याज्ञवल्क्यः-
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगास्सदा
शतधा सहस्रधा चैव तथा शतसहस्रधा
कोटिशश्च करोत्येष प्रकृत्याऽऽत्मानमात्मना
सात्विकस्योत्तमं स्थानं राजसस्येह मध्यमम्
तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः
केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात्
पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम्
द्वन्द्वमेषां त्रयाणां तु सन्निपातं च तत्त्वतः
सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे
सत्त्वस्य तु रजो द्वन्द्वं रजसश्च तमस्तथा
तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च
अध्यक्तस्सत्वसंयुक्तो देवलोकमवाप्नुयात्
रजस्सत्त्वसमायुक्तो मानुषेषूपपद्यते
रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते
रजस्सत्त्वतमोभिश्च युक्तो मानुषमाप्नुयात्
पुण्यपापविमुक्तानां स्थानमाहुर्महात्मनाम्
शाश्वतं चाव्ययं चैवमचलं चाक्षरं च ह
ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम्
अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम्
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप
स एष प्रकृतिस्थो हि तत्स्थ इत्यभिधीयते
अचेतनश्चैव मतः प्रकृतिस्थश्च पार्थिव
एतेनाधिष्ठितश्चैव सृजते संहरत्यपि
जनकः-
अनादिनिधनावेतावुभावेव महामने
अमूर्तिमन्तावचलावप्रकम्प्यौ गुणागुणौ
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे
साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः
निस्तत्त्वं केवलत्वं च विनाभावं तथैव च
दैवतानि च मे ब्रूहि देहं यान्याश्रितानि वै
तथैवोत्क्रमणस्स्थानं देहिनो वै वियुज्यतः
कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मेऽनघ
साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च
अरिष्टानि च तत्त्वानि वक्तुमर्हसि सत्तम
विदितं सर्वमेतत्ते पाणावामलकं यथा
याज्ञवल्क्यः-
न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे
गुणी हि गुणवानेव निर्गुणश्चागुणस्तथा
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते
उपयुङ्क्ते च तानेव स चैवाज्ञस्स्वभावतः
अव्यक्तस्तु न जानीते पुरुषोऽज्ञस्स्वभावतः
न मत्तः परमस्तीति नित्यमेवाभिमन्यते
अनेन कारणेनैतदव्यक्तं स्यादचेतनम्
नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा
यदज्ञानेन कुरुते गुणसर्गं पुनः पुनः
यदात्मानं न जानीते तदव्यक्तमिहोच्यते
कर्तृत्वाच्चैव तत्त्वानां तत्त्वधर्मीत्यथोच्यते
कर्तृत्वाच्चापि सर्गाणां सर्गधर्मी तथोच्यते
कर्तृत्वाच्चैव योगीनां योगधर्मीत्यथोच्यते
कर्तृत्वात्प्रकृतीनां च तथा प्रकृतिधर्मि वै
कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते
गुणानां प्रसवत्वाच्च तथा प्रसवधर्मी च
कर्तृत्वात्प्रलयानां तु तथा प्रलयधर्मि च
कर्तृत्वात्भावनानां तु तथा प्रभवधर्मि च
बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च
उपेक्षितत्वादन्यत्वादभिमानाच्च केवलम्
मन्यन्ते यतयस्सिद्धा अध्यात्मज्ञा गतज्वराः
अनित्यं नित्यमव्यक्तं एवमेतच्च शुश्रुमः
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषे तथा
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः
अन्यस्स पुरुषोऽव्यक्तादध्रुवाद्ध्रुवसञ्ज्ञकः
यथा मुञ्ज इषीकायां तथैवैतद्धि जायते
अन्यं तु मशकं विद्यादन्यच्चोदुम्बरं तथा
न चोदुम्बरसंयोगे मशकस्तत्र लिप्यते
अन्य एव तथा मत्स्यस्तथाऽन्यदुदकं स्मृतम्
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति कर्हिचित्
अन्यो ह्यग्निरुखाऽप्यन्या नित्यमेवमवेहि भोः
न चैव लिप्यते सोऽग्निरुखासंस्पर्शनेन वै
पुष्करं त्वन्यदेवात्र तथाऽन्यदुदकं स्मृतम्
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्
एतेषां सह संवासं विवासं चैव नित्यशः
याथातथैनं पश्यन्ति न नित्यं प्राकृता जनाः
ये त्वन्यथैनं पश्यन्ति न सम्यक्तेषु दर्शनम्
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम्
एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम्
अतः परं प्रवक्ष्यामि योगानामपि दर्शनम्