पराशरः-
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः
तपोविधिं तु वक्ष्यामि तन्मे निगदतश्शृणु
प्रायेण हि गृहस्थस्य ममत्वं नाम जायते
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम्
मोहजाता रतिर्नाम समुपैति नराधिप
रत्यर्थे भोगिनोऽत्यक्त्वा स वै रतिपरायणः
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति
ततो लोभाभिभूतात्मा सङ्गाद्वधर्यते जनम्
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति
स जानन्नपि चाकार्यमर्थार्थं सेवते पुनः
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते
ततो मानेन सम्मत्तो रक्षन्नात्मपराजयम्
करोति येन भोगी स्यामिति तस्माद्विनश्यति
तेजो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम्
अन्विच्छतां शुभं कर्म नृणां सत्यं शुभं सुखम्
स्नेहायतननाशाच्च धननाशाच्च पार्थिव
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति
निर्वेदादात्मसम्बोधं सम्बोधाच्छास्त्रदर्शनम्
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति
तपस्सर्वगतं तात हीनस्यापि विधीयते
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशिकम्
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः
क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः
विश्वे देवास्तथा साध्याः पितरोऽथ मरुद्गणाः
यक्षराक्षसगन्धर्वास्सिद्धाश्चान्ये दिवौकसः
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः
ये चान्ये ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम्
कौशिकानि च वस्त्राणि शुभान्याभरणानि च
वाहनासनयानानि तत्सर्वं तपसः फलम्
मनोनुकूलाः प्रमदा रूपवत्यस्सहस्रशः
वासः प्रासादपृष्ठे च सर्वं तत्तपसः फलम्
शयनानि च मुख्यानि भोज्यानि विविधानि च
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम्
नाप्राप्यं तपसा किञ्चित्त्रैलोक्येऽस्मिन्परन्तप
उपभोगपरित्यागः फलान्यकृतकर्मणाम्
सुखितो दुःखितो वाऽपि नरो लोभं परित्यजेत्
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम
असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता
नष्टप्रज्ञो यदा च स्यात्तदा न्यायं न पश्यति
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत्
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते
कृताकृतस्य तपसः फलं पश्यस्व यादृशम्
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम्
फलार्थी सत्पथं त्यक्त्वा प्राप्नोति विषयात्मकम्
धर्मे तपसि दाने च विचिकित्साऽस्य जायते
स कृत्वा पापकान्येव निरयं प्रतिपद्यते
सुखे तु वर्तमानो वै दुःखे वाऽपि नरोत्तम्
सुवृत्ताद्यो न चलते शास्त्रचक्षुस्स मानवः
इषुप्रपातमात्रं हि स्पर्शयोगे रतिस्स्मृता
रसने दर्शने घ्राणे श्रवणे च विशां पते
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः
बुधा ये न प्रशंसन्ति मोक्षं सुखमनुत्तमम्
ततःफलार्थास्सर्वेऽस्य भवन्ति ज्यायसो गुणाः
धर्मवृद्ध्या हि सततं कामार्थाभ्यां न हीयते
अप्रयत्नागतास्सेव्या गृहस्थैर्विषयास्सदा
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम्
धर्मक्रियावियुक्तानामशक्यं संवृतात्मनाम्
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम्
तेषां नान्यदृते लोके तपसः कर्म विद्यते
सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम्
दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरन्नृप
यथा नदीनदास्सर्वे सागरे यान्ति संस्थितिम्
एवमाश्रमिणस्सर्वे गृहस्थे यान्ति संस्थितिम्