युधिष्ठिरः-
अध्यात्मं नाम यदिदं पुरुषस्योपदिश्यते
यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह
भीष्मः-
सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि
तद्व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ
स तेषां गुणसङ्घातश्शरीरे भरतर्षभ
सततं ते प्रलीयन्ते गुणास्तेषु भवन्ति च
ततस्सृष्टानि तत्रैव तानि घ्नन्ति पुनः पुनः
महाभूतानि भूतेभ्यस्सागरस्योर्मयो यथा
प्रसार्यैव यथाऽङ्गानि कूर्मस्संहरते पुनः
तद्वद्भूतानि भूतानामल्पीयांसि स्थवीयसाम्
आकाशात्खलु यो घोषस्सङ्घातस्तु महीगुणः
वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजसमुच्यते
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्
प्रलये च तमभ्येति तस्मादुत्तिष्ठते पुनः
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
विषयान्कल्पयामास यस्मिन्यदनुपश्यति
शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम्
रसस्स्नेहो रसज्ञानमब्गुणाश्च त्रयस्स्मृताः
रूपं चक्षुर्विपाकश्च विविधं ज्योतिरुच्यते
घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्स्मृताः
प्राणस्स्पर्शश्च चेष्टा च वायोरेते गुणास्स्मृताः
इति सर्वगुणा राजन्व्याख्याताः पाञ्चभौतिकाः
सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत
मनष्षष्ठानि चैतेभ्य ईश्वरस्समकल्पयत्
यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यसि
एतस्मिन्नेव कृच्छ्रेयं वर्तते बुद्धिरन्तरे
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः
इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः
तमस्सत्वं रजश्चेति कालः कर्म च भारत
गुणान्निनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि
मनष्षष्ठानि भूतानि बुद्ध्यभावे कुतो गुणाः
येन पश्यति तच्चक्षुश्शृणोति श्रोत्रमुच्यते
घ्रायती भवति घ्राणो रसती जिह्वया रसान्
स्पर्शयन्स्पर्शती स्पर्श्यं बुद्धिर्विक्रियतेऽसकृत्
यदा प्रार्थयते किञ्चित्तदा भवति सा मनः
अधिष्ठानानि बुद्ध्येत पृथगेतानि पञ्चधा
इन्द्रियाणीति तान्याहुस्तेषु तुष्टेषु मृष्यति
पुरुषे तिष्ठते बुद्धिस्त्रिषु भावेषु वर्तते
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति
न सुखेन न दुःखेन कदाचिदपि वर्तते
सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते
सरितां सागरो भर्ता महावेलामिवोर्मिमान्
अपि भावगता बुद्धिर्भावे मनसि वर्तते
प्रहर्षः प्रीतिरानन्दस्सुखमुत्सिक्तचित्तता
कथञ्चिदुपपद्यन्ते पुरुषे सात्विका गुणाः
परीताप्यस्त्रिधा शोकस्सन्तापो भृशमक्षमा
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः
अवमानस्तथा मोहः प्रमादस्स्वप्नतन्द्रिता
कथञ्चिदभिवर्तन्ते विविधास्तामसा गुणाः
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्युपेक्षेत तत्तदा
अथ यत्सुखसंयुक्तमप्रीतिकरमात्मनः
प्रवृत्तं रज इत्येव तदसारं विचिन्तयेत्
अथ यन्मोहसंयुक्तं अव्यक्तविषयं भवेत्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्
इति बुद्धिगतीस्सर्वा व्याख्याता यावती मया
एतद्बुद्ध्वा भवेद्बुद्धिः किमन्यद्बुद्धलक्षणम्
सत्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः
सृजतेऽत्र गुणानेक एको न सृजते गुणान्
वृद्धिभूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा
यथा मत्स्योऽद्भिरन्यस्सन्सम्प्रयोगस्तयोस्तथा
न गुणा विदुरात्मानं स गुणान्वेद सर्वतः
परिद्रष्टा गुणानां तु संस्रष्टा मन्यते सदा
आश्रयो नास्ति सत्त्वस्य गुणसर्गेण चेतना
सत्वं ह्यस्मात्संसृजते गुणान्वेद कदाचन
सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति
सम्प्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः
इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा
निश्चरद्भिरजानद्भिरिन्द्रियाणि प्रदीपवत्
एवंस्वभावमेवैतत्तद्बुद्ध्वा विहरेन्नरः
अशोचन्नप्रहृष्यंश्च स वै विगतमत्सरः
स्वभावसिद्धमेवैतद्यदिमान्सृजते गुणान्
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तव षड्गुणाः
प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे
इतीमं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्
विमुच्य सुखमासीत विशोकश्छिन्नसंशयः
ताम्येयुः प्रच्युताः पृथ्व्यामिह पूर्णां नदीं नराः
यथा गाधमविद्वांसो विद्धि लोकमिमं तथा
न तु ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः
अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः
न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं भवेत्
न हि गतिरधिकाऽस्ति कस्यचित्सकृदुपि श्रयतीह तुल्यताम्
यत्करोति बहुदोषमेकतस्तच्च दूषयति यत्पुरा कृतम्
नाप्रियं तदुभयं करोत्यसौ यच्च दूषयति यत्करोति च