याज्ञवल्क्यः-
अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे
पञ्चकल्पसहस्राणि द्विगुणान्यहरुच्यते
रात्रिरेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम्
ततो ब्रह्माणमसृजद्धिरण्याण्डसमुद्भवम्
सा मूर्तिस्सर्वभूतानामित्येवमनुशुश्रुमः
संवत्सरमुषित्वाऽण्डे निष्क्रम्य च महामुनिः
सन्दधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः
द्यावापृथिव्यावित्येतद्राजन्वेदेषु पठ्यते
तयोश्शकलयोर्मध्यमाकाशमकरोत्प्रभुः
एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः
दशकल्पसहस्राणि पादोनान्यहरुच्यते
रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः
सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा
चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः
ते वै पितृभ्यः पितरश्श्रूयन्ते राजसत्तम
देवाः पितॄणां च सुता देवैर्लोकास्समावृताः
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम
परमेष्ठी त्वहङ्कारस्सृजन्भूतानि पञ्चधा
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते
शब्दस्स्पर्शश्च रूपं च रसो गन्धस्तथैव च
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु
यैराविष्टानि भूतानि अहन्यहनि पार्थिव
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्याहिते रताः
अन्योन्यमभिपद्यन्ते अन्योन्यस्पर्धिनस्तथा
ते बध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते
रात्रिरेतावती चैव मनसश्च नराधिप
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः
न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति
तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते
मनस्युपरते राजन्निन्द्रियोपरमो भवेत्
न चेन्द्रियेषूपरमे मनस्युपरमो भवेत्
एवं मनःप्रधानानि इन्द्रियाणि प्रभावयेत्
इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते
एतद्विशे हि भूतानि सर्वाणीह महायशः