भीष्मः-
वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः
अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु
जृम्बितं चाभवद्घोरं वैगुण्यं चाभवत्परम्
गात्रकम्पश्च सुमहानुच्छ्वासश्चाप्यभवन्महान्
रोमहर्षश्च तीव्रोऽभून्निश्वासश्च महान्नृप
शिवा चाशिवसङ्काशा तस्य वक्त्रात्सुदारुणा
निष्पपात महाघोरा स्मृतिस्सा तस्य भारत
उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे
गृध्रकङ्कवलाश्चैव वाचोऽमुञ्चन्सुदारुणाः
वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः
ततस्तं रथमास्थाय देवाप्यायित आहवे
वज्रोद्यतकरश्शक्रस्तं दैत्यं प्रत्यवैक्षत
अमानुषमथो नादं स मुमोच महासुरः
व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः
अथास्य जृम्भतश्शक्रस्ततो वज्रमवासृजत्
स वज्रस्सुमहातेजाः कालाग्निसमविग्रहः
क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत्
ततो नादस्समभवत्पुनरेव समन्ततः
वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ
वृत्रं तु हत्वा बलवान्दानवारिर्महायशाः
वज्रेण विष्णुयुक्तेन दिवमेव समाविशत्
अथ वृत्रस्य कौरव्य शरीरादभिनिस्सृता
ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा
करालबदना भीमा विकृता कृष्णपिङ्गला
प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत
कपालमालिनी चैव कृशा च भरतर्षभ
रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रभयानका
साऽहि निष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा
वज्रिणं मृगयामास तदा भरतसत्तम
कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन
स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया
सा विनिस्सरमाणं तु दृष्ट्वा शक्रं महौजसम्
जग्राह कण्ठे देवेन्द्रं सुलग्ना चाभवत्तदा
स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये
नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून्
अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया
कण्ठे गृहीतः कौरव्य निश्चेष्टस्समपद्यत
तस्या व्यपोहने शक्रः परं यत्नं चकार ह
न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम्
गृहीत एव तु तया देवेन्द्रो भरतर्षभ
पितामहमुपागम्य शिरसा प्रत्यपूजयत्
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरवध्यया
ब्रह्मा सञ्चिन्तयामास तदा भरतसत्तम
तामुवाच महाबाहो ब्रह्महत्यां पितामहः
स्वरेण मधुरेणाथ सान्त्वयन्निव भारत
ब्रह्मा-
मुच्यतां त्रिदशेन्द्रोयं मत्प्रियं कुरु भामिनि
ब्रूहि किं ते करोम्यद्य कामं किं त्वमिहेच्छसि
ब्रह्महत्या-
त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि
कृतमेवेह मन्येऽहं निवासं तु विधत्स्व मे
त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना
स्थापनायेह महती त्वया देव प्रवर्तिता
प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो
शक्रादपगमिष्यामि निवासं तु विधत्स्व मे
भीष्मः-
तथेति तां प्राह तदा ब्रह्मवध्यां पितामहः
उपायतस्स शक्रस्य ब्रह्महत्यां व्यपोहत
ततस्स्वयम्भुवा ध्यातस्तत्र चाग्निर्महात्मना
ब्रह्माणमुपसङ्गम्य ततो वचनमब्रवीत्
अग्निः-
प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमनिन्दित
यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति
ब्रह्मा-
बहुधा विभजिष्यामि ब्रह्मवध्यामिमामहम्
शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ वै
अग्निः-
मम मोक्षस्य कालो वै ब्रह्मन्ध्यायस्व वै प्रभो
एतदिच्छामि विज्ञातुं तत्वतो लोकपूजित
ब्रह्मा-
यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित्
बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति
ब्रह्मवध्या हव्यवाह व्येतु ते मानसो ज्वरः
भीष्मः-
इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यवाट्
पितामहस्य भगवांस्तथा च तदभूत्प्रभो
ततो वृक्षौषधितृणं समाहूय पितामहः
इममर्थं महाराज वक्तुं समुपचक्रमे
ब्रह्मा-
इयं वृत्रादनुप्राप्ता ब्रह्महत्या महाभया
पुरुहूतं चतुर्थांशमस्या यूयं प्रतीच्छथ
भीष्मः-
ततो वृक्षौषधितृणं तथैवोक्तं यथातथम्
व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत्
वृक्षौषधितृणम्-
अस्माकं ब्रह्मवध्यायाः कोऽन्तो लोकपितामह
स्वभावाभिहतानस्मान्न पुनर्हन्तुमर्हसि
वयमग्निं तथा शीतं वर्षं च पवनेरितम्
सहामहे सदा देव तथा च्छेदनभेदने
ब्रह्मवध्यामिमामद्य भगवच्छासनाद्वयम्
ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तय नो भवान्
ब्रह्मा-
पर्वकाले तु सम्प्राप्ते यो वै छेदनभेदनम्
करिष्यति नरो मोहात्तमेषाऽनुगमिष्यति
भीष्मः-
ततो वृक्षौषधितृणमेवमुक्तं महात्मना
ब्रह्माणमभिसम्पूज्य जगामाशु यथागतम्
आहूयाप्सरसो देवस्ततो लोकपितामहः
वाचा मधुरया प्राह सान्त्वयन्निव भारत
ब्रह्मा-
इयमिन्द्रादनुप्राप्ता ब्रह्मवध्या वराङ्गनाः
चतुर्थमस्या भागं वै मयोक्तास्सम्प्रतीच्छत
अप्सरसः
सङ्ग्रहे कृतबुद्धीनां देवेश तव शासनात्
मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह
ब्रह्मा-
रजस्वलासु नारीषु यो वै मैथुनमाचरेत्
तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः
भीष्मः-
तथेति हृष्टमनस ऊचुरप्सरसां गणाः
स्वानि स्थानानि सम्प्राप्य रेमिरे भरतर्षभ
ततस्त्रिलोककृद्देवः पुनरेव महातपाः
अपस्सञ्चिन्तयामास ध्यातास्ताश्चाप्यथागमन्
तास्तु सर्वास्समागम्य ब्रह्माणममितौजसम्
इदमूचुर्वचो राजन्प्रणिपत्य पितामहम्
आपः-
इमास्स्म देव सम्प्राप्तास्त्वत्सकाशमनिन्दित
शासनात्तव लोकेश समाज्ञापय नः प्रभो
ब्रह्मा-
इयं वृत्रादनुप्राप्ता पुरुहूतं ममाज्ञया
ब्रह्मवध्या चतुर्थांशमस्या यूयं प्रतीच्छत
आपः-
एवं भवतु लोकेश यथा वदसि नः प्रभो
मोक्षं समयतोऽस्माकं सञ्चिन्तयितुमर्हसि
त्वं हि देवेश सर्वस्य जगतः परमा गतिः
कोऽन्यः प्रसाद्यो हि भवेद्यः कृच्छ्रान्नस्समुद्धरेत्
ब्रह्मा-
अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति
तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः
भीष्मः-
ततोविमुच्य देवेन्द्रो ब्रह्महत्यां युधिष्ठिर
यथानिसृष्टं स्वं वासमगच्छद्देवशासनात्
एवं शक्रेण सम्प्राप्ता ब्रह्मवध्या परन्तप
पितामहं त्वनुज्ञाप्य सोऽश्वमेधमकल्पयत्
श्रूयते च महाराज सम्प्राप्ता वासवेन वै
ब्रह्मवध्या ततश्शुद्धिं हयमेधेन लब्धवान्
समवाप्य श्रियं देवो हत्वाऽरींश्च सहस्रशः
प्रहर्षमतुलं लेभे वासवः पृथिवीपते
वृत्रस्य रुधिराच्चैव बुद्बुदाः पार्थ जज्ञिरे
द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः
सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु
इमे हि भूतले देवाः प्रथिताः कुरुनन्दन
एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः
उपायपूर्वं निहतो वृत्रो ह्यमिततेजसा
एवं त्वमपि कौन्तेय पृथिव्यामपराजितः
भविष्यसि यथा देवश्शतक्रतुरमित्रहा
ये तु शक्रकथां दिव्यामिमां पर्वसुपर्वसु
विप्रमध्ये वदिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम्
इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत्
कथितं कर्म ते तात किं भूयश्श्रोतुमिच्छसि