भीष्मः-
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः
पराशरं महात्मानं धर्मे परमनिश्चयम्
जनकः-
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति
क्व गतो न निवर्तेत तन्मे ब्रूहि द्विजोत्तम
पराशरः-
असङ्गश्श्रेयसो मूलं ज्ञानं वचै परा गतिः
चीर्णं तपो न प्रणश्येत्संसिद्धो न निवर्तते
छित्त्वाऽधर्ममयं पाशं यदा धर्मेऽभिरज्यते
दत्त्वाऽभयकृतं दानं तदा सिद्धिमवाप्नुते
यो ददाति सहस्राणि गवामश्वशतानि च
अभयं यश्च भूतेभ्यस्सदा दानमभिवर्तते
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान्
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि
नाधर्मश्श्लिष्यते प्राज्ञमापः पुष्करपर्णवत्
अप्राज्ञमधिकं पापं श्लिष्यते जतुकाष्ठवत्
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति
कर्ता खलु यथाकालं तत्सर्वमभिपद्यते
न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते
शुभाशुभेषु सक्तानां प्राप्नोति सुमहद्भयम्
वीतरागो जितक्रोधस्सम्यग्भवति यस्सदा
विषये वर्तमानोऽपि न स पापेन युज्यते
मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति
पुष्टस्रोत इवासक्तस्स्फीतिर्भवति सञ्चयः
यथा भानुगतं तेजो मणिश्शुद्धस्समाधिना
आदत्ते राजशार्दूल तथा योगः प्रवर्तते
यथाऽनिलानामिह पुण्यसंश्रयात्पृथक्पृथग्याति गुणोऽपि साम्यताम्
तथा नराणां भुवि भावितात्मनां यथाश्रयं सत्वगुणः प्रवर्तते
जहाति राजन्विहितेन सम्पदस्सदश्वयानं विविधाश्च याः क्रियाः
त्रिविष्टपे जातमतिर्यदा नरस्तदाऽस्य बुद्धिर्विषयेषु बद्धयते
प्रसक्तबुद्धिर्विषयेषु यो नरो न विन्दते ह्यात्महितं कदाचन
स सर्वभावानुगतेन चेतसा नृपामिषेणेव झषोऽपकृष्यते
सङ्घातवन्मर्त्यलोकः परस्परमपाश्रितः
कदलीगर्भनिस्सारो नौरिवाप्सु निमज्जति
न धर्मकालः पुरुषस्य निश्चितो न चापि मृत्युः पुरुषं प्रतीक्षते
सदा हि धर्मस्य क्रियैव शोभना तदा नरो मृत्युमुखेऽतिवर्तते
यथाऽन्धस्स्वगृहे युक्तो अभ्यासादेव गच्छति
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम्
मरणं जन्मनि प्रोक्तं जन्म वै मरणं श्रितम्
अविद्वान्मोक्षधर्मेषु अन्धो भ्रमति चक्रवत्
यथा मृणालानुगतमाशु मुञ्चति कर्दमम्
तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते
मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति
युक्तो यदा स भवति तदा तं पश्यते परम्
परार्थे वर्तमानस्तु स्वं कार्यं योऽतिवर्तते
इन्द्रियार्थेषु सक्तस्स स्वकार्यात्परिहीयते
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम्
प्राप्नोति सुकृतैरात्मा प्राज्ञस्येहेतरस्य च
मृन्मये भाजने पक्वे यथा वै नश्यति द्रवः
तथा शरीरं तपसा तप्तं विषयमश्नुते
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम्
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति
नीहारेण हि संवीतश्शिश्नोदरपरायणः
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम्
तथा मर्त्यार्णवाज्जन्तोः कर्मविज्ञानतो गतिः
अहोरात्रमये लोके जरारूपेण सञ्चरन्
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते
नाकृत्वा लभते कश्चित्किञ्चिदत्र प्रियाप्रियम्
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति
दुर्बलो दृश्यते ह्यस्य विनिपातो महार्णवे
यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना
तथा मनोभियोगाद्वै शरीरं प्रविकर्षति
यथा समुद्रमभितस्संयूतास्सरितः पराः
तथाऽन्या प्रकृतिर्योगादभिसंसीयते सदा
स्नेहपाशैर्बहुविधैरासक्तमनसो नराः
प्रकृतिस्थाश्च सीदन्ति जले सैकतवेश्मवत्
शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च
विस्तराः क्लेशसंयुक्तास्सङ्क्षेपास्तु सुखावहाः
परार्था विस्तरास्सर्वे त्यागमात्महितं विदुः
सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः
भार्या पुत्रश्च दासश्च स्वमर्थमनुयुञ्जते
न माता न पिता किञ्चित्कस्यचित्प्रतिपद्यते
दानपथ्याशनो जन्तुस्स्वकर्मफलमश्नुते
माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा
अष्टापदपदस्थाने त्वक्षामुद्रेव लक्ष्यते
सर्वाणि कर्माणि पुराकृतानि शुभाशुभान्यात्मनो यान्ति जन्तोः
उपस्थितं कर्मफलं विदित्वा बुद्धिं तथा चोदयतेऽन्तरात्मा
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति
न तस्य कश्चिदारम्भः कदाचिदवसीदति
अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम्
न श्रीस्सन्त्यजते नित्यमादित्यमिव रश्मयः
आस्तिक्यव्यवसायाभ्यामुपायान्वितया धिया
य आरभत्यनिन्द्यात्मा न सोऽर्थः परिसीदति
सर्वस्स्वानि शुभाशुभानि नियतं कर्माणि जन्तुस्स्वयं गर्भात्सम्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम्
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता दारैश्चूर्णसमानसारविहितं कर्मान्तिकं प्रापयेत्
स्वरूपतामात्मकृतं च विस्तरं कुलान्वयं द्रव्यसमृद्धिसञ्चयम्
नरो हि सर्वो लभते यथाकृतं शुभाशुभेनात्मकृतेन कर्मणा
भीष्मः-
इत्युक्तो जनको राजन्याथातथ्यं मनीषिणा
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह