युधिष्ठिरः-
साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि
तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम
भीष्मः-
साङ्ख्यास्साङ्ख्यं प्रशंसन्ति योगं योगा द्विजातयः
वदन्ति कारणैश्श्रैष्ठ्यं स्वपक्षोद्भावनाय वै
अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन
वदन्ति कारणैश्श्रैष्ठ्यं योगास्सम्यङ्मनीषिणः
वदन्ति कारणं चेदं साङ्ख्यास्सम्यग्द्विजातयः
विज्ञायेह गतीस्सर्वा विरक्तो विषयेषु यः
ऊर्ध्वं च देहमुत्सृज्य विमुच्येदिति नान्यथा
एतदाहुर्महाप्राज्ञास्साङ्ख्या वै मोक्षदर्शनम्
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम्
शिष्टानां हि मतं ग्राह्यं त्वद्विधैश्शिष्टसम्मतैः
प्रत्यक्षहेतवो योगास्साङ्ख्याश्शास्त्रविनिश्चयाः
उभे चैते मते युक्ते मम तात युधिष्ठिर
उभे चैते मते ज्ञाने नृपते शिष्टसम्मते
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्
तुल्यं शौचं तयोरेकं दया भूतेषु चानघ
व्रतानां धारणं तुल्यं दर्शनं न समं तयोः
युधिष्ठिरः-
यदि तुल्यं व्रतं शौचं दया चात्र फलं तथा
तुल्यं न दर्शनं कस्मात्तन्मे ब्रूहि पितामह
भीष्मः-
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्
योगाच्छित्त्वाऽदितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत्
यथा चानिमिषास्स्थूला जालं छित्त्वा पुनर्जलम्
प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः
प्राप्नुयुर्विमलं मार्गं विमुक्तास्सर्वबन्धनैः
लोभजानि तथा राजन्बन्धनानि बलान्विताः
छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शिवम्
अबलाश्च मृगा राजन्वागुरासु तथा परे
विनश्यन्ति न सन्देहस्तद्वद्योगबलादृते
बलहीनाश्च कौन्तेय यथा जालं गता झषाः
अन्तं गच्छन्ति राजेन्द्र योगास्तद्वत्सुदुर्बलाः
यथा च शकुनास्सूक्ष्मं प्राप्य जालमरिन्दम
तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परन्तप
अबला वै विनश्यन्ति विमुच्यन्ते बलान्विताः
अल्पकश्च यथा राजन्वह्निश्शाम्यति दुर्बलः
आक्रान्त इन्धनैस्स्थूलैस्तद्वद्योगबलं प्रभो
स एव च यदा राजन्वह्निर्जातबलः पुनः
समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि
तद्वज्जातबलो योगी दीप्ततेजा महाबलः
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत्
दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः
बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः
तदेव च यथा स्रोतो विष्टम्भयति वारणः
तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून्
विशन्ति चावशाः पार्थ योगाद्योगबलान्विताः
प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः
न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः
ईशते नृपते सर्वे योगस्यामिततेजसः
आत्मनां च सहस्राणि बहूनि भरतर्षभ
योगी कुर्याद्बलं प्राप्य तैश्च सर्वैश्चरेन्महीम्
प्राप्नुयाद्विषयांस्तैश्च पुनश्चोग्रं तपश्चरेत्
सङ्क्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव
विमोक्षे प्रभविष्णुत्वमुपपन्नमसंशयम्
बलानि योगे प्रोक्तानि मयैतानि विशां पते
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव
आत्मनश्च समाधाने धारणां प्रति चाभि भो
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः
युक्तस्सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम्
स्नेहपूर्णे यथा पात्रे दीपमादाय निश्चलम्
पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः
युक्तस्तथाऽयमात्मानं योगः पार्थिव निश्चलम्
करोत्यमलमात्मानं भास्करोपमदर्शनम्
यथा च नावं कौन्तेय कर्णधारस्समाहितः
महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम्
तद्वदात्मसमाधानं युक्त्वा योगेन योगवित्
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः
देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ
तथैव नृपते योगी धारणासु समाहितः
प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः
आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः
जलं हन्तेव मीनानां पदमाप्नोति सोऽजरम्
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः
दर्शने श्रवणे चैव घ्राणे चामितविक्रम
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशाम्पते
स शीघ्रममलप्रख्यं कर्म कृत्वा शुभाशुभम्
उत्तमं योगमास्थाय यदीच्छति विमुच्यते
युधिष्ठिरः-
आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति
भीष्मः-
कणानां भक्षणे युक्तः पिण्याकस्य च भारत
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात्
भुञ्जानो यावकं रूक्षं दीर्घकालमरिन्दम
एकारामो विशुद्धात्मा योगी बलमवाप्नुयात्
पक्षान्मासानृतूंश्चैव सञ्चरंश्च शुभांस्तथा
अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात्
अखण्डमपि वा मांसं सततं मनुजेश्वर
उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्नुयात्
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च
भयं निद्रां तथा श्वासं पौरुषान्विषयांस्तथा
अरतिं दुर्जयां चैव घोरां तृष्णां च भारत
स्पर्शान्सर्वांस्तथा तन्द्रीं दुर्जयां नृपसत्तम
दीपयन्ति महात्मानस्सूक्ष्ममात्मानमात्मना
वीतरागा महाप्रज्ञा ध्यानाध्ययनसम्पदा
दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम्
न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम्
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम्
अभक्तमटवीप्रायं दावदग्धमहीरुहम्
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा
योगमार्गं तथाऽऽसाद्य यः कश्चिद्व्रजते द्विजः
क्षेमेणोपरमेन्मार्गो बहुदोषो हि स स्मृतः
सुस्थेयं क्षुरधारासु निशितासु महीपते
धारणासु तु योगस्य दुस्स्थेयमकृतात्मभिः
विपन्ना धारणास्तात नयन्ति नशुभां गतिम्
नेतृहीना यथा नावः पुरुषानर्णवे नृप
यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि
मरणं जन्म दुःखं च सुखं च स विमुञ्चति
नानाशास्त्रेषु निष्पन्नं लोकेष्वेवमुदाहृतम्
परं योगं तु यत्कृत्स्नं निश्चितं तद्द्विजातिषु
परं हि तद्ब्रह्ममयं महात्मा ब्रह्माणमीशं वरदं च विष्णुम्
भवं च धर्मं च षडाननं च षड्ब्रह्मपुत्रांश्च महानुभावान्
तमश्च कष्टं सुमहद्रजश्च सत्वं च शुद्धं प्रकृतिं परां च
सिद्धिं च देवीं वरुणस्य पत्नीं तेजश्च कृत्स्नं सुमहच्च धैर्यम्
ताराधिपं वै विमलं सतारं विश्वांश्च देवानुरगान्पितॄंश्च
शैलांश्च कृत्स्नानुदधींश्च घोरान्नदीश्च सर्वास्सवनान्घनांश्च
नागान्नगान्यक्षगणान्दिशश्च गन्धर्वसङ्घान्पुरुषान्स्त्रियश्च
परात्परं प्राप्य महान्महात्मा विशेत्तु योगी नचिराद्विमुक्तः
कथा च सेयं नृपते प्रसक्ता देवे महावीर्यतमे शुभेयम्
योगान्सर्वानभिभूयेह मर्त्यान्नारायणात्मा कुरुते महात्मा