युधिष्ठिरः-
तिष्ठते मे सदा तात कौतूहलमिदं हृदि
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह
कथं देवर्षिरुशना सदा काव्यो महामतिः
असुराणां प्रियकरस्सुराणामप्रिये रतः
वर्धयामास तेजश्च किमर्थममितद्युतिः
नित्यं वैरनिबद्धाश्च दानवास्सुरसत्तमैः
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः
ऋद्धिं च स कथं प्राप्तस्सर्वमेतद्ब्रवीहि मे
न याति च स तेजस्वी मध्येन नभसः कथम्
एतदिच्छामि विज्ञातुं निखिलेन पितामह
भीष्मः-
शृणु राजन्नवहितस्सर्वमेतद्यथातथम्
यथामति यथा चैतच्छ्रुतपूर्वं मयाऽनघ
एष भार्गवदायादो मुनिर्मान्यो दृढव्रतः
असुराणां प्रियकरो निमित्ते कारणान्तरे
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपस्सदा
प्रभविष्णुश्च कोशस्य जगतश्च प्रभुस्तथा
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः
रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु
हृते धने ततश्शर्म न लेभे धनदस्तथा
आपन्नमन्युस्संविग्नस्सोऽभ्यगात्सुरसत्तमम्
निवेदयामास ततश्शिवायामिततेजसे
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे
कुबेरः-
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु
योगेनात्मगतं कृत्वा निस्सृतश्च महातपाः
भीष्मः-
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः
संरक्तनयनो रोषाच्छूलमादाय तस्थिवान्
क्वासौ क्वासाविति प्राह गृहीत्वा परमायुधम्
उशना दूरगस्तस्य ह्यभूज्ज्ञात्वा चिकीर्षितम्
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः
गतिमागमनं वेत्ति स्थानं चेति ततः प्रभुः
सञ्चिन्त्योग्रेण तपसा महात्मानं महेश्वरम्
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत
विज्ञातरूपस्स तदा तपस्सिद्धेन चक्षुषा
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्
आनतेनाथ शूलेन पाणिमापामितौजसः
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः
आस्ये विवृत्य भ्रुकुटिं पाणिं सम्प्राक्षिपच्छनैः
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः
युधिष्ठिरः-
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः
जठरे देवदेवस्य किं वाऽकार्षीन्महाद्युतिः
भीष्मः-
पुरा सोऽन्तर्जलगतस्स्थाणुभूतो महाव्रतः
वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च
उदतिष्ठत्तपस्तप्त्वा दुश्चरं च महाह्रदात्
ततो देवातिदेवस्तु ब्रह्मा समुपसर्पत
तपोवृद्धिमपृच्छत्स कुशलं चैनमव्ययम्
तपस्सुचीर्णमिति च प्रोवाच वृषभध्वजः
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शङ्करः
महामतिरचिन्त्यात्मा सत्यधर्मरतिस्सदा
स तेनाढ्यो महायोगी तपसा च धनेन च
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्
उशना तु समुद्विग्नो निलिल्ये जठरे ततः
तुष्टाव च महायोगी देवं तत्रस्थ एव च
निस्सारं काङ्क्षमाणश्च तेजसा प्रत्यहन्यत
उशना तु ततः प्राह जठरस्थो महामुनिः
प्रसादं मे कुरुष्वेति पुनः पुनररिन्दम
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्
इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुङ्गवः
अपश्यमानस्सद्वारं सर्वतः पिहितो मुनिः
पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा
स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान्
कार्येण तेन नभसा न गच्छति च मध्यतः
निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा
भवो रोषसमाविष्टस्शूलोद्यतकरस्स्थितः
न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम्
पुत्रत्वमगमद्देव्या वारिते शङ्करे च सः
देवी-
हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः
न हि देवोदरात्कश्चिन्निस्सृतो नाशमर्हति
भीष्मः-
ततः प्रीतो महादेव्याः प्रहसंश्चेदमब्रवीत्
गच्छत्वेष यथाकाममिति राजन्पुनः पुनः
ततः प्रणम्य वरदं देवं देवीमुमां तथा
उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः
एतत्ते कथितं तात भार्गवस्य महात्मनः
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि