमो धीरो निर्वृतस्सर्वतस्समः
तमेवमुपसम्पन्नमुदारमनसं शुचिम्
भास्करे वर्तते नित्यं तप्यमानमतीव च
अवर्धत महापुण्ये स हि धर्मेण भारत
अथ कौन्तेय कालेन केनचिद्भरतर्षभ
अष्टाशीतिसहस्राणि यतीनां पुण्यकर्मणाम्
आनुपूर्व्येण धर्मज्ञ महीं कृत्वा प्रदक्षिणम्
सपर्वतवनोद्देशां सनदीनदसागराम्
तत्र तत्र महापुण्याः पुण्यतीर्थाभिलाषिणः
द्वैपायनः-
एतस्मिन्नन्तरे पार्थ ऋषिसङ्घस्स वै महान्
प्रदक्षिणं महीं कृत्वा भास्करं गिरिमभ्ययात्
ते तं गिरिवरं पुण्यमथ कृत्वा प्रदक्षिणम्
ततो गिरिनदीं पुण्यां तीर्थहेतोरुपागमन्
आष्टाशीतिसहस्राणि तत्र नद्यां युधिष्ठिर
विगाह्य तज्जलं राजन्प्रहृष्टा मुनयोऽभवन्
केचित्सस्नुर्यथाकामं केचिदत्र उपाविशन्
केचित्पुण्येन तोयेन पितृदेवांश्च तर्पयन्
केचित्प्रक्रीडितास्तत्र जपन्त्यन्ये तपोधनाः
अध्यात्मं चिन्तयन्त्यन्ये केचिद्वेदानधीयते
कथाश्शुश्रुवुरन्ये च प्रोक्ता अन्यैस्तपोधनैः
ध्यानमन्ये ह्युपासन्त निषेदुश्च तथा परे
एवं ते ऋषिभिस्सिद्धैर्वितमा पुण्यवर्धनी
नदी सा पुरुषव्याघ्र द्योतते तैस्तपोधनैः
एतस्मिन्नन्तरे पार्थ देवराजः पुरन्दरः
पितामहं पुरस्कृत्य सह देवैस्समेयिवान्
वितमायां तदेकान्ते तस्यां नद्यां युधिष्ठिर
अथाब्रवीत्पुष्करजस्सुरेश्वरमरिन्दमम्
विज्ञाय मुनिसङ्घस्य धर्मे रागमुपस्थितम्
पुरन्दरं महाबाहो सर्वथा श्रोतुमर्हसि
ऋषीणाममरश्रेष्ठ धर्मे रागमुपस्थितम्
इमं मुहूर्तमेतेषामहङ्कारस्सुरेश्वर
प्रभविष्यति सर्वेषां अस्वर्गीयो न संशयः
स भवान्देशमुत्सृज्य इमं सुरवरेश्वर
गन्तुमर्हसि धर्मात्मन्द्रष्टुमेषां न ते क्षमम्
ततस्तु तद्वचश्श्रुत्वा देवराजः पितामहात्
जगाम भरतश्रेष्ठ सह देवैररिन्दम
गते देवेश्वरे शक्रे पितामहपुरोगमे
अष्टाशीतिसहस्राणि परमं हर्षमभ्ययुः
ते प्रनृत्ताः प्रगीताश्च तथा प्रहसिता अपि
वितमाया जले पुण्ये तस्मिन्प्रक्रीडिताः परे
एकान्ते च महाप्राज्ञो नारदः कलहप्रियः
तन्त्रीयुक्तकमादाय मुनिर्वेदमधीतवान्
संवर्तोऽप्यथ कौन्तेय जलादुत्थाय भारत
उवाच तानृषीन्सर्वान्हर्षेण महता युतः
संवर्तः-
श्रूयतामृषिभिस्सर्वैरिदं मम वचो द्विजाः
रोचते यदि सर्वेषां क्रियतां मुनिसत्तमाः
अहमुग्रतपा विप्रा भवन्तोऽपि तथैव च
न तुल्योऽस्मत्प्रभावेण धर्मे न च तथा परः
दीर्घकालप्रचीर्णस्य यमस्य नियमस्य च
तपोबलं न पश्यामि किमप्येतत्कथञ्चन
व्यासः-
संवर्तवचनं श्रुत्वा सर्वं तद्दषिमण्डलम्
अहङ्कारवशं प्राप्तं तद्वाक्यमभिनन्दत
अहङ्कृत्वा ततस्सर्वे ऋषयः कुन्तिनन्दन
परस्परमवज्ञाय तत्र तेऽथामितौजसः
भृगुस्ततो महाराज सर्वर्षिगणपूजितः
संवर्तवचनं तत्र स सत्कृत्येदमब्रवीत्
भृगुः-
एवमेतन्न सन्देहो यत्त्वयोक्तं धृतव्रत
तस्मात्प्रभावं तपसो द्रष्टुमर्हाम सर्वशः
ऋषयश्श्रूयतां तावन्मम वाक्यं धृतव्रताः
अहं शुचिरहं श्रेष्ठ अहमुग्रतपोधनः
अहं प्रधान इत्येवं यज्जल्पथ तपोधनाः
किमेतत्कथयित्वा वो ह्यहङ्कारात्पुनः पुनः
प्रत्यक्षं द्रष्टुमिच्छाम इह दर्मस्य नः फलम्
न ततो विद्यते यत्र सर्वभूतेष्वसंशयम्
उपस्पृश्य ततस्तोयं पुनरभ्युपगम्यताम्
दृश्यतां सुप्रतप्तस्य धर्मस्य महतः फलम्
यत्र येन तपस्तप्तं तथा दशदशात्मकम्
तद्दर्शयध्वं सङ्गम्य तपो यस्य यथा कृताम्
व्यासः-
ततो भृगुवचश्रुत्वा सर्वं तदृषिमणडलम्
भृगोर्वचः पुरस्कृत्य तथेत्यूचुर्महर्षयः
ते तु क्रोधादहङ्कारं प्राप्य सर्वे महर्षयः
नदीं तां वितमां पुण्यामुपस्प्रष्टुं प्रचक्रमुः
ते च प्रनष्टतपसो वितमायां जलं शुभम्
उपस्पृश्य महाराज जप्यमावर्तयंस्तदा
ततस्तद्गगनं रुद्धं सर्वैस्तैर्ऋषिसत्तमैः
तपोबलं नरश्रेष्ठ दर्शयद्भिरसंशयम्
कश्चिदाकाशमाविश्य ज्वलद्धर्मेण केवलम्
अप्सरोभिस्तथा चान्यैर्वृतास्स्वर्गगता द्विजाः
पुष्पवर्षैस्तथा चान्यैः पूज्यन्ते गुह्यकैरपि
केचिदाकाशमाविश्य दिव्यां चेष्टामकुर्वत
तथाऽऽसीत्सुमहान्दोषो हर्षात्तेषामरिन्दम
अन्योन्यं पश्यतां तत्र हसतां च युधिष्ठिर
तेदृष्ट्वा बलमन्योन्यं धर्मस्य भरतर्षभ
तदेवं कथयन्तस्ते तीरे नद्यास्तथा विभो
तं दृष्ट्वा च विदित्वा च धर्मलोपं महात्मनाम्
नारदः कुरुशार्दूल घट्टयंस्तन्त्रियुक्तकम्
अथ ते ऋषयस्सर्वे गन्तुकामा नभस्तलम्
यथापूर्वममित्रघ्न अशक्ता गमनाय हि
अष्टाशीतिसहस्राणि मुनीनां भावितात्मनाम्
अशक्ता गमने राजंस्ततोऽन्योन्यमपश्यत
ते निरस्ता निरुत्साहा निराशा गमनं प्रति
तत्रैवासन्महाभागा भ्रष्टपक्षाः खगा इव
किमिदं किन्विदमिति धिक्कष्टमिति चापरे
एवमुक्त्वा वीक्षमाणास्स्वर्गे विगतचेतसः
अहङ्कारेण महता वसुधायां निपातिताः
मोहस्य वशमागम्य सर्व एव विचेतसः
न किञ्चिदभिजानन्ति धर्मस्य गमनाय वा
यदा विमनसस्सर्वे खगाः खात्पतिता इव
अथैतान्नारदोवाच हर्षादिदमथो वचः
नारदः-
किमुद्वीक्षथ मोहस्था नाकपृष्ठं यियासवः
दुर्लभोऽयं गुणो भूयो भवतां नष्टधर्मिणाम्
अहङ्कारेण महता नष्टो धर्मस्सनातनः
एवं गते न पश्यामि स्वर्गं गन्तुं यथा पुरा
एते स्थ ऋषयस्सर्वे पक्षहीनाः खगा इव
तेन धर्मातिलोपेन चिन्तितेन दुरात्मना
एते स्थ सर्वे संवृत्ता निराशा गमनं प्रति
नद्यास्तीरे शुभे पुण्ये धर्मं कुरुत यत्नतः
द्वैपायनः-
तस्य तद्वचनं श्रुत्वा ऋषयो दिव्यचेतसः
तं नारदमृषिश्रेष्ठं प्रह्वा भूत्वाऽथ तेऽब्रुवन्
ऋषयः-
पुनरस्मद्विधैर्भूयो नाकपृष्ठं तपोधन
अधिष्ठातुं कथं वाऽपि न भवेद्धर्मसङ्करः
व्यासः-
तेषां तु वचनं श्रुत्वा नारदः पुनरब्रवीत्
नारदः-
मुहूर्तं ध्यानमास्थाय योगमागम्य वै शुभम्
अहङ्कारस्य जानीध्वमृषयो दारुणं बलम्
किमाशाऽस्य तु पापस्य कर्मणश्चरितस्य वै
अहो फलमनार्यस्य दुष्कृतस्य महत्त्विदम्
यदेवं प्राप्यते दोषः अहङ्कारो महर्षिभिः
किं तद्वर्षसहस्राणि तप्तस्य तपसः फलम्
कृतं नष्टं पुरा त्विष्टं नियमः क्व च वै दमः
यदूर्ध्वबाहुभिश्शान्तैः क्व नु तस्य फलं गतम्
यदर्थं चार्चिता देवाः पितरश्च तपोधनाः
क्व नु तस्य फलं विप्रास्तपसोऽत्र तु वै गतम्
एते कर्तव्यधर्मास्स्थ पुनरेव यथा पुरा
एवं गते न पश्यामि गमनं वस्त्रिविष्टपम्
अहङ्कारप्रभावेन तेन संशयिता गतिः
अहमप्यनुगन्ता वै केवलं न तु कर्मणा
अनेन कारणेनाहमेवं संशयमात्मनि
तदियं प्रवरस्रोता नदी पुण्यजला शुभा
कर्तव्यो धर्म इह तु यदि नास्ति नभोगतिः
वायुभक्षा निराहारा नियता विजितेन्द्रियाः
इह धर्मं सुनिभृता भवन्तः कर्तुमर्हथ
इह देवेश्वरेणापि वासवेन महात्मना
धर्म उग्रस्सुचरितो वितमायाः पुरोपरि
इह देवेन देव्या च रुद्रेण सुमहत्तपः
तप्तं वर्षसहस्राणि दिव्येन विधिना पुरा
इमां सरिद्वरां प्राप्य विष्णुनाऽपि महात्मना
शुभं जलमुपस्पृश्य प्राप्तो दुस्तरसङ्क्षयः
एष प्रभावो धर्मज्ञा नद्या अस्या न संशयः
चरित्वेह ततः पुण्यं गमिष्यथ शुभां गतिम्
व्यासः-
यदा विमनसस्सर्वे परं दैन्यमुपागताः
सर्वानेव महात्मानस्ततस्तान्नारदोऽब्रवीत्
नारदः-
दैन्यमेतत्परित्यज्य सर्वकार्यावसादकम्
श्रोतुमर्हथ ते सर्वे प्रयतेनान्तरात्मना
यच्च वक्ष्यामि तत्कार्यं भवद्भिः कार्यसाधनम्
सर्वथा मानमुत्सृज्य विनयेन दमेन च
यदिदं वचनं मेऽद्य करिष्यथ तपोधनाः
इदं मुहूर्तमाकाशं यथामूर्वं गमिष्यथ
यदि मद्वचनं सर्वे यथोक्तमनुतिष्ठथ
अस्मिन्मुहूर्ते सर्वेषां कल्मषं नाशमेष्यति
अनृतं नोक्तपूर्वं मे मुनिरस्मि धृतव्रताः
तद्वचश्श्रूयतां साधु नारदोऽस्मि धृतव्रताः
धर्मो वस्त्यक्तमानानां स्वर्गश्चैव भविष्यति
इदं मुहूर्तं सर्वेषां मद्वाक्यं परिगृह्य तु
भावश्रेयांसि धर्म्याणि वाक्यानि सुहृदां सदा
क्रियतामविचारेण ममेदं वचनं हितम्
संवर्तस्य हितार्थाय यथावदिह लप्स्यथ
कथयिष्यामि वस्सम्यक्सर्वेषामेव साधुषु
श्रुत्वा क्षमाक्षमं ज्ञात्वा यद्धितं तत्करिष्यथ
शाश्वतं च ध्रुवं चैव यथास्थानं गमिष्यथच
द्वैपायनः-
ते तस्य वचनं श्रित्वा तदा ऋषिवरा नृप
हर्षेणोत्फुल्लनयनास्सर्व एव तदाऽभवन्
तं भृगुः प्रयतो भूत्वा देवर्षिं नारदं तदा
उवाच पुरुषश्रेष्ठ विस्मयाद्रुचिरं वचः
भृगुः-
किन्नु तद्दैवतं ब्रह्म व्रतं वा नियमोऽपि वा
यत्कृत्वा च मुनिश्रेष्ठ नाकपृष्ठं लभेमहि
सर्वदा नैतदाश्चर्यं देवर्षे तव यन्मतम्
अस्माकमनुकम्पार्थं यत्त्वं वदसि धार्मिक
ततो वद हितं वाक्यं पापमेतत्प्रमार्जितम्
को वा स नियमो विप्र समाधेयो हि नः पुनः
तदेते वै वयं सर्वे ऋषयो मुनिसत्तम
बद्धाञ्जलिपुटाः प्रह्वास्तपसा यो प्रसादने
व्यासः-
तत्तु धर्मात्मनश्श्रुत्वा भृगोर्वाक्यं महायशाः
कृताञ्जलिपुटांस्तांश्च ऋषीन्दृष्ट्वा महामुनिः
ततः प्रहस्य तद्वाक्यं नारदो मुनिसत्तमः
सर्वानेव समासीनानिदं वचनमब्रवीत्
नारदः-
हन्त वः कथयिष्यामि सर्व एव निबोधत
क्षमं चाप्यनुकूलं च स्वर्गाय च हिताय च
एष शैलवरे बालो मित्रावरुणसम्भवः
अगस्त्यो नाम धर्मात्मा भास्करे तप आस्थितः
धैर्येण तपसा चैव धर्मेण च दमेन च
न तुल्यो विद्यते यस्य सर्वेषां भवतामपि
तं बालमुग्रतपसं धर्मात्मानमनिन्दितम्
अभिगच्छत सन्त्यज्य ऋषयो मानमात्मनः
यदि मानं च मोहं च त्यक्त्वा दर्पं च केवलम्
अभिगच्छत तं बालं गमिष्यथ यथा पुरा
स ह्यर्क इव तेजस्वी भास्करे पर्वतोत्तमे
तपश्चरति लोकस्य स्वस्तिहेतोर्धृतं वचः
न तुल्यस्तेजसा तस्य धर्मेण च दमेन च
उपतिष्ठत तं सर्वे वरदं मुनिपुङ्गवम्
व्यासः-
ततस्तस्य वचश्श्रुत्वा नारदस्य महात्मनः
हृष्टेन मनसा सर्वे तस्य वाक्यमधिष्ठिताः
नारदं ते तथेत्युक्त्वा सर्वे कृत्वा प्रदक्षिणम्
प्रसन्नमनसो वीर जग्मुस्ते भास्करं गिरिम्
ते तं गिरिवरं पुण्यं सर्वकालफलद्रुमम्
अधिरुह्य यतात्मानस्सर्वतः प्रत्यलोकयन्
स तु पर्वतराजस्य भास्करस्यांशुमानिव
उपर्युपरि धर्मात्मा चरत्युग्रं तपश्शुचिः
तं दृष्ट्वा विस्मितास्सर्वे ऋषयश्शत्रुसूदन
तस्मान्नातर्कयंस्ते तद्यदुक्तं नारदेन वै
ततस्त्वधिगतास्सर्वे तं बालमृषिसत्तमाः
अष्टाशीतिसहस्राणि प्रयतानि यतानि च
सर्वेषां वचनात्तेषां भृगुस्तत्र यतव्रतः
अब्रवीत्तं महात्मानं दीप्यमानं स्वतेजसा
भृगुः-
अगस्त्य श्रेष्ठ साधूनां नित्यं सुचरितव्रत
श्रोतुमर्हसि धर्मज्ञ वचो मुनिवरात्मज
वयं दैवतदृष्टेन अहङ्कारेण लङ्घिताः
दममुत्सृज्य धर्मेण रागस्पृष्टा विमोहिताः
भवत्प्रसादादिच्छामि गन्तुमिष्टां शुभां गतिम्
अहङ्कारादिदग्धानां सर्वेषां शरणं भव
अष्टाशीतिसहस्राणि मोक्षयित्वा भवानिमान्
कल्मषादतिधर्मेण शश्वल्लोकानवाप्स्यसि
दानेनानेन धर्मस्य महर्षे मुनिसत्तम
आत्मानं च पितॄंश्चैव जीवलोकं च तारय
वयं त्वां प्रयतास्सर्वे स्वर्गहेतोरुपस्थिताः
अष्टाशीतिसहस्राणि तारयेमानि तेजसा
वयं त्वभिगतास्सर्वे भवतस्स्वर्गकाङ्क्षिणः
आशया त्वत्सकाशाच्च काङ्क्षमाणाश्शिवं पदम्
यथार्थं कुरु धर्मज्ञ ऋषीणामिह चागमम्
अर्हसे तेजसा तेन रक्षितुं शरणागतान्
द्वैपायनः-
स तानृषिगणान्दृष्ट्वा अगस्त्यश्शरणागतान्
बद्धाञ्जलिपुटान्सर्वान्प्रहृष्टवदनोऽभवत्
प्रत्यर्चयित्वा सर्वान्वै विनयेनोपगम्य तु
कृताञ्जलिरुवाचेदं सर्वान्स ऋषिसत्तमान्
अगस्त्यः-
सुस्वागतं वो भवतु साधूनां सर्शस्त्विह
स्वमाश्रमपदं तावदृषीणां भावितात्मनाम्
द्वैपायनः-
ततस्तेष्वर्हतः कृत्वा स चातिथिविधिं द्विजः
उपविश्य यथान्यायं प्रश्रयावनतस्स्थितः
अगस्त्यस्तांस्ततस्सर्वान्कृताञ्जलिरभाषत
अगस्त्यः-
नमो भगवतामस्तु सर्वेषामेव वस्समम्
पुत्रोऽहं भवतां साधु शिष्यो वा प्रणतोऽब्रुवम्
का शक्तिर्मम बालस्य मुनेरकृतकर्मणः
भवतामभयं दातुं स्वर्गं प्रापयितुं तथा
मुनेः कर्तव्यधर्मोऽयं केवलं किञ्चिदेव हि
नाम धर्म इति श्रुत्वा किञ्चिन्नियमवानहम्
कुतो धर्मः कुतः पुण्यं कुतो दानं कुतो दमः
येन दद्यामहं धर्मं भवतां स्वर्गकाङ्क्षिणाम्
प्रसीदत न मे रोषं यूयं वै कर्तुमर्हथ
सम्भावयामि नात्मानं येन दद्यामहोऽभयम्
व्यासः-
तदेतद्वचनं श्रुत्वा मुनेस्तस्य महात्मनः
चक्रुस्ते गमने बुद्धिं तामेव वितमां तदा
ततस्त्वगस्त्यस्सहसा तानुवाच धृतव्रतः
अष्टाशीतिसहस्राणि ऋषीणां भावितात्मनाम्
शिरस्यञ्जलिना बालः प्रणम्य शिरसा ह्यपि
इदं वचनमिष्टात्मा सर्वानेव तदाऽब्रवीत्
अगस्त्यः-
न गन्तव्यमलं तावत्सर्वैर्ऋषिगणैरितः
दास्यामि यदि शक्ष्यामि स्वर्गीयं भवतां वचः
गमिष्यथ यथापूर्वं यदि धर्मो भविष्यति
मुहूर्तं स्थीयतां तावद्यावत्तावदुपस्पृशे
व्यासः-
स गत्वा वितमां पुण्यामृषिस्त्वरितमात्मवान्
यथाविधिरुपस्पृश्य ततस्त्वभ्याजगाम ह
ततः पूर्वां दिशं धीमानधिष्ठाय कृताञ्जलिः
हृष्टेन मनसोवाच स्थितो ह्यूर्ध्वमुदङ्मुखः
अगस्त्यः-
यद्यस्ति सुकृतं किञ्चिद्देवता वा सुपूजिताः
अष्टाशीतिसहस्राणि यान्त्वेतानि यथा पुरा
ध्रवाय चास्तु सर्वेषां स्वर्गं स्थानं महात्मनाम्
मम सत्येन तपसा नियमेन दमेन च
व्यासः-
एतस्य वचनस्यान्ते ततस्ते भरतर्षभ
अष्टाशीतिसहस्राणि मुनीनां पुण्यकर्मणाम्
वचनं श्रूयते तत्र साधु साध्वित्यनन्तरम्
ऋषयः-
साधु पुत्र सुपुत्रस्त्वं मित्रस्य वरुणस्य च
साधु सत्त्ववतां श्रेष्ठ साधु सत्यवतां वर
साधु दानमिदं पुण्यं साधु ब्रह्मण्यता च ते
त्वत्प्रसादाद्वयं सर्वे नाकपृष्ठमिदं क्षणात्
प्राप्तवन्तो यथापूर्वमहो दानं तवाक्षयम्
व्यासः-
नेदुर्दुन्दुभयस्स्वर्गे अहो दानफलस्य वै
घुष्यते चाप्यहो दानं त्रिभिर्लोकैर्महामुनेः
देवा महोरगा यक्षा गन्धर्वास्सिद्धचारणाः
अगस्त्यं पुरुषश्रेष्ठं पुष्पवर्षैरवाकिरन्
गन्धर्वा गीतघोषेण विचित्रैर्वादितैस्तथा
अहो दानं घोषयन्तो अगस्त्यं पूजयन्ति वै
ऊर्वशी मेनका रम्बा श्यामा काली तथैव च
रामा योजनगन्धा च गन्धकाली तथैव च
वराप्सरो नृत्यन्त अगस्त्यं पुरुषर्षभ
अहो दानं घोषयन्ति शतशश्चैव मानद
मनोरमं सुसंहृष्टा देवगन्धर्वपन्नगाः
घोषयन्तो महानादमगस्त्ये मुदितास्तदा
तिष्ठन्त्यभिगतास्स्वर्गं साधु साध्वित्यथोऽब्रुवन्
ध्रुवं ते चाप्यहो दानं तस्य लोकास्त्रयस्तदा
दिव्यपुष्पधरा मेघास्सर्वतस्समुपस्थिताः
ववृषुः पुष्पवर्षाणि अगस्यस्याश्रमं प्रति
एवं तदा महाराज अगस्त्ये साधु वादिनः
घुष्यते चाप्यहो दानं सर्वतो भरतर्षभ
तस्मिन्दाने घुष्यमाणे ब्रह्मर्षेस्तस्य वै तदा
नारदः परमाश्चर्यमद्भुतं प्रतिवीक्ष्य तु
स तस्माद्वितमातीरादुत्थाय मुनिपुङ्गवः
हर्षेण महता युक्तो भास्करं गिरिमारुहत्
सोऽधिरुह्य महाप्राज्ञः पश्यते बालकं मुनिम्
निर्विकारं तदाऽऽसीनं धैर्येण महताऽन्वितम्
तं दृष्ट्वा नारदो बालमगस्त्यं मुनिसत्तमम्
देवर्षिर्वर्धयामास हर्षादमरसन्निभम्
नारदः-
दिष्ट्या वर्धसि धर्मज्ञ ध्रुवाय मुनिसत्तम
भवता विजिता लोका हितकाम्य महामुने
अष्टाशीतिसहस्राणि प्रापयित्वा नभस्तलम्
तदेतद्भवताऽवाप्तं महादानं महोदयम्
नैतदिन्द्रादिभिर्देवैरवाप्तमृषिभिर्न च
यत्त्वयाऽद्य महाप्राज्ञ प्राप्तं बालेन केवलम्
स्वर्गीयमेतद्धर्मज्ञ ध्रुवाय मुनिसत्तम
भवता विजिता लोकास्सर्वलोकहितैषिणा
कर्तव्यो बहुलश्चैव त्वया धर्मो ह्यसंशयम्
भवानस्मिन्युगे पूर्वे ऋषिरेको गुणैस्स्मृतः
भविष्यसि महाप्राज्ञ ध्रुवश्शाश्वत अव्ययः
व्यासः-
तस्य तद्वचनं श्रित्वा नारदस्य महात्मनः
अभिवाद्य यथान्यायमिदं वचनमब्रवीत्
अगस्त्यः-
भगवान्केवलं बाल्यादवाप्तं तपसा विभो
मयाऽद्य कथमप्युक्तं कृते तेषां महात्मनाम्
ते गतास्सहसा सर्वे वचनान्मम नारद
नाकपृष्ठं महात्मानस्स हि धर्मस्समार्जितः
व्यासः-
अगस्त्यवचनं श्रुत्वा नारदो भरतर्षभ
उवाच परमप्रीतस्तद्वाक्यमभिपूजयन्
नारदः-
किं नाम बुध्यसेऽऽत्मानमगस्ते पूर्वनिर्जितान्
लोकास्त्वया महाप्राज्ञ धर्मेण महाता चिरम्
भवानेको मुनिः पूर्वं वृषभो नाम नामतः
यदा च वर्षकोटिं वै युगमासीन्महाव्रत
दिव्यसङ्कल्पकं नाम पूर्वकल्पे कृते युगे
यदा द्वीपिन्समुद्रांश्च पर्वतांश्च वनानि च
विष्णुस्सङ्कल्पयामास सहितः पद्मयोनिना
तदाऽपि हि भवाञ्जातस्सलिलाद्धि स्वयं प्रभो
पुष्कराच्च यथा ब्रह्मा यथा तोयाच्च पावकः
तथा त्वमपि धर्मज्ञ स्यम्भूस्सलिलोद्भवः
एवं हि कथयामास वरदः पद्मसम्भवः
तव सर्वं महाप्राज्ञ पूर्वजन्म तपोमयम्
तन्न तेऽऽत्मा न सञ्ज्ञेयः पूर्वजन् प्रबुध्यताम्
अगस्त्यः-
यथा तथाऽस्तु भगवान्दिष्ट्या ते ऋषयो गताः
दिष्ट्या ते न वृथा सत्या भगवान्वागुदाहृता
अहङ्कारकृतं मन्ये न च सत्यं ममान्यथा
न स्मराम्यनृतं तात कदाचिदपि भाषितम्
व्यासः-
नारदस्तु वचस्तस्य प्रतिपूज्य महात्मनः
प्रदक्षिणं च तं कृत्वा वर्धयित्वा च भारत
जगाम त्रिदिवं तात तदा देवर्षिभिर्वृतः
पूज्यमानो महाराज देवगन्धर्वचारणैः
व्यासः-
युधिष्ठिर महाप्राज्ञ श्रूयतां परमद्भुतम्
यच्छ्रुत्वा मनुजश्रेष्ठ नरो मुच्येत किल्बिषात्
प्रयाणे चोपयाने च राज्ञां मङ्गल्यमिच्छताम्
स्त्रीणां प्रसवकाले च मङ्गल्यं भरतर्षभ
अभिषेककाले राज्ञां च कुमाराणां च मङ्गलम्
निबोधस्वेदमाश्चर्यमनुभूतमगस्तिना
यत्ते श्रुत्वा नरश्रेष्ठ कल्मषं नाशमेष्यति
भविष्यति न दुस्स्वप्नः पापं न प्रभविष्यति
नित्यं स्वस्तिकरं धन्यं पुत्रपौत्रे भविष्यति
भविष्यति महाराज जीवलोकस्य पावनम्
तदिदं कथयिष्यामि कुन्तीपुत्र निबोध मे
पुरा द्वादशवर्षेण यदवाप्तमगस्तिना
स कदाचिन्महाराज महात्मा कुम्भसम्भवः
उपवासस्य महतस्समाप्तौ नियतव्रतः
उपविष्टश्शुचिस्स्नातस्समाधौ सुधृतव्रतः
ततस्तु सहसा ह्येव उत्पपात महातपाः
स जगाम तदाऽकाशं वायुनेच समुद्धतः
देवगन्धर्वचरितां गतिं सिद्धनिषेविताम्
स सिद्धचारणाकीर्णां विद्याधरनिषेविताम्
प्राप्यान्तरिक्षं भगवान्किंस्वित्किमिति चाब्रवीत्
स सप्तमपथं गत्वा पवनस्य महातपाः
पश्यते विमलास्सर्वा दिशो दश नृपोत्तम
विमानानि च देवानां पर्वतांश्च वनानि च
महानुभावान्यक्षांश्च सर्वतः प्रविलोकयन्
देवतानां निकेतानि दिव्यानि भवनानि च
गन्धर्वनगरं चैव तत्र तत्रान्ववैक्षत
सप्तद्वीपवतीं रम्यां बहुपर्वतशोभिताम्
पट्टणागारकीर्णां च चतुस्सागरमण्डिताम्
सोऽपश्यत महीं रम्यामगस्त्यो भरतर्षभ
दिव्येन चक्षुषा राजन्दैवतानि च भारत
ततस्त्वाकाशमाविश्य सप्तवायुपथां गतिम्
अगस्त्यो नीयते राजन्धर्मेण भरतर्षभ
स पश्यति नभो दीप्तं ज्वालार्चिर्भिर्निरन्तरम्
धूमान्धकारसञ्छन्नं प्रदीप्तवनसन्निभम्
तं दृष्ट्वा व्यथितश्चासीत्स तदा कुम्भसम्भवः
किमेतदिति चाविग्नश्चक्रे संस्थामवस्थिताम्
ततस्तु सहसाऽऽगत्य दैवतं पुरुषाकृति
तस्थौ वै पुरतस्तस्य अगस्त्यस्य कृताञ्जलिः
स तु तं प्रश्रयादेव उपसङ्गम्य चाब्रवीत्
अगस्त्यः प्रयतो नित्यं शुचिना चैव चेतसा
अगस्त्यः-
ब्राह्मणोऽस्मि महाभाग कथमप्यागतो नभः
ततः प्रदीप्तमालोक्य शङ्कितस्साधु कथ्यताम्
सशरीरतया नेदं विदितं मे यथाविधम्
ततोऽस्मि व्यथितो देव तत्प्रसीद वदस्व मे
द्वैपायनः-
एवं पृष्टं तदा राजन्मुनिना दैवतं तु तत्
सत्कृत्य वचनं तस्य ततो वचनमब्रवीत्
देवः-
अवगच्छाम्यगस्त्य त्वामृषिं परमधार्मिकम्
सशरीरमनुप्राप्तमतोऽहं समुपस्थितः
इदं खलु नभस्सर्वमग्निरेव धृतव्रत
ततो ज्योतिषमित्युक्तं कारणेन न संशयः
ज्योतींष्येतास्तारका वै नक्षत्राणि ग्रहांस्तथा
नित्यं तापयते चापि सहस्रार्चिर्दिवाकरः
इदं तु दहनाकारं यत्पश्यसि धृतव्रत
स्वर्ग्यस्तत्र महातेजा दाहनं पावकस्य च
तत्रार्चिष्मान्हुतवहो लोकत्रयचरो महान्
स्वयमग्निस्स्थितो विप्र अतो दीप्तमिदं नभः
अत्रस्थमधिगच्छन्ति देवास्सर्षिगणास्तदा
अत्रस्थं वरदं देवं सर्वदेवनमस्कृतम्
अधिगच्छति देवानां शान्त्यर्थं मधुसूदनः
अत्रस्थं दैवतैर्ब्रह्म जीवलोकश्च निर्मितः
पर्वताश्च समुद्राश्च द्वीपाश्च सरितस्तथा
एतत्तत्प्रथमं स्थानमग्नेस्त्रैलोक्यपूजितम्
प्रदीप्तं यत्त्वमालोक्य शङ्कितपऽभूर्द्विजोत्तम
तदेतन्निर्विशङ्कस्त्वं मुने प्रविश मा व्यथा
नतदं धर्मात्मना दीप्तं नभः पवनशीतलम्
व्यासः-
तस्य तद्वचनं श्रुत्वा दैवतस्य धृतव्रतः
सत्कृत्य तदसम्मोहाद्विवेश स मुनिर्नभः
स पश्यमानस्तत्रस्थान्देवानृषिगणान्तथा
जगाम दृश्यमानश्च पूज्यमानश्च तैरपि
स तन्नभो महातेजा विवेश हिमशीतलम्
महर्षिर्दैवताकीर्णं पद्मैरिव जलाशयम्
तत्रस्थानि विमानानि दैवतानां ददर्श च
सध्वजानि पताकाश्च सविमानान्सतोरणान्
गन्धर्वांश्चैव धर्मात्मा प्रनृत्तांश्चाप्सरोगणान्
सोऽपश्यत महातेजास्तस्मिन्हौताशने हि खे