भीष्मः-
संयमनः काशिपतिरविमुक्तगतं मुनिम्पप्रच्छ ज्ञानविज्ञानं कपिलादागतागमम्
संयमनः-
को विश्वं सृजते सर्वमिदं संहरते च कः
कश्च विश्वमधिष्ठाय तिष्ठत्यग्निवद्दारुषु
कश्च विश्वमविश्वं च नित्यमेवानुपश्यति
कौ चतौ मुनिशार्दूल नमस्य तावुभावपि
कति तत्त्वानि विश्वात्मा भगवान्हव्यकव्यभुक्
किं च हव्यं च कव्यं च पठ्यते शास्त्रदर्शनात्
कश्च तत्त्वात्समुत्पन्नं तस्मात्तत्वाद्विशारदः
कश्च तत्त्वादिरित्युक्तस्तथा प्राणादिरेव च
भूतादिश्च विकारादिस्तथैव च दयानिधे
कस्मादाददते चैव पुनस्सृजति वै कथम्
अध्यात्ममधिभूतं च अधिदैवं तथैव च
विमोक्षं चास्य भगवान्योऽयं देहेषु वर्तते
सर्वज्ञानं सदशकं तथोपनिषदं मुने
वर्तते त्वयि कार्त्स्न्येन योगशास्त्रं तथैव च
पुराणं च मुनिश्रेष्ठ यथा बुद्धिस्सनातनम्
साङ्गोपाङ्गश्च चत्वारो वेदास्तिष्ठन्ति वेदवित्
सर्वस्य चास्य ज्ञानस्य ग्रन्थतश्चार्थतश्च ते
विदितम वतदितव्यं हि पाणावामलकं यथा
परावरज्ञो भगवानित्येवमनुशुश्रुम
तेन त्वा परिपृच्छामि सर्वभूतहिते रतम्
परोक्षमेतदस्माकं तव प्रत्यक्षमेव च
मन्याम मनसा देव यतीनां यतिसत्तम
तदनुग्रहधर्मेण अक्षयेणाव्ययेन च
शाश्वतेनाप्रमेयेन अचलेनामृतेन च
जन्ममृत्युविमुक्तेन योक्तुमर्हसि मानव
सर्वथा तेन देहेन असद्ग्रन्थेन मे मुने
ध्यायामि भगवान्नित्यमित्यर्थमहमागतः
काशिराज्यं परित्यज्य भगवन्तमरिन्दम
तदेतच्छ्रोतुमिच्छामि यथातत्त्वेन तत्त्वतः
ममानतस्य भगवञ्शिष्यस्यामितबुद्धिमान्
वक्तुमर्हसि शान्त्यर्थमेतदर्थं महामुने
ममोद्वहत्येव मनश्श्रोतुं तत्त्वं परायणम्
पापघ्नममृतं श्रेष्ठं पवित्राङ्गं परायणम्
पञ्चशिखः-
श्रूयतां नृपशार्दूल सर्वमेतदसंशयम्
सर्वस्य चास्य ज्ञानस्य कृत्स्नकारी भवानपि
विशनाद्विश्वमित्याहुर्लोकानां काशिसत्तम
लोकाश्च विश्वमेवेति प्रवदन्ति नराधिप
लोकानामप्यविशनादविश्वमिति तं विदुः
ईदृग्भूतीयमेवाहुरपरं शास्त्रदर्शनात्
विश्वाविश्वे नरश्रेष्ठ तत्त्वबुद्धिपरायणाः
नाराणां नरशार्दूल तत्त्वमेतदसंशयम्
अमृताश्च त्रयोऽप्येते नित्याश्चेति वदन्ति वै
विभागिनश्च वै नित्यं विमलाश्चेति नश्श्रुतिः
अजा अमूूर्तयश्चैव अप्रकम्प्याव्ययाश्च ह
अग्राह्याश्चाप्रतर्क्याश्च तथा मर्त्याश्च पार्थिव
अनादिनिधनाश्चैव तथा मूर्त्त्याश्च तेऽनघ
अच्छेद्याश्चामराश्चैव अप्रदह्यतमाश्च वै
निर्गुणाश्चेतनाश्चैव पश्याश्चेति नराधिप
यदेतदुक्तमाचार्यैरेवमेतदसंशयम्
सन्ति सर्वे गुणा ह्येषां त्रयाणां नृपसत्तम
अहं तत्त्वं प्रवक्ष्यामि यथावाऽऽचार्यदर्शनम्
एकोऽत्र गुणवांश्चैव तथैवाचेतनश्च हि
अपश्यश्च महाभाग प्रधान इति पठ्यते
प्रत्ययं चोपसर्गे वै प्रधानं मन इष्यते
प्रधान इति नामस्य एतयोर्धर्म उच्यते
सन्धावतीति राजेन्द्र इत्येवमनुशुश्रुम
तस्य सर्वं प्रवक्ष्यामि नव तांश्च निबोध मे
प्राकृतान्यस्य चत्वारि वैकृतानि तु पञ्च वै
पूर्वमुत्पद्यतेऽव्यक्तात्व्यक्तो व्यक्तादिरुच्यते
प्राणानामादिमेवैतमाहुरध्यात्मचिन्तकाः
महानिति च नामास्य प्राहुर्वेदविपश्चितः
बुद्धिरित्यपरे राजन्विरिञ्चेति तथाऽपरे
एतस्मात्खलु वैरिञ्चमुपद्यति नराधिप
विरिञ्चाद्राजशार्दूल स वै सर्ग इहोच्यते
एकैकशो विरिञ्चो वै वैरिञ्चादुत्पत्तितस्स्मृताः
एते सर्गा महाराज विद्याविद्येति नश्श्रुतम्
वैरिञ्चात्पञ्च भूतानि वैरिञ्चानि नराधिप
उत्पद्यन्ते महाराज अहङ्कारादसंशयम्
पृथिवी वायुराकाशमापो ज्योतिश्च पङ्चमम्
पञ्च भूतविशेषाश्च युगपत्काशिनन्दन
वैरिञ्चोऽपि विषयार्थी जज्ञे भूतेषु पञ्चसु
मन इत्यभिदिश्येत विखराद्वैखरं तथा
बुद्धीन्द्रियाणि राजेन्द्र तथा कर्मेन्द्रियाण्यपि
चतुरः प्राकृतान्सर्गान्युगपत्तात बुद्धिमन्
वैकृतान्पञ्च चैवाहुरध्यात्मकृतनिश्चयाः
त्वमेवान्ये च राजेन्द्र तत्त्वबुद्धिविशारदाः
तिर्यक्सर्गं तथा मुख्य ऊर्ध्वोऽर्वाक्स्रोत एव च
पञ्चमोऽनुग्रहश्चैव नवैतान्विद्धि पार्थिव
एतद्धि सर्गनवकं साङ्ख्ययोगनिदर्शनम्
मयेयमानुपूर्व्येण तत्त्वसङ्ख्या च तेऽनघ
यश्च यस्मात्समुत्पन्नस्ततश्चैवानुवर्णितः
विकारादि मनः प्राहुस्त्रयाणां पञ्चकानि वै
भूतादीनां तु पञ्चानामाहुर्विखरमेव तु
प्राणापानसमानानामुदानव्यानयोश्च ह
विरिञ्चमाहुः प्राणादिं ब्राह्मणास्तत्वदर्शिनः
त्रयोविंशतितत्त्वानां व्यक्तानां नृपसत्तम
आदिमव्यक्तमित्याहुर्यथाश्रुतिनिदर्शनम् इति
पञ्चशिखः-
एतद्धि मूर्तिसङ्घातं त्रैलोक्ये सर्वदेहिषु
अव्यक्तिकस्य सादृश्यं विरिञ्चस्य प्रजापतेः
व्यक्तस्याव्यक्तमेवाहुर्विश्वरूपस्य नश्श्रुतिः
वेदितव्यो महाराज विश्वरूपस्सनातनः
अध्यात्ममधिभूतं च अधिदैवं तथैव च
प्रवक्ष्यामि यथातत्त्वं त्न्निबोध जनेश्वर
श्रोत्रमध्यात्मं शब्दोऽधिभूतमाकाशोऽधिदैवतम्
त्वगध्यात्मं स्पर्शोऽधिभूतं वायुरधिदैवतम्
वागध्यात्मं वक्तव्यमधिभूतं अग्निरधिदैवतम्
घ्राणमध्यात्मं गन्धोऽधिभूतं पृथिव्यधिदैवतम्
पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतम्
हस्तावध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतम्
पायुरध्यात्मं विसर्गोऽधिभूतं मित्रोऽधिदैवतम्
मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधिदैवतम्
अहङ्कारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतम्
बुद्धिरध्यात्मं बोद्धव्यमधिभूतं पुरुषोऽधिदैवतम्
एतदध्यात्ममधिभूतमधिदैवतमिति सर्वं विज्ञातव्यम्
जनाभिद्रोहण ब्रह्मणीन्द्रे शुनि कीटे पतङ्गपतत्रिकादंशमशकेष्वित्येव योक्तव्यं स्यात्
आत्मनैवात्मलिङ्गे चैतस्याव्यक्तिकस्य ममात्मिका आहङ्कारिकभौतिकवैकारिकेभ्यश्च कालज्ञानं पुरुषेभ्यो व्याख्यास्यामः
तदेतत्पर्यशतसहस्रशः पञ्चशतं पञ्चाहोरात्रमुपदिश्यते पञ्चानां पुरुषानां तन्त्रैकस्य प्रतिषिद्धव्यक्तस्य चतुर्णां वर्णानां वक्ष्याम्याचार्याः
महदादीनां पर्यायशतसहस्राण्याचार्याशीतिमहोरात्रमपदिश्यन्ते?
वैकारिकस्य प्राधानिकस्य महतश्चत्वारिंशत्पर्यायशतसहस्राण्यहोरात्रमपदिश्यन्ते
आहङ्कारिकस्य भौतिकस्य पुरुषस्य पर्यायदशसहस्राण्यहोरात्रमपदिश्यन्ते वैकारिकस्य पुरुषस्य मासः
पर्यायमपि चतुर्युगम्
तदेतत्पर्यायसहस्राणि पञ्चाशतमव्यक्तस्याकेवलस्य
एभ्यः पश्येन्नित्यं कालज्ञानम्
कालज्ञानस्याव्यक्तस्याचेतनस्य ज्ञानविज्ञानमिति पश्यन्त्या बीजधर्मिणा बीजधर्मिणां प्रकृतिधर्मिणां प्रकृतिधर्मिणा अप्रलयधर्मिणा प्रलयधर्मिणामिति
संयमनः-
भगवान्यदा खलु अग्निर्दारुशतसहस्रकोटिष्ववतिष्ठमानस्तत्स्थत्वान्नित्यं सहधर्मी स्यादेवं खल्वयं क्षेत्रसहस्रकोटिष्ववतिष्ठमानस्तत्स्थत्वान्नित्यं सहधर्मः स्यात्
यस्यानिष्टं क्षेत्रं सहधर्मित्वं स्यान्नायमिष्टानिष्टे प्रवर्तमानः प्रकृतिमनुवर्तते गुणसर्गाय गुणसर्गम्
यच्चानुवर्तमानस्य प्रकृतिसहधर्मित्वं स्यात्
भवतु न ह्यनिष्टगुणेनानुगम्यमानामभिष्वजते इत्यर्थमस्येष्टा प्रकृतिर्गुणांश्च ताननुवर्तते
तदभिष्वजनादनुवर्तनाच्च तत्स्थत्वाच्च नित्यस्यानित्यत्वमनुपश्यामः
तद्धेतुमात्रं वक्ष्यामः
कश्चित्गुणस्स्वगुणिना सार्धं समीयाय
समेत्य च कार्यकारणं कुर्वीत
तं च तथेष्टानिष्टे प्रवर्तमानं गुणिनमथ गुणोऽनुवर्तते तत्स्थत्वात्
ननु सोऽपीष्टानिष्टवद्भवति तत्स्थत्वात्
यद्यप्ययमिष्टानिष्टव्यतिरिक्तः सत्
हानायायमिष्टत्वभावमिष्टं येनायमनुवर्तते चाभिष्वजते चेति तदनुर्वजनादनुगमनाच्च कार्याकार्यकर्तृत्वमस्यानुपश्यामः
कार्याकार्यकर्तृत्वाच्चायमिष्टानिष्टवत्स्याद्भवति
यदुक्तमिष्टानिष्टे नायमिति तत्कथं मिथ्यागुणवानयं क्षेत्रज्ञो नागुणवान्
यद्ययमगुणवान्स्यात्
नायमिष्टानिष्टे प्रवर्तमानां प्रकृतिमनुवर्तेत गुणधर्मी
तदनुवर्तितानि द्वन्द्वस्य द्वन्द्वधर्मित्वात्पश्यामः
तदुपपन्नस्स्यात् व्यतिरिक्तत्वमनिर्द्वन्द्वस्यासद्द्वन्द्वत्वाच्च पश्यस्य
का चास्य पश्यत्वं केवलस्याकेवलत्वं नित्यस्यानित्यत्वं केवलत्वं स्वातन्त्र्यं चास्य
पञ्चशिखः-
भो संयमन यदेतदुक्तं भवता न वयमस्यैतदेवं गृह्णीमः
एकत्वमेवैतदुपदिष्टं भवता तत्र यन्नेष्टः
संयोगान्नित्यं जानीते सज्यमानमसकृदसकृत्संहरमाणं च गुणांस्तु संहारमनुवक्ष्यामः व्याख्यास्यामः
तद्यथा चत्वरो भूतग्रामाः जरायुजाण्डजोद्भिज्जाः कालाग्निनाऽहङ्कारेणाप्रमेयप्रभावानिभावेन शतसहस्रांशुना दह्यमाना विघूर्णन्तोऽवशा भूमौ पतन्ति
ततस्तैर्भूतैर्हीना भूर्विवसना शुद्धा स्थण्डिला कूर्मपृष्ठनिभा बभूव
तां तथाभूतां जगज्जननीं जगतीमापो भुञ्जते
प्रनष्टा भूर्जलमेव स्यात्
जलमादित्यो रश्मिभिरादत्ते
समन्तादपां विनाशादग्निर्जाज्वल्यमानोऽन्तरिक्षचरांश्च भूतानुपयुज्याग्निर्जलमादत्ते
अग्निं च वायुः
विनष्टेऽग्नौ वायुरेवाग्निस्स्यात्
तं तदा सेर्वप्राणभृतां प्राणानुपयुज्य वायुराकाशं स्यात्
आकाशं मनस्तथाऽहङ्कारं महान्सूर्यस्सूयनात्
कृत्स्नस्य जगतः सर्वसूर्याणामेकीकृत्वा लिकांस्त्रीन्नाशाय महतस्तमसो मध्ये तिष्ठत्येकस्तमप्यादददव्यक्तम्
तदेतत्पञ्चाहोरात्रिकं प्रलयं महाप्रलय इत्युच्यते
प्रलयान्महतस्तदेकत्वं प्रनष्टसर्वस्वं सर्वमूर्तिजालेश्वरविनाश्योदकं मूर्त्येकं स्यात्
तदेतद्धव्यकव्यं च प्रकरणाद्गुणतां कर्तव्यमित्युच्यते संहरणाद्धव्यमिति
तदेतत्तं गुणवन्तं निर्गुणं गुणोपयोगाद्गुणकर्तृत्वाद्गुणिनमुपदिश्यते बुधैः
क्रियामेवमेवासकृदसकृत्सृजते च गुणान्
नन्वमवबोधादहमस्त्वहमेवैकस्स्यान्नान्यस्स्यादिति
यदि ह्येषाऽवबुद्ध्येतान्योऽस्ति मम वर इति न सृजेदुदासीनत्वाच्च सर्गसंहारयोरुत्पत्तिर्न भवेत्
यदुक्तं भो संयमन को विश्वं सृजते कृत्स्नमिदं संहरते चेति
यदुक्तं कश्चिद्विश्वमधिष्ठाय तिष्ठत्यग्निवद्दारिषु इति
पञ्चविंशकोऽन्योऽन्यस्याव्यक्तस्य त्रयोविंशतितत्त्वस्य चतुर्विंशतिकस्य द्रष्टा द्रष्टव्यस्य श्रोता श्रोतव्यस्य मन्ता मन्तव्यस्य बोद्धा बोद्धव्यस्याधिष्ठाता वाऽनेनाधिष्ठिता प्रकृतिर्गुणान्संहरते नर्तते
न चेतनेनाचेतना निर्गुणेन गुणिनीति पश्येनापश्येति शुद्धेनाशुद्धा नित्येनानित्या केवलेनाकेवला सहधर्मिण्यसहधर्मिणा दर्शनधर्मिणा दर्शनधर्मिणी क्षेत्रधर्मिणा क्षेत्रदर्शनात्
कस्मात्पृथक्त्वात्
पृथग्भावमस्याः प्रपद्यते नैकत्वं नेष्टं भवतः
प्रकृतिक्षेत्रज्ञयोरेकत्वमनवबोधदर्शनं एतदबुधानां दर्शनम्
न बुधा ह्येवमेव तदनुपश्यन्ति पश्यापश्ययोरेकत्वम्
कस्मात्
शास्त्रदर्शनात्
शास्त्रदर्शनस्याबोधादबुध इत्युच्यते बुधैः
बुधश्चायं क्षेत्रज्ञो बुद्ध्यादीन्गुणानभिवर्तमानानवबुध्यते प्रकृतिः
तच्च बोद्धव्यम्
नत्वेवं प्रकृतिं वा क्षेत्रज्ञमनवबोधा? अबुधस्य
यदि ह्येवं बुध्येरन्प्रकृतिं वा गुणा वा बुद्धं बुद्धसहधर्मिणी स्यात्
भवेयुस्ते च बुद्धामनुबुद्ध्यति तमनुबुद्धत्वात्प्रकृतिरभिमन्यते
अहमेवास्य नान्यस्स्यादिति
इष्टानिष्टानभिष्वजते सहजा? यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहं भक्ष्याभक्ष्यं पेयापेयं वाच्यावाच्यमिति
गमनं सङ्कोचनं प्रसारणं प्रियाप्रियं गम्यागम्यं शुभाशुभं शब्दस्पर्शरूपरसगन्धादीनां चावाप्तिरित्येवमादीन्गुणानुत्पादयत्यनवबोधात्प्रकृतिरनुभूयते द्वन्द्वत्वात्तदनेकत्वमस्य क्षेत्रज्ञस्य प्रपद्यते
निर्द्वन्द्वस्य प्रवर्तमानस्य पश्यन्नुत्पद्यतेऽहङ्कारकृतो दोषस्स्यादहमेनामाचक्षे तेऽहमेनां बुध्यामिति
न चैष पश्यत्याचक्षते बुध्यते चाहङ्काराद्
यदि ह्ययं मन्येताभिषजेद्वा
एवमनुबन्धस्स्यादनुबन्धाच्च शक्तित्वं स्यात्
शक्तित्वाच्चास्य व्यतिरेकत्वं स्यात्
यद्वाऽयमिष्टानिष्टाभ्यां मध्यस्थः
कथमस्येष्टानिष्टकृतो दोषस्स्यात्
भवति निर्द्वन्द्वाच्चास्यालेपकत्वाच्चास्य व्यतिरेकत्वं स्यात्
भवतश्चात्र श्लोकौ-
पङ्कस्यापि हि दोषेण नोपलिप्यति पङ्कजम्
तथाऽव्यक्तस्य दोषेण नोपलिप्यति केवलः
केवलत्वं पृथग्भावात्पङ्कपङ्कजयोर्यथा
तथाऽस्य सहभावत्वाद्विनाभाव इति स्मृतः
एवमस्य भो संयमन व्यतिरिक्तस्य व्यतिरिक्तत्वं भवति व्यतिरिक्तत्वादसहभावमसहभावत्वाच्च अन्यत्वमन्यत्वान्निस्तत्त्वमिति
अत्र श्लोका भवन्ति
घोरादगाधादव्यक्तादस्तमं त्वजरं जनाः
प्रतीपभूतमन्यस्मान्मन्यन्ते तत्त्वबुद्धयः
ये त्वबुद्धास्तपोयोगादेकत्वेनानुपश्यतः
ते व्यक्तनिष्ठादेकत्वाज्जायन्ति च म्रियन्ति च
निर्द्वन्द्वधर्मिणो नित्यमबोधाद्द्वन्द्वधर्मिणा
अनित्यत्वान्महाराज द्वन्द्वनिष्ठा भवन्ति ते
अश्रद्दधानाश्शास्त्रस्य द्वैधीभावाच्च पार्थिव
काल्स्यास्ये निमज्जन्ति उन्मज्जन्ति भवे नराः
अव्यक्ताच्च भवेन्मोक्षो ह्यप्येकग्रहधर्मिणा
विमुच्यैतद्विमोक्षस्स्यादविमोक्षात्पुनर्भवः
पञ्चशिखः-
भो संयमन एवमेवायमन्यो व्यक्तधर्मी अप्यगुणो गुणधर्मिणोऽप्यचलश्चलधर्मिणोऽप्रकृतिः प्रकृतिधर्मिणोऽक्षेत्रः क्षेत्रधर्मिणो विमुक्तश्चाविमुक्तश्चेति
अशुचिनः प्रशुचिः विुक्तिश्चाविमुक्ताच्च विमलश्चाविमलाच्छुद्धश्चाशुद्धात् वियोजश्चावियोगान्मोक्षश्चाविमोक्षात्
एवं पुष्करपर्णस्थ इवाब्बिन्दुर्नित्यमसक्तस्तत्स्थत्वान्मशकोदुम्बरयोर्मत्स्योदकयो बिन्मूषिकयोश्च? यथाऽव्यक्तं भवति
सहभावादेवमस्य क्षेत्रज्ञस्यान्यत्वं भवति तदुष्यमाणस्य पश्येनापश्यस्य पश्यतश्चापश्यस्य बुद्ध्या अबुद्धस्य चेतनेनाचेतनस्य केवलेनाकेवलस्य नित्येनानित्यस्य ज्ञानेनाज्ञानस्य
एवमस्य भो अज्ञातस्याव्यक्तस्य उपकरणं शोकादशोकं मोहादमोहं स्थिरात्स्थिरमभ्रादनभ्रं व्रणादव्रणं काजादकाजं सीमादसीमं पुरादपुरं पुरस्य चाप्यवदारणं पुरत्वमपदिश्यते
लोकादलोकं कालादकालं भयादभयं शिवादशिवं विभुत्वाच्चाविभुत्वम्
एवमस्यानुपदेशतः खल्वविभक्तमविभाजनमस्यैकत्वं परमनुपदिश्यतो नानात्वात्क्षेम्यस्स्यादक्षेम्यस्स्यादव्यक्तात्
भवन्तिचात्र श्लोकाः-
क्षेम्या क्षेम्यं नानुपश्येत नित्यं क्षेम्यस्त्वन्यस्तं तु नैवाभिपश्येत्
षड्विंशो वा पञ्चविंशो नु राजनव्यक्तश्च प्राहुरेवं विधिज्ञाः
योऽयं बोद्धा पञ्चविंशः परस्य स मन्यते ईदृशोऽस्मीति रजन्
बुद्धस्य वै बोधनात्तेन सम्यग्गच्छत्ययं न च लोकाद्बलत्वम्
एवं बोद्धा केवलात्केवलस्सन्स साव्यक्तः किञ्च सञ्ज्ञानसञ्ज्ञः?
निर्द्वन्द्वस्य द्वन्द्वभावात्मकस्य भावान्न स्यान्न प्रभावं शुचि स्यात्
शुचिप्रबोधादशुचित्वं तदा स्यात्त्रिलोकसद्भावगुणप्रवर्तकम्
भवत्ययं केवल एव केवलस्समेत्य नित्याममलामयं शुचिः
शुचिप्रबोधादस्य भो संयमन बुध्यमानस्य पञ्चविंशकस्य बुद्धात्षड्विंशबोधनत्वमुपदिशन्ति
बोद्धारं बुध्यमानस्य व्यतिरिक्तस्य व्यतिरिक्तत्वमुपपद्यते
केवलं नाहमस्याः कश्चिन्नेयं मम काचन षड्विंशस्याहमहं चास्यानेन मम सह चैकत्वमिति
तत्र श्लोकः-
साम्यस्साम्यं शुचिं दृष्ट्वा शुचिमाहुर्मनीषिणः
बहिः कृत्वा तमिस्रालमव्यक्ताच्चेतनः परम् इति
तदेतद्भगवता बन्धमवाप्यमहं तत्त्वं? परमर्षिणा परमगुरुणा मम कपिलेन, गुरुणा च ममासुरिणा जातिशतैर्बहुभिरवाप्तं कृत्स्नं कपिलात्
मयाप्येवमेव शिष्यदर्शत्वमुपगम्य जातिशतैर्बहुभिरवाप्तं भगवत असुरेस्सकाशात्
मत्तश्च कात्यायनेनाप्तम्
गौतमेन कात्यायनादवाप्तम्
गौतमाच्च गार्ग्येणावाप्तम्
तदेतत्परम्परया बहुभिराचार्यैरवाप्तं कृत्स्नक्षयममृतार्थतत्त्वं विमलममलज्ञानम्
अवत्यागाधमचेतनमकेवलमव्यक्तमपास्यनित्यमचेतनमकेवलमव्यक्तमपास्य नित्यमचेतनमज्ञानप्रतिबुद्धमव्यक्तं बुध्यमानेन पञ्चविंशकेन षड्विंशकम्
अत्र श्लोका भवन्ति-
तस्यैवैतद्वर्णितमात्मयोगाद्वाराणस्यां क्रीडमानेन राज्ञः
तत्त्वज्ञानं पृच्छतः प्राञ्जलेस्स्यात्पृच्छां तस्य ग्रन्थतश्चार्थतश्च
प्रोक्तं ह्येतत्षोडशप्रश्नमुग्रं निस्तत्त्वाष्षड्विंशकश्चैच राजन्
यं वै बुद्ध्वा बालकाय प्रणम्य मूर्ध्नाऽऽपन्नः पादयोर्दृश्यमानः
पद्भ्यां गतस्तत्त्वमवाप्य कृत्स्नं सत्कुमारादमृतं परोत्सम्?
सनत्कुमारेण ममोपदिष्टमेतन्महद्ब्रह्म यथावदद्य
ते तच्छ्रुतं तद्भव वीतशोक एतन्महाप्रश्नमवाप्य चार्थम्
तुल्यं भवान्पश्यतु ब्रह्मणश्चेदिन्द्रस्य स्थाणोर्मशकस्य चैव
पतङ्गकीटे शुनि च श्वपाके सर्वं हि सर्वत्र नरेन्द्रसिंह
यस्त्वन्यथा पश्यति ह्यल्पबुद्धरव्यक्तनिष्ठस्स भवेत राजन्
सत्त्वस्य सर्वस्य अपश्यमाने अबुद्धिमान्दुःखमुपैति नित्यम्
न चास्य दुःखं स तु दुःखमेति वैषम्यबुद्धित्वमपश्यमानः
तद्गच्छ राजन्स्वपुरीं विशालां वाराणसीमीश्वरथेन शीघ्रम्
एतावदेतत्परमं रहस्यमुक्तं मया ते यतते नरोत्तम
यत्र तत्र संवसंस्त्रिवर्गविच्छुछि शुचिर्हि पञ्चविंशकः
तथैव षड्विंशकत्वमवबुध्यते यदा तदा शुचिर्भवेदिति