वसिष्ठः-
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात्
सर्गकोटिसहस्राणि पतनान्तानि गच्छति
धाम्ना धामसहस्राणि मरणान्तानि गच्छति
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः
लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान्
कला पञ्चदशी योनिस्तद्धाम इति पठ्यते
नित्यमेतद्विजानीहि सोमष्षोडशमी कला
कलया जायतेऽजस्रं पुनः पुनरबुद्धिमान्
धाम तस्योपयुञ्जन्ति पितृदेवगणाः पुनः
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम्
न तूपयुज्यते देवैर्देवानुपयुनक्ति सा
एवं तां क्षपयित्वा हि जायते नृपसत्तम
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते
तदेवं षोडशकलं देहमव्यक्तसञ्ज्ञकम्
ममायमिति मन्वानस्तत्रैव परिवर्तते
पञ्चविंशस्तथैवात्मा तस्यैवाप्रतिबोधनात्
विमलश्च विशुद्धश्च शुद्धामलनिषेवणात्
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव
अबुद्धसेवनाच्चापि बुद्धोऽप्यबुद्धतां व्रजेत्
तथैवाप्रतिबुद्धोऽपि विज्ञेयो नृपसत्तम
प्रकृतेस्त्रिगुणायास्तु सेवनात्त्रिगुणो भवेत्
करालजनकः-
अक्षरक्षरयोरेष द्वयोस्सम्बन्ध उच्यते
स्त्रीपुंसोर्वापि भगवन्सम्बन्धस्तद्वदुच्यते
ऋते न पुरुषेणेह स्त्री गर्भं धारयत्युत
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा
अन्योन्यस्यैव सम्बन्धादन्योन्यगुणसंश्रयात्
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु
स्त्रीपुंसोरभिसंरोधादन्योन्यगुणसंश्रयात्
ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम्
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा
अस्थि स्नायु च मज्जानं जानीमः पितृतो द्विज
त्वङ्मांसं शोणितं चेति मातृजान्यपि शुश्रुमः
एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते
वेदशास्त्रप्रमाणं च प्रमाणं तु सनातनम्
एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषौ
पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते
अथवाऽनन्तरकृतं किञ्चिदेव निदर्शनम्
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम्
अदेहमजरं नित्यमतीन्द्रियमनीश्वरम्
वसिष्ठः-
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम्
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान्
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः
न तु ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वर
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य तद्धारणं वृथा
ग्रन्थस्यार्थं च पृष्टस्संस्तादृशो वक्तुमर्हति
यथातत्त्वाधिगमनादर्थं तस्य स विन्दति
वस्तु संसत्सु कथयेद्ग्रन्थार्थं स्थूलबुद्धिमान्
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात्
निर्णयाद्वाऽपि छिद्रात्मा न तं वक्ष्यति तत्त्वतः
सोऽपहास्यात्मतामेति यस्माच्चावाप्तवानपि
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते
याथातथ्येन साङ्ख्येषु योगेषु च महत्सु च
यदेव योगाः पश्यन्ति साङ्ख्यैस्तदनुचक्षते
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च
एतदैन्द्रियकं तात यच्च त्वमिदमात्थ वै
द्रव्याद्द्रव्यस्य निष्पत्तिमिन्द्रियादिन्द्रियं तथा
देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्यास्य देहिनः
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च
एवं गुणाः प्रकृतितो जायन्ते निविशन्ति च
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च
अष्टौतान्यथ शुक्रेण जानीहि प्राकृतानि वै
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम्
नैवापुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति साऽऽत्मजैः
यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते
पञ्चविंशतिमस्तात लिङ्गेष्वनियतात्मकः
अनादिनिधनोऽनन्तस्सर्वदर्शी निरामयः
केवलं त्वभिमानित्वाद्गुणेष्वगुण उच्यते
गुणा गुणवतस्सन्ति निर्गुणस्य कुतो गुणाः
तस्मात्तेन विजानन्ति ये जना गुणदर्शिनः
यदा त्वेष गुणानेत्य निर्गुणस्त्वभिमन्यते
तदा स गुणवानेव परमेणानुपश्यति
यत्तद्बुद्धेः परं प्राहुस्साङ्ख्ययोगाश्च सर्वशः
बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात्
अप्रबुद्धमथाव्यक्तं सगुणं प्राहुरनीश्वरम्
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः
साङ्ख्ययोगे च कुशला बुध्यन्ते परमर्षिणः
यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः
बुध्यमानं न बुध्यन्ते गमयन्ति समं तदा
एतन्निदर्शनं सम्यगसम्यक्चार्थदर्शनम्
बुध्यमानप्रबुद्धाभ्यां पृथक्पृथगरिन्दम
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम्
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते
पञ्चविंशतिनिष्ठोऽयं यदा सम्यक्प्रचक्षते
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम्
तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम्
पञ्चविंशतितत्वं तु तत्त्वमाहुर्मनीषिणः
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम्
वर्गस्य वर्गमाचारं तस्मात्सत्त्वात्सनातनम्