वसिष्ठः-
अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु
गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा
अजस्रं त्विह क्रीडार्थं विकरोति जनाधिप
आत्मानं बहुधा कृत्वा तान्येव प्रविचक्षते
एतदेवं विकुर्वाणं बुध्यमानो न बुध्यते
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि
न त्वेनं बुध्यतेऽव्यक्तं सगुणं वाऽथ निर्गुणम्
कदाचित्तेन खल्वेतदाहुरप्रतिबुद्धकम्
बुध्यते यदि वाऽव्यक्तमेतद्वै पञ्चविंशकम्
बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमप्युत
अव्यक्तोबोधनाच्चैव बुध्यमानं वदन्त्युत
पञ्चविंशकमात्मानं न चासावपि बुध्यते
षड्विंशं विमलं बुद्धमप्रमेयं सनातनम्
स तु तं पञ्चविंशं च चतुर्विंशं च बुध्यते
दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती
अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम्
केवलं पञ्चविंशं तु चतुर्विंशोऽनुपश्यति
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते
तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः
बुध्यते परमं बुद्धं विशुद्धमचलोपमम्
षड्विंशं राजशार्दूल तथा बुद्धत्वतां व्रजेत्
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम्
निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम्
ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात्
केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात्
एतं वै तत्त्वमित्याहुर्निस्तत्त्वमजरामरम्
तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मैथिल
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः
न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान्
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम्
षड्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः
केवलेन बलेनैव समतां यात्यसंशयम्
षड्विंशेन प्रबुद्धेन बुध्यमानो ह्यबुद्धिमान्
एवं नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात्
चेतनेन समेतस्य पञ्चविंशतिकस्य च
एकत्वं चैव तत्वस्य यदा बुद्ध्या न बुध्यते
बुध्यमानोऽप्रबुद्धेन समतां याति मैथिल
सङ्गधर्मा भवत्येष निस्सङ्गात्मा नराधिप
निस्सङ्गात्मानमासाद्य षड्विंशकमजं विभुम्
विभुस्त्यजति चाव्यक्तं यदा त्वेतद्वि बुध्यते
चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात्
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ
प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात्
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः
मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते
एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः
एतद्धि मोक्ष इत्युक्तमव्यक्तज्ञानसञ्ज्ञितम्
पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात्
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः
परेण परधर्मा च भवत्येष समेत्य वै
विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान्
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ
वियोगधर्मिणा चैव वियोगात्मा भवत्यपि
विमोक्षिणा विमोक्षी च समेत्येह तथा भवेत्
शुद्धधर्मा शुचिश्चैव भवत्यमितदीप्तिमान्
विमलात्मा च भवति समेत्य विमलात्मना
केवलात्मा तथा चैव केवलेन समेत्य वै
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते
एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम्
अमत्सरत्वं प्रतिगृह्य चार्थं सनातनं ब्रह्म विशुद्धमाद्यम्
नावेदनिष्ठस्य जनस्य राजन्प्रदेयमेतत्परमं त्वया भवेत्
विवित्समानाय विबोधकारणं प्रबोधहेतोः प्रणतस्य शासनम्
न देयमेतच्च तथाऽनृतात्मने शठाय क्लीबाय न जिह्मबुद्धये
न पण्डितज्ञानपरोपतापिने देयं त्वयेदं विनिबोध यादृशे
श्रद्धान्वितायाथ गुणान्विताय परापवादाद्विरताय नित्यम्
विशुद्धयोगाय बुधाय चैव क्रियावऽते च क्षमिणे हिताय
विविक्तशीलाय विधिप्रियाय विवादहीनाय बहुश्रुताय
द्विजातये चैव दमक्षमान्विते शक्ताय चैवात्मसमाय देहिनाम्
एतैर्गुणैर्हीनतमे न देयमेतत्परं ब्रह्म विशुद्धमाहुः
न श्रेयसा योक्ष्यति तादृशे कृतं धर्मप्रवक्तारमपात्रदानात्
पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्विदमव्रताय
जितेन्द्रियायैतदसंशयं ते भवेत्प्रदेयं परमं नरेन्द्र
कराल मा ते भयमस्तु किञ्चिदेतच्छ्रुतं ब्रह्म परं त्वयाऽद्य
यथावदुक्तं परमं पवित्रं विशोकमत्यन्तमनादिमध्यम्
अगाधजन्मामरणं च राजन्निरामयं वीतभयं शिवं च
समीक्ष्य मोहं त्यज चाऽद्य सर्वे ज्ञानस्य तत्त्वार्थमिमं विदित्वा
अवाप्तमेतद्धि पुरा सनातनाद्धिरण्यगर्भाद्ब्रुवतो नराधिप
प्रसाद्य यत्नेन तमुग्रतेजसं सनातनं ब्रह्म यथाऽद्य वै त्वया
पृष्टो यथाऽद्यस्मि त्वया नरेन्द्र तथा मयेदं त्वयि चोक्तमद्य
यथाऽवाप्तं ब्रह्मणो मे नरेन्द्र महाज्ञानं मोक्षविदां नरेन्द्र
भीष्मः-
एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः
पञ्चविंशो महाराज परमर्षिनिदर्शनात्
पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च
न यो बुध्यति तत्त्वेन बुध्यमानोऽजरामरम्
एतन्निश्श्रेयसकरं ज्ञानं ते परमं मया
कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप
हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना
वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम्
नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम्
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम्
येन क्षराक्षरे वित्ते भयं तस्य न विद्यते
विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव
अविज्ञानाच्च मूढात्मा पुनः पुनरुपाद्रवत्
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते
देवलोकं तथा तिर्यङ्मनुष्यमपि चाश्नुते
यदि बुध्यति कालेन तस्मादज्ञानसागरात्
उत्तीर्णोऽस्मादगाधात्स परमाप्नोति शोभनम्
अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते
अहन्यहनि मज्जन्ति यत्र भूतानि भारत
तस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात्
तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव