युधिष्ठिरः-
अव्यक्तव्यक्ततत्वानां निश्चयं भरतर्षभ
वक्तुमर्हसि कौरव्य देवस्याजस्य या कृतिः
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कपिलस्यासुरेश्चैव सर्वदुःखविमोक्षणम्
अासुरिः-
अव्यक्तव्यक्ततत्त्वानां निश्चयं बुद्धिनिश्चितम्
भगवन्नमितप्रज्ञ वक्तुमर्हसि मेऽर्थतः
किं व्यक्तं किमव्यक्तं किं व्यक्ताव्यक्ततरं कति तत्त्वानि
किमाद्यं मध्यमं च तत्त्वानां किमध्यात्माधिभूतमधिदैवतं च
किं नु सर्गाप्ययं कति सर्गाः किं भूतं किं भविष्यं किं भव्यं च किं ज्ञानम्
को ज्ञेयं को ज्ञातां किं बुद्धं किमप्रतिबुद्धं किं बुध्यमानं कति पर्वाणि
कति स्रोतांसि कति कर्मयोनयः किमेकत्वं किं नानात्वम्
किं सहवासं निवासं किं विद्याविद्यमिति
कपिलः-
यद्भवानाह किं व्यक्तिं किमव्यक्तमिति अत्र ब्रूमः
अव्यक्तमग्राह्यमतर्क्यमपरिमेयमव्यक्तं SV-12-06-303-009AC
यथर्तवो मूर्तयस्तेषु पुष्पफलैर्व्यक्तिरुपलक्ष्यते तद्वद्व्यक्तं गुणैरुपलक्ष्यते
प्राग्गतं प्रत्यग्गतमूर्ध्वमधस्तिर्यक्च सतश्चानुग्राह्यत्वात्साऽऽकृतिः
अव्यक्तस्य तमो रजस्सत्त्वं तत्प्रधानं तत्त्वं परं क्षेत्रं सलिलममृतं भयमव्यक्तमक्षरमजं जीवदित्येवमादीन्यव्यक्तनामानि भवन्ति
एवमाह
अव्यक्तं बीजधर्माणं महाग्राहमचेतनम्
तस्मादेकगुणो जज्ञे तद्व्यक्तं तत्वमीश्वरः
तदेतदव्यक्तम्
प्रसवधारणादानस्वभावमापोधारणे प्रजनने दाने गुणानां प्रकृतिस्सदा पराप्रमत्तं तदेतदस्मिन्कार्यकरणे
यदप्युक्तं किं व्यक्तमित्यत्र ब्रूमः
व्यक्तं नामासुरे यत्पूर्वमव्यक्तादुत्पन्नतत्त्वमीश्वरमप्रतिबुद्धगुणस्थमेतत्पुरुषसञ्ज्ञिकं महदित्युक्तं धृतिरिति च सत्ता स्मृतिर्धृतिर्मेधा व्यवसायः समाधिप्राप्तिरित्येवमादीनि व्यक्तपर्याय नामानि वदन्ति SV-12-06-303-017AC
महतस्सिद्धिरायत्ता संशयश्च महद्यतः
परसर्गश्च दीप्त्यर्थमौत्सुक्यं च परं तथा
तदेषोर्ध्वस्रोताभिर्महत्त्वादप्रतिबुद्धत्वाच्चात्मनः प्रकरोत्यहङ्कारं व्यक्ताद्व्यक्ततरम्
यदप्युक्तं किं व्यक्ताव्यक्ततरमित्यत्र ब्रूमः
व्यक्ताव्यक्ततरं नाम तृतीयं पुरुषसञ्ज्ञकम्
तदेतदुभयोर्विरिञ्चवैरिञ्चयोरेकैकस्योत्पत्तिः
विरिञ्चोऽभिमानिन्यविवेक ईर्ष्या कामः क्रोधो लोभो दर्पो मोहो ममकारश्चैतान्यहङ्कारपर्यायनामानि भवन्ति
एवमाह
अहं कर्तेत्यहङ्कर्ता ससृजे विश्वमीश्वरः
तृतीयमेतं पुरुषमभिमानगुणं विदुः
अहङ्काराद्युगपदुत्पादयामास पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि
तान्येव बुद्ध्यन्त इत्येवमाह
भूतसङ्घमहङ्काराद्यो विद्वानवबुध्यसे
सोऽभिमानमतिक्रम्य महान्तं प्रतितिष्ठते
भूतेषु चाप्यहङ्कारमसद्रूपस्तथोच्यते
पुनर्विषयहेत्वर्थे स मनस्सञ्ज्ञकस्स्मृतः
विखराद्वैखरं युगपदिन्द्रियैः सहोत्पादयति
श्रोत्रं घ्राणं चक्षुर्जिह्वा त्वगित्येतानि शब्दस्पर्शरूपरसगन्धानवबुध्यन्त इति पञ्च बुद्धीन्द्रियाणि वदन्ति
एवमाहुराचार्याः
वाग्घस्तौ पादपायुरानन्दश्चेति पञ्च कर्मेन्द्रियाणि विशेषाः
आदित्योऽश्वीनि नक्षत्राणीत्येतानीन्द्रियाणां पर्यायनामानि भवन्ति
एवमाह
अहङ्कारात्तथा भूतान्युत्पाद्य महदात्मनोः
वैखरत्वं ततो ज्ञात्वा वैखरो विषयात्मकः
विकारस्थमहङ्कारमवबुध्याथ मानवः
महदैश्वर्यमाप्नोति यावदाचन्द्रतारकम्
यदप्युक्तं कति तत्वानि भवन्तीति
तत्त्वमेतानि मयाऽनुपूर्वशः पर्वोक्तानि
एवमाह
तत्त्वान्यतान्यथोक्तानि यथाविद्योऽनुबुद्ध्यते
न स पापेन लिप्येत निर्मुक्तस्सर्वसङ्करात्
यदप्युक्तं किमाद्यं मध्यमं च तत्त्वानामित्यत्र ब्रूमः
एतदाद्यं मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्वानि विशेषपर्यवसानानि ज्ञातव्यानि भवन्तीत्येवमाह
केनेत्यत्रोच्यते
देवदत्तयज्ञदत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिरेतानि ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्याभ्युक्तानि
एतदाद्यं मध्यमं च
एतस्मात्तत्त्वानामुत्पत्तिर्भवति अत्र प्रलीयन्ते
केचिदाहुराचार्याः
अहमित्येतदात्मकं सशीरसङ्घातं त्रिषु लोकेषु व्यक्तमव्यक्तसूक्ष्माधिष्ठितमेतद्देवदत्तसञ्ज्ञकम्
देहिनां योगदशमपुरुषदर्शनानां तु पञ्चविंशतितत्त्वानां बुध्यमानाप्रतिबुद्धयोर्व्यतिरिक्तमुपेक्षकं शुचि व्यभ्रमित्याहुराचार्याः
एवं चाह
चतुर्विंशतितत्त्वज्ञस्त्वव्यक्ते प्रतितिष्ठति
पञ्चविंशतितत्त्वज्ञो व्यक्तप्यधितिष्ठति
यदप्युक्तं किमध्यात्ममधिभूतमधिदैवतमिति
अत्र ब्रूमः
अध्यात्ममधिभूतमधिदैवतं चासुरे वक्ष्यामः
पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतं
पायुरध्यात्मं विसर्गमधिभूतं मित्रौऽधिदैवतम्
आनन्दोऽध्यात्ममनुभवोऽधिभूतं प्रजापतिरधिदैवतम्
हस्तवध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतम्
वागध्यात्मं वक्तव्यमधिभूतं सूर्योऽधिदैवतम्
घ्राणोऽध्यात्मं घ्रेयमधिभूतं भूमिरधिदैवतम्
श्रोत्रमध्यात्मं श्रोतव्यमधिभूतमाकाशमधिदैवतम्
चक्षुरध्यात्मं द्रष्टव्यमधिभूतं सूर्योऽधिदैवतम्
जिह्वाऽध्यात्मं रसोऽधिभूतमापोऽधिदैवतम्
त्वगध्यात्मं स्पृष्टमधिभूतं वायुरधिदैवतम्
मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधीदैवतम्
अहङ्कारोऽध्यात्मं अभिमानोऽधिभूतं विरिञ्जोऽधिदैवतम्
बुद्धिरध्यात्मं बोद्धव्यमधिभूतं पुरुषोऽधिदैवतम्
एतावदध्यात्ममधिभूतमधिदैवतं च सर्वत्र प्रत्येतव्यानि
ब्राह्मणे नृपतौ कीटे श्वपाके शुनि हस्तिनि
पुत्रिकादंशमशके विहङ्गे च समं भवेत्
अव्यक्तपुरुषयोर्योगाद्बुद्धिरुत्पद्यतेऽऽत्मनि
यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्
य एतत्त्रितयं वेत्ति शुद्धं चान्यदुपेक्षकम्
विरजो वितमस्कं च निर्मलं शिवमव्ययम्
सन्देहसङ्करान्मुक्तो निरिन्द्रियमनीश्वरम्
निरङ्कुरमबीजं च शाश्वतं तदवाप्नुयात्
यदप्युक्तं किं नु सर्गाप्ययमिति अत्र ब्रूमः
तद्यथा जरायुजाण्डजस्वेदजोद्भज्जाश्चत्वारो भूतग्रामाः कालाग्निनाऽहङ्कृतेनानेकसहस्रांशुना दह्यमानाः पृथिवीमनुप्रलीयन्ते
तदात्तगन्धा कूर्मपृष्टनिभा पृथिवी अप्सु प्रलीयते
तदुदकं सर्वमभवत्
अग्निरप्यादत्ते तोयं
तदाऽग्निभूतमभवत्
अग्निमप्यादत्ते वायुः
स वायुरुर्ध्वमधास्तिर्यक्च दोधवीति
तद्वायुभूतमभवत्
वायुमप्यादत्ते व्योम
तदाकाशमेव निनादमभवत्
तदाकाशं मनसि प्रलीयते
मनोऽहङ्कारो अहङ्कारो महति महानव्यक्ते तदेतद्प्रलीयते
प्रलयान्तान्महाप्रलय इत्युच्यते
प्रणष्टसर्वस्वस्तम एवाप्रतिमं भवति
अग्राह्यमच्छेद्यमभेद्यमप्रतर्क्यमनादिमचिन्त्यमनालम्ब्यमस्थानमव्ययमजं शाश्वतमिति
एवमाह
सर्गप्रलयमेतावत्तत्त्वतो योऽवबुध्यते
उत्तीर्य सोऽशिवादस्माच्छिवमानन्त्यमश्नुते
यदप्युक्तमासुरे कति सर्गाणि प्राकृतवैकृतानि भवन्तीति अत्र ब्रूमः
नवसर्गाणि प्राकृतवैकृतानि भवन्ति
अव्यक्तान्महदुत्पद्यते
तं विद्यासर्गं वदन्ति
महतश्चाहङ्कार उत्पद्यते
अहङ्कारत्पञ्चभूतसर्गः
भूतेभ्यो विकारः
यस्मात्कृत्स्नस्य जगतस्तेजस्तमेतत्प्रभवाप्यमेवमाहुः
उत्पत्तिनिधनं मध्यं भूतानामात्मनश्च यः
विद्याविद्ये च यो वेत्ति स वाच्यो भगवानिति
यदप्युक्तं किं भूतं किं भव्यं किं भविष्यं चेत्यत्र ब्रूमः
भूतं भव्यं भविष्यं चसुरे त्रैलोक्यं कालः स महात्मा सम्प्रतीतानागतानामुत्पादकानामुत्पादकं चानुग्राहकश्च तोरोभावकश्चेत्येवमाह
भूतभ्व्यभविष्याणां स्रष्टारं कालमीश्वरः
योऽवबुध्यति तद्गामी स दुःखात्परिमुच्यते
कतरस्माद्दुःखात्
जन्मजरामरणाज्ञानबधिरान्धकुब्जहीनातिरिक्ताङ्गावयवबन्धवैरूप्याचिन्ताव्याधिप्रभृतिभिरन्यैश्चानैकैरिति
यदप्युक्तं किं ज्ञानमिति अत्र ब्रूमः
ज्ञानं नामासुरे प्रज्ञा सा बुद्धिः यया बोद्धव्यमनुबुद्ध्यते
किं पुनस्तद्बोद्धव्यमित्यत्रोच्यते
बोद्धव्यं नाम द्विविधं इष्टानिष्टकृतम्
तद्यथा इदं धर्म्यमिदमधर्म्यं इदं वाच्यामिदमवाच्यं इदं कार्यामिदमकार्यं इदं ग्राह्यमिदमग्राह्यं इदं गम्यमिदमगम्यं इदं श्राव्यमिदमश्राव्यं किं भक्ष्यं किमभक्ष्यं इदं भोज्यमिदमभोज्यं इदं पेयमिदमपेयं इदं लेक्टयमिदमलेह्यं इदं चोष्यमिदमचोष्यं इदं
कुतश्चैतान्यवतिष्ठन्ते
क्व वा प्रलीयते कस्य वैतानि कस्य वा नैतानि
तत्र च्यवते
अव्यक्तादेतान्यवतिष्ठन्ते अव्यक्तमेवाभिप्रलीयन्ते
अव्यक्तस्यैतानि क्षेत्रज्ञस्य केनेदानीं कारणेनेष्टानीष्टकृतैर्द्वन्द्वैरवबुध्यते क्षेत्रज्ञः
कस्मादभिमन्यते ममैवेतानि द्वन्द्वानि
अहमेतेषां मत्तश्चैतान्यवतिष्ठन्ते मय्येवाबीप्रलीयन्त इत्येवमाह-
प्रवर्तमानान्प्रकृतेरिमान्गुणान्तमोवृतोऽयं विपरीतदर्शनः
अहं करोमीत्यबुधोऽवमन्यते तृणस्य कुब्जीकरणेऽप्यनीश्वरः
यदा त्वयमभिमन्यते
अव्यक्तादेतान्यवतिष्ठन्ते
अव्यक्तमेवाभिप्रलीयन्ते
अव्यक्तस्यैतानि नैतानि ममेति
तदाऽस्य विज्ञानाभिसम्बन्धाद्विवासोऽङ्गात्सृजति गुणान्भवेत्यवमाह
सेतुरिव भवेत्प्रकृतिर्जलमिव गुणा मत्स्यवत्क्षेत्रि
तस्मिन्स्वभावलुलिते जले प्रवृत्ते चरति मत्स्यः
एवं स्वभावयोगात्प्रकृतिगुणान्प्रकृतिरित्यभिमतं
नासौ ज्ञेषु प्रविचरति क्षेत्रज्ञो ज्ञः परः प्रकृतेरिति
यदप्युक्तं किं ज्ञेयमिति
अत्र ब्रूमः
ज्ञेयं नामासुरे पुरुषः पञ्चविंशतितत्त्वानि भवति
एवमाह
अव्यक्तं बुद्ध्यहङ्कारे महाबूतानि पञ्च च
विशेषान्पञ्च चैवाहुर्दशैकं च प्रयोजकान्
एकादशोन्द्रियाण्येव एतावज्ज्ञेयसञ्ज्ञितम्
पञ्च पञ्च हि वर्गाणि विज्ञेयान्येवमादधुः
पञ्चविंशतितत्त्वानि पञ्चविंशतितत्त्वतः
विशद्धः पुरुषश्चास्माद्वर्गहीनो न शोचति
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः
त्रयस्त्रिवर्गान्यो वेद शुद्धात्मनि स लीयते
के ते त्रयस्त्रिवर्ग इत्यत्र ब्रूमः-
सत्त्वं रजस्तम इति प्रथमः
उत्पाद्यकोऽनुग्राह्यकस्तिरोभावक इति द्वितीयः
बुद्धोऽप्रतिबुद्धो बुद्ध्यमान इति तृतीयः
एवमेते त्रयसत्रिवर्गा भवन्ति
एवमाह
त्रयस्त्रिवर्गान्विज्ञाय याथातथ्येन मानवः
कर्मणा मनसा वाचा प्रविमुक्तो न शोचति
कार्यं कारणं कर्तृत्वमिति वर्गगुणाः
के गुणाः
गुणमात्रा गुणलक्षणं गुणावयवम्
सत्त्वं रजस्तम इति गुणाः
तत्र तत्त्वदर्शनता भयनाशः स्वस्थभावता प्रसन्नेन्द्रियता सुखस्वप्नप्रतिबोधन इति सत्त्वमात्राः
रागिता मत्सरिता साहसिकता परितापिता अरिष्टस्वप्नप्रतिबोधनतेति रजोमात्राः
अलसता निद्रावेशिता धर्मद्वेषिता अकार्येष्वप्रमादता स्मृतिनाशश्चेति तमोमात्राः
गुणवृत्तमित्यपास्य सर्वभूतमध्यस्थः
तमसाऽभिभूतः स्वपितृसत्त्वविशुद्धोऽवबुध्यते
सुप्तप्रतिबोधनाननन्तरं रज इति अवयवान्य एवं विन्दते प्राज्ञस्सर्वतो विमुच्यत इति
कपिलः-
यदप्युक्तं को ज्ञातेति? अत्र ब्रूमः
ज्ञाता नामासुरे क्षेत्रज्ञो द्रष्टा शुचिरुपेक्षको ज्ञानात्मको बुध्यमानाप्रतिबुद्धयोः परं तं विदित्वा निरवयवमस्माद्दुःखाद्विमुच्यत इति
एवमाह- ‘पञ्चविंशतितत्त्वाद्विनिष्कलं शुचिमव्रणं न शोचति ’ वेदश्रुतिनिदर्शनात्
यदप्युक्तं किमप्रतिबुद्धं किं बुध्यमानं चेति
अत्र ब्रूमः
अप्रतिबुद्धं नामासुरे अव्यक्तं बुध्यमानं बुद्धिस्थं परमेताभ्यामन्यदुपेक्षकं शुद्धज्ञं व्यभ्रमिति
एवमाह
बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः
पारावर्यं विदित्वा तु ज्ञानसाफल्यमाप्नुयात्
ये त्वेवं नाम बुध्येरन्यथाशास्त्रनिदर्शनात्
त्रितयं तेष्वसाफल्यं शास्त्राभावादथासुरे
कपिलः-
यदप्युक्तं कति पर्वाणि भवन्तीति
अत्रोच्यते
तमो मोहो महामोहस्तामिस्त्रोऽन्धतामिस्त्र इति
तम इत्यज्ञानमेवाधिकरुते
मोह इत्यालस्यमेवाधिकुरुते
महामोह इति काममेवाधिकुरुते
कस्मान्महतामप्यत्र देवदानवमहर्षीणां महान्मोहो भवतीति
तामिस्र इति क्रोधमेवाधिकुरुते
अन्धतामिस्रइति विषादमेवाधिकुरुते
विषादश्च मृत्युः स चाप्रतिबुद्धस्य भवति
कस्मात्यत्सत्त्वस्थोऽहमिति पश्यन्मोहात्स सत्त्वविनाशे नित्यस्य क्षेत्रज्ञस्य विनाशमनुपश्यति
यत्त्रैकाल्यमन्धतामिस्रं विषादमेवर्छति अहं मरिष्यामि अहं मर्त्योऽनित्यत्वादज्ञानत्वाच्च मरणजननत्वे स्वशरीरसञ्ज्ञिते चाभिष्वजते
अहं तव मम त्वं माता मम मातुरहं पुत्रो मम पितुरित्येवमादिषु स्नेहायतनेष्वभिधत्ते
सततं दुःखानुद्वन्द्वः तासु तासु योन्यवस्थास्वभिनिविष्यमाणो मम सुखदुःखमित्येवमादिभिः सर्वद्वन्द्वैरभ्याहतोऽहङ्कारस्पृष्टो मात्सर्यकामक्रोधलोभमोहमानदर्पमदाविष्टस्तृष्णार्तश्चेन्द्रियानुकूलतो कृत्वाऽनियतमानसः शुभशुभमेव कर्म स्थावरनिरयतिर्यग्योनिष्ववपद्यते वर्षसहस्रकोटिशतान्यनन्तानि एकोऽनवबोधात्
एवं ह्याहुः-
पर्वाणि पर्वाणि घोराणि यो विद्वानवपद्यते
बध्यते मृत्युपाशौश्च हर्षशोकसमन्वितः
बुध्यमानो ह्यदीनात्मा विदितार्थस्तु तत्त्वतः
विमुच्यते मृत्युपाशैर्विद्यता गतनिश्चयः इति
यदप्युक्तं कति स्रोतांसि भवन्तीति अत्र ब्रूमः
पञ्चस्रोतांसि भवन्ति मिख्यस्रोतस्तिर्यक्स्रोत ऊर्ध्वस्रोतोऽर्वाक्स्रोतोऽनुग्रहस्रोतश्चेति
कपिलः-
यदप्युक्तं कति कर्मयोनयो भवन्तीति
अत्र ब्रूमः
पञ्चकर्मयोनयो भवन्ति धृतिनिश्चद्धा सुखा विविदिषाऽविविदिषा चेति
तत्र धृतिर्नाम कर्मयोनिः
धृतिं यो न रक्षति त्रिविधेन कर्मणा वाङ्मनससमुत्थानेनेति
एवमाह-
वाचि कर्मणि सङ्कल्पे प्रतिज्ञां यो न रक्षति
तन्निष्ठस्तत्प्रतिज्ञश्च धृतेरेतस्य लक्षणम्
श्रद्धा नां कर्मयोनिः
श्रद्धां यस्त्वधितिष्ठेत्सोऽनसूयादमादिभिः विज्ञेयानां सङ्गयोगब्रह्मचर्यगुरुकुलवासगृहस्थवानप्रस्थदानाध्ययनप्रतिग्रहमन्त्रािभिर्नक्षत्रनियमैः श्रेयः प्राप्स्यामीत्येवमनुष्ठानं कुरुत इति
एवमाह-
ब्रह्मचर्यानसूया च दानमध्ययनं तपः
यजनं यजनं चैव श्रद्धाया लक्षणं स्मृतम्
सुखं नाम कर्मयोनिः SV-12-06-303-182AC
तद्यथा सत्यं काममन्युविषयगोब्राह्मणकर्म अनुलोमानामपि प्रोक्ता सावित्रीत्यन्याश्च विद्या बह्व्यो ब्रह्मलोकं प्राप्नुवन्तीति
एवमाह-
कर्मविद्यातपोस्तु यो यत्नमनुतिष्ठति
प्रायश्चित्तं तपश्चैव तत्सुखायास्तु लक्षणम्
विविदिषा नाम कर्मयोनिः
सर्वं ज्ञातुकामता आगमांश्च कुरुते श्रुतिविशेषकाङ्क्षित्वसञ्ज्ञात्वसञ्ज्ञेति
क्व वा सञ्ज्ञत्येवमाह-
सर्वमेतत्परिज्ञाय कर्म ह्यारभते तु यः
सैषा विविदिषा नां कर्मयोनिरनुष्ठिता
अविविदिषा नाम कर्मयोनिः
सर्वमेवाज्ञातुकामता कर्मेभ्यो निवर्तनमित्येवमाह
सर्वमेतत्परिज्ञाय कर्मेभ्यो यो निवर्तते
सैषाऽविविदिषा नाम कर्मयोनिस्स्वनुष्ठिता
यदप्युक्तं, किमेकत्वं किं नानात्वमिति
अत्र ब्रूमः
एकत्वं नामासुरे यदयं सत्त्वमभिषते क्षेत्रज्ञः व्यक्तश्चाव्यक्तश्चाप्रतिबुद्धत्वादेकत्वमपदिश्यते
नानात्वं नाम यदयं सत्त्वादव्यक्ताच्च स्मृत्या समावर्तयते एतन्नानात्वमपदिश्यते
प्रतिबुद्धत्वादेवमेषां भैतिकाहङ्कारिकमाहात्मिकाव्यक्तीकानां चतुर्णां पुरुषाणां सत्त्वेनैकत्वं भवति
नानात्वं चेति
एवमाह
नानात्वैकत्वमेतावद्यो न विन्दत्यबुद्धिमान्
स बध्यते सर्वबन्धैरसम्बन्धाद्विमुच्यते
यदप्युक्तं सहवासविवासमिति
अत्र ब्रूमःSV-12-06-303-200A
क्षेत्रज्ञोऽव्यक्तं चाप्रतिबुद्धत्वादेतत्सहवासमित्यपदिश्यते
विवासं नाम यदयं सत्त्वादव्यक्ताच्च वासं प्रति समावर्तयते प्रतिबुद्धत्वादेतद्विवासमपदिश्यते
एष स प्रतिबुद्धविषयस्त्वभिषङ्गिणामेषां भौतिकाहङ्कारिकमाहात्मिकाव्याक्तिकानां चतुर्णां पुरुषाणां सहवासविवासमन्यत्वाद्
एवं चाह
विवासं सहवासं च यो विद्वान्नावबुध्यते
स बुद्धस्सत्त्वसंवासैस्संसारान्न प्रमुच्यते
कपिलः-
यदप्युक्तं किं विद्याविद्येति
अत्र ब्रूमः
अविद्या नामासुरे भवत्येषां इष्टानिष्टव्यतिरिक्ता त्रयी पुनर्भाविकी
विद्या नामासुरे भवतीष्टानिष्टव्यतिरिक्ताऽऽन्वीक्षिक्यपुनर्भाविकी सर्वभूताभयङ्करी सर्वभूतेष्वालोकानामयसर्वज्ञानावबोधनायाध्यात्मना सर्वदुःखनिर्मोक्षायोपदिष्टेत्याचार्याभिगमयाथातथ्यदर्शनान्न शोचति
एवमाह-
ऊर्ध्वं चावाक्च तिर्यक्च न क्वचित्कामयेद्बुधः
न हि ज्ञानेन चाज्ञानेन शर्म विन्दति मानुषम्
मानुषत्वाच्च देवत्वं देवत्वाच्च मनुष्यताम्
स तु सन्धावतेऽजस्रमविद्यावशमागतः
यस्त्वविद्यामधः कृत्वा विद्यार्थमवबुध्य च
नाभिनन्दति न द्वेष्टि विद्याविद्ये स बुद्धिमान्
पारावर्ये सुखं ज्ञात्वा विदित्वा च परं बुधः SV-12-06-303-212c
आसुरिः-
भगवन्कुशलाकुशलं वर्गावर्गं किं कृत्स्नं किं शुद्धाशुद्धं किं केवलाकेवलं किं परात्परं किं पश्यापश्यं किं शाश्वताशाश्वतं किं व्यतिरिक्ताव्यतरिक्तं किं यपगायोगमित्यत्र सन्देहो मे भवति अप्रत्यक्षत्वाच्च प्रत्यक्षं चैतद्भवति तदनुभाषितुमर्हति भगवाण्मदनुग्रहाय धर्मेणेति
कपिलः-
यदुक्तमासुरे किं कुशलाकुशलमिति
अत्र ब्रूमः
कुशलं नाम सर्वेषु वेदेषु सर्वेषु शास्त्रेषु व्द्यास्वधि
गतयाथातथ्यत्वम्
अकुशलत्वं नाम सर्वेषामनधिगतयाथातथ्यत्वम्
तदेतद्कुशलं कर्म सत्त्वमाहुः
सत्त्वमूले खल्वेते कुशलाकुशले सत्त्वभूते सत्त्व एव लयं गच्छतः
सत्त्वं चैवाविशेषस्त्यजति
तन्मूलं चैतत्कुशलाकुशलमशेषतस्सत्त्वमिति
एवमाह-
कायेन त्रिविधं कर्म वाचा चैव चतुर्विधम्
मनसा त्रिविधं चैव कुशलाकुशलं स्मृतम्
यदप्युक्तं किं वर्गावर्गमिति ? अत्र ब्रूमः
वर्गं नामासुरे पुरुषः पञ्चविंशतितत्त्वानि भवन्ति
अव्यक्तं महानहङ्कारः
एतस्माद्वर्गादवर्गा उपवेत्तिः क्षेत्रज्ञः शुचिरुपेक्षको बुध्यमानाप्रतिबुद्धयोः परस्तस्मात्
एवमाह-
पञ्चविंशात्पराद्व्यक्तमहङ्कारस्तोऽपरः
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा महान्परः
महतः परमव्यक्तमव्यक्तात्पुरुषः परः
परावरज्ञस्तत्त्वानां प्राप्नोत्यजमनुत्तमम्
कपिलः-
यदप्युक्तं किं कृत्स्नक्षयमिति
अत्र ब्रूमः
अव्यक्तं महान्बुद्धिरहङ्कारः पञ्च भूतानि पञ्च विशेषाः एकादशेन्द्रियाणि पुरुषेण ज्ञातव्यानि भवन्ति
स्वतस्तत्त्वानि नाहमेतेषां नैतानि मत्तस्सर्वतस्सर्वाणीति
एवमाह
सम्यग्दर्शनसम्पन्नः कृत्स्नक्षयमवाप्नुयात्
कृत्स्नक्षयं न चाप्नोति असम्यग्दर्शने रतः
यदप्युक्तं शुद्धाशुद्धमिति
अत्र ब्रूमः
शुद्धं नामा आसुरे क्षेत्रज्ञो द्रष्टा साक्षिमात्रको बुध्यमानाप्रतिबुद्धयोः परः पञ्चविंशतितत्त्वज्ञो यथा मन्तव्यं तथा मन्यते
यथा बोद्धव्यं तथा बुध्यते यथा वक्तव्यं तथा ब्रवीति यथा कर्तव्यं तथा करोति अहङ्काराप्रतिबुद्धत्वात्बुधेन क्षेत्रज्ञेन सर्वं दृष्टं सर्वागमाः सर्वद्वन्द्वानि सर्वज्ञानानि तपश्चातपश्च शुद्धश्चाशुद्धश्च
अनेन मर्गेण क्षेत्रस्याशुद्धधर्मिणः शुद्धमृच्छति धर्मेण ज्ञानदृष्टान्तागमप्रामाण्यात्सुविपुलमपि तपस्तप्त्वा संसार एव मज्जति अप्रतिबोधत्वात्
एवमाह
अशुद्धं पुरुषं दृष्ट्वा किं शुद्धिमिति मन्यते
स तपो विपुलं प्राप्य संसारे प्रतितिष्ठति
कपिलः-
यदप्युक्तं किं नित्यानित्यमिति
अत्र ब्रूमः
नित्यं नामासुरेऽव्यक्तमनित्या विकाराः अव्यक्तमनित्यं प्रवदन्ति सर्गप्रलयधर्मित्वद्विकाराणाम्
तथैवाधिष्ठातारमनित्यं प्रवदन्ति अधिष्ठानकर्तृत्वात्विकाराणाम्
अनेनैव हेतुना एवमेतयोरुभयोर्नित्यत्वान्नित्यः क्षेत्रज्ञ इत्येवमाह
बुध्यमानाप्रतिबुद्धाभ्यां बुद्धस्य च निरात्मनः
नित्यानित्यं विदित्वा तु न जन्म पुनराप्नुयात्
यदि ह्येष बुध्येत नाहमेतेषां प्रकृतिविकाराणामिति केवलः स्यादन्यश्च स्यात्
यदा त्वेष प्रकृतिविकारावधितिष्ठमानोऽभिमन्यते
ममैते प्रकृतिविकारा अहमेतेषामिति तदैष प्रकृतिविकाराणामधिष्ठितत्वादकेवलस्स्यात्
एवमाह
बुद्ध्यमानो यदा बुद्ध्या विकारानधितिष्ठति
तदा सह गुणैरेष सर्गप्रलयभाग्भवेत्
यदा त्वेष विकाराणामन्योन्यमिति मन्यते
तदा विकारानुत्क्रम्य परमयक्तमाप्नुयात्
कपिलः-
यदप्युक्तं किं परात्परमिति
अत्र ब्रूमः
परात्परं नाम आसुरे कर्मेन्द्रियेभ्यः परं बुद्धिन्द्रियं बुद्धीन्द्रियेब्यो मनः मनसो विशेषाः वुशेषेभ्यो महाबूतेभ्योऽहङ्कारः अहङ्काराद्बुद्धिः बुद्धेर्महान्महतश्चाव्यक्तं तदेतदासुरे परावरेण भवति अपरमेतत्
परमेतेभ्योऽन्यः क्षेत्रज्ञस्त्वसर्गप्रलयधर्मः सर्गप्रलयधर्मिणावबुद्धबुध्यमाणावव्यक्तपुरुषौ न त्वेतावत्बुध्यमानाप्रतिबुद्धत्वाद्बुद्धः
एवमाह-
बुध्यमानाप्रतिबुद्धाब्यां बुद्धस्य च निरात्मनः
परापरं विदित्वा तु न जन्म पुनराप्नुयात्
एवमेताभ्यां बुध्यमानाप्रतिबुद्धाभ्यामन्यं बुद्धं बुद्ध्वा न शोचतीति
कपिलः-
यदप्युक्तं किं पश्यापशयमिति
अत्र ब्रूमः
अनाद्यनिधनादग्राह्यत्वादासुरे शाश्वतमव्यक्तं प्रसवधारणादानगुणस्वभावत्वादशाश्वतमन्ये चाचार्याः
तथैवाधिष्ठातारमनेनैव हेतुना शाश्वतं च वर्णयन्ति
शाश्वतस्तु भगवान्क्षेत्रज्ञो बीजधर्मा प्रकृतिविकारयोर्व्यतिरिक्ताशुद्धधर्मा च मुक्तधर्मा चेत्येवमाह-
पश्यः पश्यति पश्यन्तमपश्यन्तं च पश्यति
अपश्यस्तावपश्यत्वात्पश्यापश्यौ न पश्यतः
यदप्युक्तं किं व्यतिरिक्ताव्यतिरिक्तामिति
अत्र ब्रूमः
व्यतिरिक्तं नामासुरे पुरुषः पञ्चविंशकः क्षेत्रज्ञः
यथा पुष्करपर्णे बिन्दुर्न श्लेषमुपगच्छति अन्यत्वात्तथा क्षेत्रं क्षेत्रज्ञः
यथा मुञ्जादिषिका निकृष्टा न पुनराविशति अन्यत्वात्तथा क्षेत्रं क्षेत्रज्ञः
कूलाद्वृक्षः पतन्तत्कूलं मुञ्जति अन्यत्वात्तथा क्षेत्रं क्षेत्रज्ञः
वृक्षाद्वा शकुनिरुत्पतन्स तं वृक्षमुत्सृजत्यन्यत्वात्तथा क्षेत्रं क्षेत्रज्ञः
कस्मादन्यत्वात्सर्वेषमेवमन्यत्वं कूलमन्यो वृक्षोऽन्यः मुशकोऽन्यो
अन्यश्चास्मात्क्षेत्रज्ञ इति
कपिलः-
यदप्युक्तं किं वियोगावियोगामिति
अत्र ब्रूमः
अवियोगो नामासुरे विषयविषयिणौ प्रति विशेषो भवत्य प्रतिबुद्धत्वात्
वियोगो नामासुरे पुरुषः पञ्चविंशतीनां तत्त्वानामसक्तो नाहमेतेषामन्ये चैते ममेत्यभिमन्यमानो वियोगी भवति
एवमेतदासुरे परं पुरुषाद्यद्व्यक्तमबुद्धं बुद्ध्यमानोऽभिमन्यते
नानाभावात्क्षेत्रधर्मा अव्यक्तः अक्षेत्रधर्मा क्षेत्रज्ञः तत्त्वधर्मा अव्यक्तः अतत्त्वधर्मा क्षेत्रज्ञः सर्गधर्मा अव्यक्तः असर्गधर्मा क्षेत्रज्ञः प्रकृतिधर्मा अव्यक्तः अप्रकृतिधर्मा क्षेत्रज्ञः अमुक्तधर्मा अव्यक्तः मुक्तधर्मा क्षेत्रज्ञः विमलर्मा अव्यक्तः अविमलधर्मा क्षेत्रज्ञः अबुद्धिधर्मा अव्यक्तः बुद्धिधर्माः क्षेत्रज्ञः अविवृतधर्मा अव्यक्तः विवृतधर्मा क्षेत्रज्ञः अकुशलधर्मा अव्यक्तः कुशलधर्मा क्षेत्रज्ञः अशुचिधर्मा अव्यक्तः शुचिधर्मा क्षेत्रज्ञः अपश्यधर्मा अव्यक्तः पश्यधर्मा क्षेत्रज्ञः अचेतनधर्मा अव्यक्तः चेतनधर्मा क्षेत्रज्ञः अवियोगधर्मा अव्यक्तः वियोगधर्मा क्षेत्रज्ञः अविमोक्षधर्मा अव्यक्तः विमोक्षधर्मा क्षेत्रज्ञः
किञ्च भूयो द्रष्टा क्षेत्रज्ञो द्रष्टव्यमव्यक्तं बोद्धा क्षेत्रज्ञः बोद्धव्यमव्यक्तम्
एवमेवासुरे अन्यद्द्रष्टव्यमन्यः पुरुषः पङ्चविंशतितत्त्वमन्यतन्योऽस्मात्क्षेत्रज्ञ इति
कपिलः-
एवमेतदासुरे बुद्ध्या बुद्ध्वा निर्नमस्कारः स्वाहाकारवषट्कारस्वधाकारानहङ्कारक्षेत्रज्ञशुद्धनिर्द्वन्द्वेन निर्द्वितीयेन शुद्धेनालुब्धेनाहिंसकेन यथालब्धोपजीविनाऽप्यपगतकामक्रोधलोभमोहमानदर्पेणात्मवता सर्वभूतदर्शनसम्यग्दृष्टिना यतात्मना शान्तेन दान्तेन शून्यागारनदीपुलिनवृक्षमूलवृक्षकोटरबुधागारावसथगृहानित्येन यात्रामात्राभोजनाच्छादनेन च यत्र क्वचन शायिना भिक्षुणा स्वकार्यमनुष्ठातव्यम्
प्रातिभाव्यमपवर्गं जित्वा योगेन योगकार्यमनुष्ठेयम्
तद्द्विविधं ध्यानम्
तद्यथा, प्राणायामात्मकं चतुर्विधं सगुणमप्राणायात्मकं च मानसमगुणम्
तद्यथा क्षोत्रं श्राव्येभ्यः जिह्वां रसेभ्यः मनो मन्तव्येभ्यः अहङ्कारमभिमानेभ्यः बुद्धिं बोद्धव्येभ्यः तदेतदिदमिन्द्रियग्राममस्मादिन्द्रियविषयात्स्वैस्स्वं निरुद्ध्य देवताः प्रतिसमावर्तयति
जलजानीव प्रलया येऽतमानसेभ्यः सङ्कल्पेभ्यः प्रतिसमावर्तयति मानसससङ्कल्पमिन्द्रियाणि च मानसेभ्यश्चैनं मानसेभ्यस्सङ्कल्पेभ्यः प्रतिसमावर्तयित्वा महात्मा क्रतुमुन्नयते
महात्मा कृतवो भूतादिश्च भूतविशेषाश्च महत्यात्मनि महान्तमात्मानं क्रतूंश्च विवेचयित्वा व्यक्तमनुयुङ्क्ते
तत्रातीत क्षेमीभवति
तस्मादयं विवृतो यश्च ततः क्षेत्रज्ञ असमावृतो भवति निर्द्वन्द्वो निर्द्वितीयः शुद्धो मुक्तो नित्यः कवलो भवेत्येषोऽन्तं एषोऽपवर्गः एषा निष्ठा एतन्नैष्कर्म्यम्
तद्यथा
तथोपनयनेन पूर्वतरैश्चाचार्यैर्यदुपदिष्टं तदेवोपदेशः
यथाऽस्य जाग्रतस्स्वप्नो यथा स्थात्तमसा वृतः
विभागज्ञस्य मोक्षस्तु यस्त्वज्ञस्स पुनर्भवेत्
कपिलः-
एतदेवासुरे ध्यानमनुवर्णितम्
परिसङ्ख्यानमपि चोक्तम्
चतुर्विंशतितत्त्वमेतत्कारणामित्यत्र ब्रूमः
तदेतद्बुद्ध्वा स्वं बद्ध्यमानमेतदाचार्याः शुद्धमित्यनवगच्छन्ति अनवबोधात्नान्यमगुणं पुरुषम्
कस्त्वेषोऽधिष्ठातृसञ्ज्ञकः प्रकृतिविकाराणामन्यस्त्वप्रकृतिविकारः
तदेतत्प्रकृतिविकारसञ्ज्ञकादन्यदव्यक्तमव्यक्तात्पुरुषं शुद्धं निष्कैवल्यमनवयवमनामयमजं क्षेम्यमेवमाह -
येनेयं ससुता बहुप्रसविनी गोराश्रयालम्बिना येनस्थाः पुरुषाश्च योनिविहिता बद्धाप्रबुद्धा भगवान्
द्रष्टा चैव परो गुणैर्विरहितो ज्ञानात्तुरीयोऽक्षयो यस्तद्वर्तयतीह यः कृतमतिर्मुक्तस्स योन्याधिकः
तदेतदुपसङ्ख्यानमनुवर्णितं याथातथ्यदर्शनातनवबुद्धानां प्रतिबोधनमिति
कपिलः-
साङ्गोपाङ्गेषु सेतिहासपञ्चमेष्वासुरे वेदेष्वष्टादशसु विद्यास्थानेष्वमृतमुद्धृत्य मयाऽनुवर्णितं साङ्ख्याज्ञानमेतावदेतज्ज्ञातव्यं पञ्चविंशतितत्त्वानि
तदेतत्नापुत्राय नाशिष्याय नासर्वस्वप्रदायिने नासंवत्सरोषिताय वा वर्तितव्यम्
परमज्ञानमित्यर्थमृषयो वेदप्रोक्तं वेद्यं वेत्स्यतीति तदेतदासुरे नावबुध्यन्त्यक्षीणपाप्मानः
अन्यथैव प्रवृत्ताः स्वाहाकारस्वधाकारोङ्कारवषट्कारैः ऋषिकोटिसहस्राण्यनन्तानि इष्टानिष्टकृतेन कर्मणा
तथैव देवदानवासुरपिशाचभूतराक्षससविद्याधरगन्धर्वयक्षनागकिन्नरादयोऽन्ये भूतग्रामा अज्ञानथमाश्रिता अज्ञानमेवोपलीयन्ते चासकृदज्ञानात्स्थावरतिर्यग्योनिष्वेवोपपद्यन्ते वर्षकोटोसहस्राण्यनेकानि
कथञ्चित्कस्यचिद्धर्मबद्धिरपि स्यात्
तत एव मोक्षबुद्धिः
प्रतिकूला दुःखनिवर्तनमेव कुर्वन्तो भावोत्पादकं त्रैलोक्यादन्यदपश्यन्तो निस्सरणं त्रैलोक्यमेवागाधं प्रपतन्ति
तद्वदासुरे लौकिकेष्वपि दर्शनेषु परं वेदप्रामाण्यम्
ते चापि दुःखसंसारवर्तका एवं कुर्वतः ; कुत एव, वेदार्थं यज्ञो यज्ञार्थं स्वर्गः स्वर्गस्सुखार्थं सुखं च मोहायतनमिष्ठं मोहप्रभवं जन्म
तच्च सुखदुःखहैतुकमोहप्रभवं जन्म
तथैव चापि निधनम्
तच्चापि दुःखहैतुकरतं तस्मान्मन्त्रग्रामो दुःखस्य परस्परं हेतुः
तस्मादुपशमरुचयो समुद्रौघमुत्तिष्ठन्तो हित्वा सर्ववेदानुपशमशास्त्रेषु प्रयुज्यन्ते
तदभ्यासाच्च शास्त्रस्य दुःखमार्गावच्छेदं कुर्वन्ति
स्वात्मन्येकत्वेवावतिष्ठन्ते शीतीभूता अमृतप्राप्ताः
एवमाह-
तेषां शास्त्राभ्यासाद्दुःखस्रोतो निवर्तते छिन्ने दुःखस्रोतसिशान्तिरिहान्ताय दुःखस्य
तदेतदासुरे मयोत्पन्नमात्रेणैवावबुद्धं प्राकृतज्ञानम्
यदन्तरोत्पन्नस्तत्र भगवान्विरिञ्जोऽपि क्रोशितवान्सप्तकृत्व इति
यदा न तस्य कश्चित्प्रतिवचनं प्रायच्छत्ततः प्रवृत्तस्तत्र भगवान्पुनस्सर्गाय निवृत्त इति
भीष्मः-
तदेतद्परमं ज्ञानं आसुरेराचार्येणानुशासितं परमर्षिणा भगवता कपिलेन परेण बहुमानेन
भगवता चासुरिणा शास्त्रं भगवते पञ्चशिखाय पङ्चशिखेन कात्यायनाय कात्यायनेन गौतमाय गौतमेन गार्ग्याय गार्ग्यणावट्यायनाय आवट्यायनेनर्षिभ्यः
तदेतत्परमं तत्परेण भगवता व्यासेन व्यासान्मयाऽवाप्तं परमज्ञानं मत्तो भवताऽवाप्तमिति
तदेतद्ब्राह्मणांस्तात श्रावयेत्संशितव्रतान्
क्षत्रियान्याज्ञिकांश्चैव प्रजापालनतत्परान्
वैश्यांश्च नृपशार्दूल सर्वातिथ्यकृतव्रतान्
शूद्रांश्च शुश्रूषणपरान्सर्वसत्त्वहिते रतान्
यद्यपि स्युस्त्रयो वर्णा यज्ञेनाधिक्रियन्ति वै
मन्त्रवर्जं तु शूद्राणां क्रिया दृष्टा इति श्रुतिः
सूत्रकारवचस्त्वेतद्वेदकारवचस्तदा
शास्त्रकारास्तथा चैतत्प्रवदन्तीति नश्श्रुतम्