याज्ञवल्क्यः-
तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च
मया प्रोक्ताऽनुपूर्वेण संहारमपि मे शृणु
यथा संहरते जन्तून्ससर्ज च पुनः पुनः
अनादिनिधनो ब्रह्मा नित्य ईश्वर एव च ||
अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा
चोदयामास भगवानव्यक्तोऽहङ्कृतं नरम्
ततश्शतसहस्रांशुरव्यक्तेनाभिचोदितः
कृत्वा द्वादशधाऽऽत्मानमादित्यो ज्वलदग्निवत्
चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा
जराय्वण्डस्वेदजानि उद्भिज्जं स नराधिप
एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम्
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः
जगद्दग्ध्वाऽमितबलः केवलां जगतीं ततः
अम्भसा बलिना क्षिप्रमापूयति समन्ततः
ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम्
विनष्टेऽम्भसि राजेन्द्र जाज्वलत्यनलो महान्
तमप्रमेयातिबलं ज्वलमानं विभावसुम्
ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा
भक्षयामास बलवान्वायुरष्टात्मको बली
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा
तमप्रतिबलं भीममाकाशं ग्रसते पुनः
आकाशमप्रतिबलं मनो ग्रसति चारिकम्
मनो ग्रसति सर्वात्मा सोहङ्कारः प्रजापतिः
अहङ्कारो महानात्मा भूतभव्यभविष्यवित्
तमप्यनुपमात्मानं विश्वशम्भुः प्रजापतिः
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम्
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति
हृदयं सर्वभूतानां पर्वणाऽङ्गुष्ठमात्रकः
अणुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः
ततस्समभवत्सर्वमक्षयाव्ययमव्रणम्
भूतभव्यभविष्याणां स्रष्टारमनघं तथा
एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम्