युधिष्ठिरः-
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत्
तपसा वा सुमहता कर्मणा वा श्रुतेन वा
रसायनप्रयोगैर्वा कैर्नाप्नोति जरान्तकौ
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च
वैदेहो जनको राजा महर्षिं जनकस्य च
पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम्
जनकः-
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ
तपसा वाऽथवा बुद्ध्या कर्मणा वा श्रुतेन वा
भीष्मः-
एवमुक्तस्स वैदेहं प्रत्युवाचा परोक्षवित्
निवृत्तिर्नैतयोरस्ति नातिवृत्तिः कथञ्चन
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः
सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः
सर्वभूतसमुच्छेदस्स्रोतसेवोह्यते सदा
ऊह्यमानं च मज्जन्तमप्लवे कालसागरे
जरामृत्युमहाग्राहे न कश्चिदवपद्यते
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित्
पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित्
क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः
कालेन जाता याता हि वायुनेवाभ्रसञ्चयाः
जरामृत्यू हि भूतानां खादितारौ वृकाविव
बलिनां दुर्बलानां च ह्रस्वानां महतामपि
एवम्भूतेषु भूतेषु नित्यभूताध्रवेषु च
कथं द्रुह्येत जातेषु वृत्तेषु च न सञ्ज्वरेत्
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च
आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च