वसिष्ठः-
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तनात्
देही देहसहस्राणि सदा समभिपद्यते
तिर्यग्योनौ मनुष्यत्वे कदाचिद्देवतास्वपि
उपपद्यति संयोगाद्गुणैस्सह गुणक्षयात्
मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च
मानुष्यान्निरयं स्थानमानन्त्यं प्रतिपद्यते
कोशकारो यथाऽऽत्मानं कीटस्समवरुद्ध्यति
सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः
द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे
जलोदरे प्लीहरोगे ज्वरे मण्डविषूचके
श्वित्रे कुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि
यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिषु
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि
शुक्लवासाश्च दुर्वासाश्शायी नित्यमधस्तथा
मण्डूकशायी च तथा वीरासनगतस्तथा
चीरधारणमाकाशे शयनं स्थानमेव च
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा
भस्मप्रस्तरशायी च भूमिशय्याऽनुलेपनः
वीरस्थानेऽम्बुपङ्के च शयनं फलकेषु च
विविधासु च शय्यासु फलगृद्ध्यान्वितस्तथा
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च
शणवालपरीधानो व्याघ्रचर्मपरिच्छदः
सिंहचर्मपरीधानः पट्टवासास्तथैव च
कीटकार्पासवसनश्चीरवासास्तथैव च
वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान्
भोजनानि विचित्राणि व्रतानि विविधानि च
एकवस्त्रान्तराशित्वमेककालिकभोजनम्
चतुर्थाष्टमकालश्च षष्ठकालिक एव च
षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः
सप्तरात्रदशाहारो द्वादशाहार एव च
मासोपवासी मूलाशी फलाहारस्तथैव च
वायुभक्षोऽम्बुपिण्याकगोमयादान एव च
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च
शेवालभोजनश्चैव तथाऽऽचामेन वर्तयन्
वर्तयञ्जीर्णपर्णैश्च प्रकीर्णफलभोजनः
विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया
चान्द्रायणानि विधिना चीर्णानि विविधानि च
चातुराश्रम्यपन्थानमाश्रयत्याश्रमानपि
उपासीनश्च पाषण्डान्गुहाश्शैलांस्तथैव च
विविक्ताश्च शिलाच्छायास्तथा प्रस्रवणानि च
विविधानि च जप्यानि व्रतानि विविधानि च
नियमान्सुविचित्रांश्च विविधानि तपांसि च
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा
वणिक्पथं द्विजं क्षत्रं वैश्यं शूद्रं तथैव च
दानं च विविधाकारं दीनान्धकृपणादिषु
अभिमन्यत्यसम्बोधात्तथैव त्रिविधान्गुणान्
सत्वं रजस्तमश्चैव धर्मार्थौ काममेव च
प्रकृत्याऽऽत्मानमेवात्मा एवं प्रविभजत्युत
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः
याजनाध्यापने दानं तथैवाहुः प्रतिग्रहम्
यजनाध्ययने चैव यच्चान्यदपि किञ्चन
जन्ममृत्युविवादे च तथा विशसनेऽपि च
शुभाशुभमयं सर्वमेतदाहुः क्रियाफलम्
प्रकृतिः कुरुते देवी महाप्रलयमेव च
दिवसान्ते गुणानेतानावृत्यैकोऽवतिष्ठते
रश्मिजालमिवादित्यस्तत्तत्काले नियच्छति
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते
आत्मा रूपगुणानेतान्विविधान्हृदयप्रियान्
एवमेष विकुर्वाणस्सर्गप्रलयकर्मणी
क्रियाक्रियापथे रक्तस्त्रिगुणास्त्रिगुणातिगः
क्रियाक्रियापथोपेतस्तथा तदभिमन्यते
मम द्वन्द्वान्यथैतानि मम वर्तन्ति नित्यशः
ममैवैतानि जायन्ते बाधन्ते तानि मामिति
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप
मन्यत्ययं ह्यबुद्धित्वात्तथैव सुकृतान्यपि
भोक्तव्यानि मयैतानि देवलोकगतेन वै
इहैव चैतद्भोक्ष्यामि शुभाशुभफलोदयम्
पुण्यमेव तु कर्तव्यं नाकृत्वा सुखमेधते
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम्
मम दुःखं हि मानुष्यं निरये चापि मज्जनम्
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः
मनुषत्वाच्च निरयं पर्यायेणोपगच्छति
य एवं वेत्ति नित्यं वै निरात्मात्मगुणैर्वृतः
तेन देवमनुष्येषु निरये चोपपद्यते
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते
सर्गकोटिसहस्राणि मरणान्तासु योनिषु
य एवं कुरुते कर्म शुभाशुभफलात्मकम्
स एवं फलमश्नाति त्रिषु लोकेषु मूर्तिमान्
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे
तथैव पौरुषं लिङ्गमनुमानाद्धि गम्यते
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम्
व्रणद्वाराण्यधिष्ठाय कर्मणाऽऽत्मनि मन्यते
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च
वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैस्सह
अहमेतानि वै कुर्वन्मय्येतानीन्द्रियाणि ह
निरिन्द्रियो हि मन्येत व्रणवानस्मि निर्व्रणः
अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः
असत्त्वस्सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः
अमृत्युर्मृत्युमात्मानमतमास्तम आत्मनः
अक्षेत्रः क्षेत्रमात्मानमसर्गस्सर्गमात्मनः
अतपास्तप आत्मानमगतिर्गतिमात्मनः
अभवो भवमात्मानमभयो भयमात्मनः
अकर्ता चैव कर्तृत्वमबीजो बीजमात्मनः
अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते