पराशरः-
प्रतिग्रहार्जिता विप्रे क्षत्रिये युद्धनिर्जिताः
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः
स्वल्पा ह्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः
नित्यं त्रयाणां वर्णानां शूद्रश्शुश्रूषुरुच्यते
क्षत्रधर्मा वैश्यधर्मा आपत्तौ यतते द्विजः
शूद्रधर्मा यदा तु स्यात्तदा पतति वै द्विजः
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजिवनम्
शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते
रङ्गावतरणं चैव तथा रूपोपजीवनम्
मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम्
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः
संसिद्धः पुरुषो लोके यदाचरति पापकम्
मदेनाभिप्लुतमनास्तच्च निग्राह्यमुच्यते
श्रूयन्ते हि पुराणेऽपि प्रजा धिग्दण्डशासनाः
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः
धर्म एव सदा नॄणामिह राजन्प्रशस्यते
धर्मवृद्ध्या गुणानेव सेवन्ते हि नरा भुवि
तं धर्ममसुरास्तात नामृष्यन्त नराधिप
विवर्धमानाः क्रमशस्तत्र ते त्वाविशन्प्रजाः
तासां दर्पस्समभवत्प्रजानां धर्मनाशनः
दर्पात्मनां ततः क्रोधस्तदा तेषामजायत
ततः क्रोधाभिभूतानां वृत्तं लज्जा च नश्यतः
श्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत
ततो मोहपरीतास्ता नापश्यन्त यथापुरम्
परस्परावमर्देन वर्धयन्तो यथासुखम्
तान्प्राप्य तु स धिग्दण्डो न कारणमतोऽभवत्
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमत्य ह
एतस्मिन्नेव काले तु देवा देववरं शिवम्
अगच्छञ्शरणं वीरं बहुरूपं गुणाधिकम्
तेन स्म ते गगनगास्सपुराः पातिताः क्षितौ
त्रिदैवत्येन बाणेन देवाप्यायिततेजसा
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः
देवतानां भयकरस्स हतश्शूलपाणिना
तस्मिन्हतेऽथ सद्भावं प्रत्यपद्यन्त मानवाः
प्रावर्तन्त च वै वेदाश्शास्त्राणि च यथापुरम्
ततोऽभ्यषिञ्चद्राज्ये तु देवानां दिवि वासवम्
सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः
राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक्
महाकुलेषु ये जाता वृद्धाः पूर्वतराश्च ये
तेषामथासुरो भावो हृदयान्नापसर्पत
तस्मात्तेनैव भावेन सानुषङ्गेण पार्थिवाः
आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च
भुञ्जते तानि चाद्यापि ये बालिशतरा नराः
भीष्मः-
तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः
संसिद्धावागमं कुर्यात्कर्म हिंसात्मकं त्यजेत्
न सङ्करेण द्रविणं विचिन्वीयाद्विचक्षणः
धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय
इष्टानिष्टसमायोगे वैरं सौहार्दमेव च
अथ जातिसहस्राणि बहूनि परिवर्तते
तस्माद्गुणेषु रज्येथा मा दोषेषु कथञ्चन
निर्गुणो यो हि दुर्बुद्धिरात्मनस्सोऽरिरुच्यते
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः
न तथाऽन्येषु भूतेषु मनुष्यरहितेष्विह
धर्मशीलो नरो विद्वानीहकोऽनीहकोपि वा
आत्मभूतस्सदा लोके चरेद्भूतान्यहिंसया
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै
नानृतं चैव भवति तदा कल्याणमृच्छति