वसिष्ठः-
साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मि वै
सर्गप्रलयनिर्मुक्तं विद्यां वै पञ्चविंशकम्
एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववित्
परस्परमविद्या वै तं निबोधानुपूर्वशः
यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम्
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम्
बुद्धीन्द्रियाणां च तथा विशेषा इति नश्श्रुतम्
विशेषेण मनस्तेषां विद्यामाहुर्मनीषिणः
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते
अहङ्कारस्तु भूतानां पञ्चानां नात्र संशयः
अहङ्कारस्य च तथा बुद्धिर्विद्या नरेश्वर
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम्
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमस्स्मृतः
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम्
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव
ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम्
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः
विद्याविद्येऽर्थतत्त्वेन मयोक्ते ते विशेषतः
अक्षरं च क्षरं चैव तदुक्तं तन्निबोध मे
उभावेतौ क्षरावुक्तावुभावेतौ न चाक्षरौ
कारणं तु प्रवक्ष्यामि यथाज्ञानं तु तत्त्वतः
अनादिनिधनावेतावुभावेवेश्वरौ मतौ
तत्त्वसञ्ज्ञावुभावेतौ प्रोच्येते ज्ञानचिन्तकैः
सर्गप्रलयधर्मत्वादव्यक्तं प्राहुरक्षरम्
तदेतद्गुणसर्गाय विकुर्वाणं पुनःपुनः
गुणानां महदादीनामुत्पद्यन्ति परम्परा
अधिष्ठानात्क्षेत्रमाहुरेतत्तत्पञ्चविंशकम्
यदा तु गुणजालं तदव्यक्तात्मनि सङ्क्षिपेत्
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत्
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे सम्प्रलीयते
तदाऽक्षरत्वं प्रकृतिर्गच्छते गुणसञ्ज्ञिता
निर्गुणत्वं च वैदेह गुणेष्वप्रतिवर्तनात्
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षये
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुमः
क्षरो भवत्येष यदा तदा गुणवतीमथ
प्रकृतिं त्वभिजानाति निर्गुणत्वं तथाऽऽत्मनः
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात्
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान्
तदैषा त्वन्यतामेति न च मिश्रकतां व्रजेत्
प्रकृत्या चैष राजेन्द्र न मिश्रोऽन्यस्स दृश्यते
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते
पश्यते चापरं पश्यं तदा पश्यन्न संस्वजेत्
किमहं कृतवानेवं योऽहं कालमिमं जनम्
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवांस्तथा
अहमेव हि सम्मोहादन्यमन्यं जनाज्जनम्
मत्स्यो यथोदकज्ञानादनुवर्तितवानिह
मत्स्योऽन्यत्वमथो ज्ञानादुदकादभिमन्यते
आत्मनस्तद्वदज्ञानादन्यत्वं चैव वेद्म्यथ
ममास्तु धिगबुद्धस्य योऽहमज्ञ इमं पुनः
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम्
अयमत्र भवेद्बन्धुरनेन सह मे क्षमम्
साम्यमेकत्वतां यातो यादृशस्तादृशस्त्वहम्
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै
अयं हि विमलोऽव्यक्तमहमीदृशकस्तथा
योऽहमज्ञानसम्मोहादज्ञया सम्प्रवृत्तवान्
ससङ्गया हि निस्सङ्गस्स्थितः कालमिमं त्वहम्
अनयाऽहं वशीभूतः कालमेतं न बुद्धवान्
उच्चमध्यमनीचानां तामहं कथमावसे
सहानया यया चेह सहवासमिमं कथम्
गच्छाम्यबुधभावत्वादेषेदानीं स्थिरीभवेत्
सहवासं न यास्यामि कालमेतं हि वञ्चनात्
वञ्चितोस्म्यनया यद्धि निर्विकारो विकारया
न चायमपराधोऽस्या अपराधो ह्ययं मम
योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः
अतोऽस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान्
अमूर्तश्चापि मूर्त्यात्मा ममत्वेन प्रधर्षितः
प्रकृतेरनयत्वेन तासु तास्विह योनिषु
निर्ममस्य ममत्वेन किं कृतं तासु तासु च
योनीषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा
न ममात्रानया कार्यमहङ्कारकृतात्मना
आत्मानं बहुधा कृत्वा सेयं भूयो युनक्ति माम्
इदानीमेष बुद्धोऽस्मि निर्ममो निरहङ्कृतः
ममत्वमनया नित्यमहङ्कारकृतात्मकम्
अवेत्याहमिमां हित्वा संश्रयिष्ये निरामयम्
अनेन साम्यं यास्यामि नानयाऽहमचेतसा
क्षणं मम सहानेन नैकत्वमनया सह
एवं परमसम्बोधात्पञ्चविंशोऽनुबुद्धवान्
अक्षरत्वं निगच्छेत त्यक्त्वा क्षरमनामयम्
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा
निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल
अक्षरक्षरयोरेतदुक्तं तत्वनिदर्शनम्
मयेह ज्ञानसम्पन्नं यथाश्रुतिनिदर्शनात्
निस्सन्दिग्धं च सूक्ष्मं च विबुद्धं विमलं यथा
प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम्
साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात्
यदेव साङ्ख्यशास्त्रोक्तं योगदर्शनमेव तत्
प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया
बृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनश्शरः
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप
साङ्ख्यानां तु परं तत्त्वं यथावदनुवर्णितम्
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम्