युधिष्ठिरः-
शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनस्सदा
तद्भयं नो यथा न स्यात्तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं समङ्गस्य च भारत
नारदः-
उरसैव प्रणमसे बाहुभ्यां तरसीव च
सम्प्रहृष्टमना नित्यं विशोक इव लक्ष्यसे
उद्वेगं न हि ते किञ्चित्सुसूक्ष्ममपि लक्षये
नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे
समङ्गः-
भूतं भव्यं भविष्यच्च सर्वं वेद्म्यनुमानतः
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम्
उपक्रमानहं वेद्मि पुनरेव फलोदयान्
लोके फलानि चित्राणि ततो न विमना ह्यहम्
अनाथाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः
बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय
सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः
यदा न शोचेमहि किं नु मे स्याद्धर्मेण वा नारद कर्मणा वा
कृतान्तवश्यानि यदा सुखानि दुःखानि चायान्ति विधर्षयन्ति
यस्मिन्प्राज्ञानं कथयन्ते मनुष्याः प्रज्ञामूलो हीन्द्रियाणां प्रसादः
मुह्यन्ति शोचन्ति हि चेन्द्रियाणि प्रज्ञालाभो नास्ति मूढेन्द्रियस्य
मूढस्य दर्पस्स पुनर्मोह एव मूढस्य नायं न परोऽस्ति लोकः
न ह्येव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव
भावात्मकं सम्परिवर्तमानं न तादृशं सञ्ज्वरं जातु कुर्यात्
इष्टान्भोगान्नानुरुद्ध्यन्सुखं वा न चिन्तयेद्दुःखमभ्यागतं वा
समाहितो न स्पृहयेत्परेषां नानागतं वाऽभिनन्देच्च लाभम्
न चापि हृष्येद्विपुलेऽर्थलाभे तथाऽर्थनाशे न च वै विषीदेत्
न बान्धवा न च वित्तं न कालो न च श्रुतं न च मन्त्रो न वीर्यम्
दुःखात्त्रातुं सर्व एवोत्सहन्ते परत्र शीलेन तु यान्ति शान्तिम्
नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम्
धृतिश्च सत्वयोगश्चाप्युभयं तु सुखोदयं
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः
उत्सेको नरकायैव तस्मात्तं सन्त्यजाम्यहम्
एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात्
अर्थकामौ परित्यज्य विशोको विगतज्वरः
तृष्णामोहौ तु सन्त्यज्य चरामि पृथिवीमिमाम्
न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन
पीतामृतस्येवात्यन्तमिह वामुत्र चाभयम्
एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम्
तेन नारद संहर्षो न मां शोकः प्रबाधते