युधिष्ठिरः-
क्लिश्यमानेषु भूतेषु जातीमरणसागरे
यत्प्राप्य क्लेशं नाप्नोति तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सनत्कुमारस्य सतस्संवादं नारदस्य च
सनत्कुमारो भगवान्ब्रह्मपुत्रो महायशाः
पूर्वजाश्च त्रयस्तस्य कथ्यन्ते ब्रह्मवादिनः
सनकस्सनन्दश्चैव तृतीयश्च सनातनः
जातमात्राश्च ते सर्वे प्रतिबुद्धा इति श्रुतिः
चतुर्थश्चैव तेषां स भगवान्योगमास्थितः
सनत्कुमार इति वै कथयन्ति महर्षयः
हैरण्यगर्भश्च मुनिर्वसिष्ठः पञ्चमस्स्मृतः
षष्ठस्स्थाणुश्च भगवानमेयात्मा त्रिशूलधृक्
ततोऽपरे समुत्पन्नाः पावकाद्वरुणाकृतौ
मानसास्स्वयम्भुवो भूमेर्मरीचिप्रमुखास्तथा
भृगुर्मरीचेरनुजो भृगोरप्यङ्गिरास्तथा
अनुजोऽङ्गिरसोऽथात्रिः पुलस्त्योऽत्रेस्तथाऽनुजः
पुलस्त्यस्यानुजो विद्वान्पुलहोऽनुपमद्युतिः
कथ्यन्ते ब्रह्मजा ह्येते विद्वद्भिरमितौजसः
सर्गमेतन्महाराज कुर्वन्नादिगुरुर्महान्
प्रभुर्विभुरनन्तश्रीर्ब्रह्मा लोकपितामहः
मूर्तिमन्तोऽमृतीभूतास्तेजसाँतितपोऽन्विताः
सनकप्रभृतयस्तत्र त्रयः प्राप्ताः परं पदम्
कृत्स्नक्षयमनुप्राप्य विमुक्ता मूर्तिबन्धनात्
सनत्कुमारस्तु विभुर्योगमास्थाय योगवित्
विचचार त्रयो लोकानैश्वर्येण परेण ह
रुद्रश्चाप्यष्टगुणितो योगं प्राप्तो महायशाः
सूक्ष्ममष्टगुणं राजन्नेतरे नृपसत्तम
मरीचिप्रमुखास्तात सर्वे सृष्टिं शृणुष्व मे
नियुक्ता राजशार्दूल तेषां सृष्टिं शृणुष्व मे
सप्त ब्रह्माण इत्येष पुराणे निश्चयो गतः
सर्ववेदेषु चैवोक्ताः खिलेषु च न संशयः
इतिहासे पुराणे च श्रुतिरेषा पुरातना
परदे कथ्यत इति प्राहुर्वेदान्तपारगाः
एतेषां पितरस्तात पुत्रा इत्यनुचक्षते
गुणास्सप्त महाराज मूर्तयोऽमूर्तयस्तथा
पितॄणां चैव राजेन्द्र पुत्रा देवा इति श्रुतिः
देवैर्व्याप्ता इमे लोका इत्येवमनुशुश्रुम
कृष्णद्वैपायनाच्चैव देवस्थानात्तथैव च
देवलाच्च नरश्रेष्ठ काश्यपाच्च मया श्रुतः
गौतमादथ कौण्डिन्याद्भारद्वाजात्तथैव च
मार्कण्डेयात्तथैवैतदृषेर्देवतमात्तथा
पित्रा च मम राजेन्द्र श्राद्धकाले प्रभाषितम्
परं रहस्यं राजेन्द्र ब्राह्मणः परमात्मनः
अतः परं प्रवक्ष्यामि यन्मां पृच्छसि भारत
तदिहैकमनाश्श्रद्धी शृणुष्वावहितो मम
स्वायम्भुवस्य संवादं नारदस्य च धीमतः
सनत्कुमारो भगवान्दीपं जज्वाल तेजसा
अङ्गुष्ठमात्रो भूत्वा वै विचचार महामुनिः
स कदाचिन्महाराज मेरुपृष्ठे समेयिवान्
नारदेन नरश्रेष्ठ मुनिना ब्रह्मवादिना
जिज्ञासमानावन्योन्यं सकाशाद्ब्रह्मणस्ततः
ब्रह्मभागगतौ तात परमार्थार्थचिन्तकौ
मतिमान्मतिमच्छ्रेष्ठं बुद्धिमान्बुद्धिमत्तमम्
श्रुतिमाञ्श्रुतिमच्छ्रेष्ठं स्मृतिमान्स्मृतिमत्तरम्
क्षेत्रवित्क्षेत्रविच्छ्रेष्ठं ज्ञानविज्ज्ञानवित्तमम्
लोकविल्लोकविच्छ्रेष्ठमात्मविच्चात्मवित्तमम्
सनत्कुमारं तत्त्वज्ञं भगवन्तमरिन्दम
सर्ववेदार्थकुशलस्सर्वशास्त्रविशारदः
साङ्ख्ययोगं च यो वेद पाणावामलकं यथा
नारदोऽथ नरश्रेष्ठ तं पप्रच्छ महामतिम्
नारदः-
त्रयोविंशतितत्त्वस्य अव्यक्तस्य महामुने
प्रभवं चाप्ययं चैव श्रोतुमिच्छामि तत्त्वतः
अध्यात्ममधिभूतं च अधिदैवं तथैव च
कालसङ्ख्या च सर्गश्च तद्भवान्वक्तुमर्हति
सनत्कुमारः-
श्रूयतामानुपूर्व्येण नव सर्गाः प्रयत्नतः
तथा कालपरीणामं तत्त्वानामृषिसत्तम
अध्यात्ममधिभूतं च अधिदैवं तथैव च
कालसङ्ख्यां च सर्गं च सर्वमेव महामुने
तमसः कुर्वतस्सर्गस्तामसेत्यभिधीयते
ब्रह्मविद्भिर्द्विजैर्नित्यं नित्यमध्यात्मचिन्तकैः
पर्यायनामान्येतस्य कथयन्ति मनीषिणः
तानि ते सम्प्रवक्ष्यामि तदिहैकमनाश्शृणु
महार्णवोऽर्णवश्चैव सलिलं च गुणास्तथा
वेदास्तपश्च यज्ञाश्च धर्मश्च भगवान्विभुः
प्राणस्संवर्तकोऽग्निश्च व्योम कालस्तथैव च
नामान्येतानि ब्रह्मर्षे शरीरस्येश्वरस्य वै
कीर्तितानि द्विजश्रेष्ठ मया शास्त्रानुमानतः
चतुर्युगसहस्रात्तु चतुर्युगमरिन्दिम
प्राहुः कल्पसहस्रं वै ब्राह्मणास्तत्त्वदर्शिनः
दशकल्पसहस्राणि अव्यक्तस्य महायशाः
तथैव दिवसं प्राहुर्योगास्सङ्ख्याश्च तत्त्वतः
निशां सुप्त्वाऽथ भगवान्क्षपान्ते प्रतिबुध्यते
अहं कृत्वा सुखं तात ससर्ज प्रभुरीश्वरः
हिरण्यगर्भं विश्वात्मा अजं च जनितं मुनिम्
भूतभव्यभविष्यस्य कर्तारमनघं विभुम्
मूर्तिमन्तं महात्मानं विश्वं शम्भुं स्वयम्भुवम्
अणिमा लघिमा प्राप्तिमीशानं ज्योतिषां परम्
तस्य चापि निशामाहुर्वेदवेदाङ्गपारगाः
पञ्जकल्पसहस्राणि अहरेतावदेव च
स सर्ग कुरुते ब्रह्मा तामसस्यानुमूर्वशः
सृजते स त्वहङ्कारं परमेष्ठिनमव्ययम्
अहङ्कारेण वै लोका व्याप्तास्त्वाहङ्कृतेन वै
येनाविष्टानि भूतानि मज्जन्त्यव्यक्तसागरे
देवर्षिदानवनरा यक्षगन्धर्वकिन्नराः
उन्मज्जन्ति निमज्जन्ति ऊर्ध्वाधस्तिर्यगेव च
एतस्यापि निशामाहुस्तृतीयमथ कुर्वतः
त्रीणि कल्पसहस्राणि अहरेतावदेव च
अहङ्कारश्च सृजति महाभूतानि पञ्च वै
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमः
एतेषां गुणतत्त्वानि पञ्च प्राहुर्द्विजातयः
शब्दे स्पर्शे च रूपे च रसे गन्धे तथैव च
गुणेष्वेतेष्वभिरताः पङ्कलग्ना इव द्विपाः
नोत्तिष्ठन्ति वशीभूतास्सक्ता अव्यक्तसागरे
एतेषामिह वै सर्गं चुतुर्थमिह कुर्वतः
द्वे तु कल्पसहस्रे वै अहोरात्रस्तथैव च
अनन्त इति विख्यातः पञ्चमस्सर्ग उच्यते
इन्द्रियाणि दशैकं च यथाश्रुतिनिदर्शनात्
मनस्सर्गगतं तात विशत्सर्वमिदं जगत्
न तथाऽन्यानि भूतानि बलवन्ति यथा मनः
एतस्यापि तु वे सर्गं षष्ठमाहुर्द्विजातयः
अहः कल्पसहस्रं वै रात्रिरेतावती तथा
ऊर्ध्वस्रोतस्तु वै सर्गं सप्तमं ब्राह्मणा विदुः
अष्टमं चाप्यधस्स्रोतस्तिर्यक्तु नवमस्स्मृतः
एतानि नव सर्गाणि तत्त्वानि च महामुने
चतुर्विंशतिसूक्तानि कालङ्ख्याश्च तेऽनघ
अप्ययं प्रभवं चैव अव्यक्तस्य महामुने
प्रवक्ष्याम्यपरं तत्त्वं यस्य यस्येश्वरश्च यः
अध्यात्ममधिभूतं च अधिदैवं निबोध मे
यथा श्रुतं यथा दृष्टं तत्तथा वै निबोध मे
अधस्स्रोतसि सर्गे च तिर्यक्स्रोतसि चैव ह
एताभ्यामीश्वरं विद्यादूर्ध्वस्रोतस्तथैव च
कर्मेन्द्रियाणां पञ्चानामीश्वरो बुद्धिगोचरः
बुद्धीन्द्रियाणामथ तु मन ईश्वरमुच्यते
मनसः पञ्च भूतानि सद्गुणान्याहुरीश्वरम्
भूतानामीश्वरं विद्याद्ब्राह्माणं परमेष्ठिनम्
भगवान्हि कुशलश्चैव धर्मेष्वेव परेषु वै
कालाग्निरहस्वं ते जगद्दहति चांशुभिः
ततस्सर्वाणि भूतानि स्थावराणि चराणि च
हाहाभूतानि दग्धानि स्वयोनिं गमितानि वै
कूर्मपृष्ठनिभा भूमिर्निर्दग्धकुशकण्टका
निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा
जगत्प्रलीनं जगति जगत्यप्सु प्रलीयते
नष्टगन्धा तदा सूक्ष्मा जलमेवाभवत्तदा
ततो मयूखजालेन सूर्यस्यापीयते जलम्
जलात्मा प्रविलीयत्यर्के तदा ब्राह्मणसत्तम
अन्तरिक्षगतान्सर्वान्प्रदहत्यनलस्तथा
अग्निभूतं तदा व्योम भवतीत्यभिचक्षते
तं तथा विष्फुरन्तं हि वायुध्वंसायते महान्
महता बलवेगेन आदत्ते तं हि भानुमान्
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा
प्रणश्यति तदा वायुः खं तु तिष्ठति नानदत्
तस्य तं निनदं शब्दमादत्ते वै मनस्तदा
स शब्दगुणवानात्मा तिष्ठते मूर्तिमांस्तु वै
भुङ्क्ते तु स तदा व्योम मनस्तात दिगात्मकम्
व्योमात्मनि विनष्टे तु सङ्कल्पात्मा विवर्धते
सङ्कल्पात्मानमादत्ते चित्तं वै स्वेन तेजसा
चित्तं ग्रसत्यहङ्कारस्तदा वै मुनिसत्तम
विनष्टे च तदा चित्ते अहङ्कारभवे महान्
अहङ्कारं तदादत्ते महान्ब्रह्मा प्रजापतिः
अभिमाने विनष्टे तु महान्ब्रह्मा विराजते
तं तदा त्रिषु लोकेषु मूर्तिष्वेवाग्रमूर्तिजम्
येन विश्वमिदं कृत्स्नं निर्मितं वै गुणार्थिना
मूर्तिं जलेश्वरमपि व्यवसायगुणात्मकम्
ग्रसिष्णुर्भगवान्ब्रह्मा व्यक्ताव्यक्तमसंशयम्
एषोऽययो हि प्रलयो मया ते परिभाषितः
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम्
आकाशं प्रथमं भूतं श्रोत्रमध्यात्मं शब्दोऽधिभूतं दिशोऽधिदैवतम्
वायुर्द्वितीयं भूतं त्वगध्यात्मं स्पर्शोऽधिभूतं विद्युदधिदैवतं स्यात्
ज्योतिस्तृतीयं भूतं चक्षुरध्यात्मं रूपमधिभूं सूर्योऽधिदैवतं स्यात्
आपश्चतुर्थं भूतं जिह्वाऽध्यात्मं रसोऽधिभूतं सोमोऽधिदैवतं स्यात्
पृथिवी पञ्चमं भूतं घ्राणमध्यात्मं गन्धोऽधिभूतं वायुरधिदैवतं स्यात्
पाञ्चभौतिकमेतच्चतुष्टयमनुवर्णयिष्यामः
अत ऊर्ध्वं त्रिविधमिन्द्रियविधिमनुवर्णयिष्यामः
पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतं स्यात्
हस्तावध्यात्मं कर्तव्यमधिभूतं इन्द्रोऽधिदैवतं स्यात्
पायुरध्यात्मं विसर्गोऽधिभूतं अग्निरधिदैवतं स्यात्
उपस्थोऽध्यात्ममानन्दोऽधिभूतं प्रजापतिरधिदैवतं स्यात्
वागध्यात्मं वक्तव्यमधिभूतं अग्निरधिदैवतं स्यात्
मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधिदैवतं स्यात्
अहङ्कारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतं स्यात्
बुद्धिरध्यात्मं व्यवसायोऽधिभूतं ब्रह्माऽधिदैवतं स्यात्
एवमव्यक्तो भगवानसकृत्सर्गान्कुरुते संहरते च
कस्मात्क्रीडार्थम्
यथाऽऽदित्योंशुजालं क्षिपति संहरते च यथा चान्तरिक्षादभ्रकोशमुत्तिष्ठति
एवमव्यक्तो गुणान्सृजति संहरते च
यथा च कूर्मोऽङ्गानि कामात्प्रसारयते पुनश्च प्रवेशयति
एवमव्यक्तो लोकान्प्रसारयति गिरति च
चेतनश्च भगवान्पञ्चविंशकः शुचिस्तेनाधिष्ठिता प्रकृतिश्चेतयति
नित्यं सहधर्मा च भगवतोऽव्यक्तस्य क्रियावतोऽक्रियावान्भगवान्परमः प्रकृतिरहितः क्षेत्रज्ञः क्षेम्य इति
नारदः-
यद्यचेतना प्रकृतिः चेतनाधिष्ठिता चेतयति कस्मान्न मोक्षोऽस्ति
भवद्विधानां चेतस्काङ्क्षिणां चेतो हि पञ्चविंशकमुपदिशन्ति योगस्साग्ख्याश्च
तच्चायुक्तमुपदिशन्ति
तद्वचनाच्च अयुक्तः प्रकृतिसहधर्मा प्रकृतिं वर्तमानामनुवर्तत इति
अनुवर्तनाच्च मन्यामहे ‘अधिष्ठातृत्वादणुत्वाच्चेत’ इति
अतश्च भवत्येष दोष इति
यथा हि कश्चिद्दीर्घमध्वानं गच्छति सङ्गवानसङ्गस्यागमवतो गमने प्रयोजनं भवति
अथ गच्छति सोऽपि सङ्गीभवति
मत्स्यश्चोदकं च सहधर्मिणावेव
एवं भगवद्वचनात्प्रकृतिपुरुषौ
यद्युक्तं प्रवर्तमानं मत्स्योऽनुप्रवर्तते ननु सङ्गवान्भवति असङ्गी मत्स्यः तस्य किं सङ्गवृत्त्यानुवर्तनेन
सनत्कुमारः-
देवर्षे तत्रासङ्गं वर्णयन्ति पुरुषस्य
न भगवता व्यक्तेन सङ्गोऽस्ति निर्गुणस्य गुणिना
तत्र श्लोकानुदाहरन्ति बुधाः
तानुपधारयस्वैकार्थे पर्यायवचनं कृत्वा
अधिष्ठा पुरुषो नित्यं प्रकृत्या न च आत्मनः
तस्याभिमानो भवति तस्मादासङ्ग उच्यते
चेतना पुरुषो नित्यं कालस्य न च आत्मनः
तस्याभिमानो भवति तस्मादासङ्ग उच्यते
द्रष्टा हि पुरुषो नित्यं मनसो न च आत्मनः
तस्याभिमानो भवति तस्मादासङ्ग उच्यते
बोद्धा हि पुरुषो नित्यं वेदस्य न च आत्मनः
तस्याभिमानो भवति तस्मादासङ्ग उच्यते
श्रोता हि पुरुषो नित्यं क्षेत्रस्य न च आत्मनः
तस्याभिमानो भवति तस्मादासङ्ग उच्यते
कर्ता हि पुरुषो नित्यं परस्य न च आत्मनः
तस्याभिमानो भवति तस्मादासङ्ग उच्यते
देवर्षे तत्राङ्गं वर्णयन्ति पुरुषस्य
शुचुर्हि भगवान्क्षेत्रज्ञो शुचिनीं प्रकृतिमुदाहरन्ति
सङ्गी हि सङ्गवानसङ्गी चासङ्ग इति योऽसङ्गो ह्यात्मानं सङ्गिनमनुपश्यतीति स खल्वज्ञानीत्युच्यते
एतस्याविद्याग्रस्तस्य उद्भवाक्षेपशतकोटिशोऽप्येधमानस्याव्यक्तसागरे सुमहान्दुःखयोगो भवति
यथा च समुद्रं प्रयातस्य हुतप्रायश्चित्तस्य अर्थतर्षिणो वणिक्सङ्घस्य यानपात्रेऽर्णवादागतचणडवायुना भिद्यमान इतस्ततश्च विमलाभिरूर्मिभिर्भिद्यमानो हाहाभूतो जनो व्यापद्येत्
शतशश्चाप्राप्तमनोरथाः प्लवान्गृहीत्वा प्लवाश्चोन्मज्जन्ति निमज्जन्ति चान्योन्यमबलम्बमानाः
एवमज्ञानी पुरुषः संसारसागरमविद्यास्तमसदिति
नारदः-
भगवन्नच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमय्या यदा प्रकृतिस्तद्वत्पुरुषोऽप्येभिरेव गुणैर्युतः
तत्कथमनित्यां प्रकृतिमुदाहरन्ति नित्यं पुरुषमिति
सनत्कुमारः-
देवर्षे सम्यगभिहितं भवता
अच्छेद्याभेद्यादाह्यातर्क्यानन्त्याकल्प्यानादिमय्या प्रकृतिः पुरुषश्च कर्तृत्वादगुणानामनित्यां प्रकृतिमुदाहरन्ति अकर्तृत्वान्नित्यः पुरुषः
यदि प्रकृतिर्गुणान्कुर्याद्वेद चात्मानं पुरुषं च नित्यानित्यभाववीतरागत्वे चास्य निर्द्वन्द्वता चास्य
यदा त्वयमेवं स्यात्नान्यदस्ति परमित्यभिमन्यमानो नित्यत्वमेति
तत्र श्लोकानुदाहरन्ति
उभावमूर्ती ह्यजराबुभावेव महात्मभिः
विदितौ विषयी चैव विषयश्च महामुने
पुरुषो विषयी नित्यं प्रकृतिर्विषयस्स्मृतः
व्याख्यातौ शास्त्रविद्भिर्हि मशकोदुम्बरौ यथा
प्रकृतिर्न विजानाति भुज्यमानमचेतनम्
पुरुषश्चापि जानाति भुङ्क्ते यश्च स भुज्यते
महदादयो गुणा भोज्यं भोक्ता तु प्रकृतिर्द्विज
मन्यन्त्येवं विभागज्ञा भोक्तारं तस्य चेश्वरम्
ऐश्वर्यं भवतीशत्वात्प्रकृत्या द्विजसत्तम
अनीशत्वादनैश्वेर्यं पुरुषस्यानुचक्षते
विभूतित्वाद्विभुत्वं हि पुरुषस्य महामुने
द्वन्द्वभावादनित्यं हि त्रिगुणा प्रकृतिस्तथा
निर्द्वन्द्वो निर्गुणो नित्यः पुरुषोऽत्रानुचक्षते
क्रियाकरणयोगित्वादनित्या प्रकृतिर्द्विज
क्रियाकरणहिनो हि नित्यः पुरुष उच्यते
एवमनुमन्यन्ते
सत्त्वं क्षेत्रं परं शुभाकारकं चलं पूर्णकरं निशाकरं निशि निधिस्मृतिर्मतिरिति चैतानि प्रकृतिपर्यायनामानि
अथापराणि भूतं भव्यमभूतमभव्यमिति
सत्त्वं रजस्तम इति त्रिगुणमेतत्प्रकृतिमित्यनुपश्यति
अथ तदव्यक्तात्पुरुषमव्ययं शिवं क्षेममयं शुचि व्यभ्रमिति विमलममलमचलमजरममरमभवमिति
अभवमनयनमगमनं पृथगिति चैतानि पुरुषपर्यायनामानि
अत्र पश्यन्तु भवन्तः क्षेत्रज्ञं विमोक्षं विशोकं विमोहम्
विदम्भाद्विलोभविकारात्विरुद्धादानृशंस्यादलोल्यमशरणमभयमनवयवं पश्यति
एतद्यथा मशकोदुम्बरयोर्विवाससहवासमन्य एव स्वभावः एवमेव ज्ञानाज्ञानयोर्विवाससहवासः
अन्यदेव ज्ञानं प्रकृतिज्ञानं क्षेत्रज्ञस्त्यक्ष्यति
प्रकृतिं नवप्रकृतिं क्षेत्रज्ञं त्यक्ष्यति
मन्यते प्रकृतिं क्षेत्रज्ञं त्यक्ष्यति
मन्यते प्रकृतिं क्षेत्रज्ञः
न च प्रकृतिः क्षेत्रज्ञं मन्यते बुध्यते प्रकृतिं क्षेत्रज्ञः
न च प्रकृतिः क्षेत्रज्ञं बुध्यते
पश्यति प्रकृतिं क्षेत्रज्ञः न च प्रकृतिं क्षेत्रज्ञः पश्यति
एतद्विवाससहवासमित्येतन्नानात्वदर्शनं पश्यन्ति दैवज्ञाः
तदङ्गं पश्यतु भवान्पुरुषः
अत्र श्लोकमुदाहरन्ति-
योगाश्च साङ्ख्याश्च वदन्ति सम्यङ्न पञ्चविंशात्परमस्ति किञ्चित्
अथान्यथा पश्यति न त्वमेतं वयं तु पश्याम गुरोर्नियोगात्
इत्येतद्योगदर्शनमत्र साङ्ख्यैर्गीतम्
श्लोको भवति
पश्यः पश्यति पश्यन्तमपश्यन्तं च पश्यति
अपश्यस्तावपश्यत्वात्पश्यापश्यौ न पश्यतः
प्रकृतिः क्षेत्रज्ञः क्षेत्रज्ञं चापरः क्षेत्रज्ञः षड्विंशकोऽनुपश्यति
न तत्पञ्चविंशः क्षेत्रज्ञः प्रकृतिर्वा परं क्षेत्रज्ञं पश्यति देवर्षेयमयः
बहुभिरात्मभिरवाप्तमिदानीं
ये ह्येवं पश्यन्ति शिवं हि तेषामिहैव चामुत्र संशयो नास्ति
सुखं परं जन्म चाहं ब्रवीमि
न त्वितरं मृत्युं विवेदाहम्
प्रति विरमस्व बुद्धिविग्रहात्परमशुचिस्त्वमुपासन्निर्ममः
बहुभिररिभिरितदावृतं प्रकृतिमयं हि शरीरमध्रुवम्
यदि जयसि शरीरमेकतो ननु विजितास्तव सर्वशत्रवः
मुनिभिर्ऋषिभिर्निमितं परं परमशुचिमुपास्यते गताः
एतन्मयोपसन्ने तूपदिष्टं देवर्षे हिरण्यनाभस्य महासुरस्य शिवस्य चैतन्नमुचेर्नारदस्य वृत्रस्य विरोचनस्य बलेर्मरीचेः पुलस्त्यपुलहयोः, तथैव भृग्वङ्गिरसोरत्रिवसिष्ठकाश्यपानां शुकस्य चेन्द्रस्य बृहस्पतेश्चाङ्गिरसोत्तमाय
तथैव विश्वावसवे मयोक्तं गन्धर्वाप्सरोभिश्च
एतद्ब्रह्म सर्वत्र समं द्रष्टव्यम्
ब्रह्मणि चेन्द्रे शुनि कीटे पतङ्गे दंशमशकेषु सम्यगनुदर्शनाच्च पश्यामः
सर्वस्य मोक्षधर्मो विद्यते
एतत्पदमनुद्विग्नं जन्ममृत्युतमोनुदं उपशान्तं समुत्तीर्णमवस्थितमपज्वरम्
भीष्मः-
एतच्छ्रुत्वा द्विजश्रेष्ठो नारदस्स महामुनिः
परया मुदया युक्तः प्रणम्य शिरसा गुरुम्
प्रदक्षिणं च कृत्वाऽथ जगाम भवनं स्वकम्
भगवानपि तत्रैव सद्यस्त्वन्तरधीयत