सनत्कुमारः-
अनादिनिधनश्श्रीमान्हरिर्नारायणः प्रभुः
स वै सृजति भूतानि चराणि स्थावराणि च
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च
एकादशविकारात्मा जगत्पिबति रश्मिभिः
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च
तस्य तेजोमयस्सूर्यो मनश्चन्द्रमसि स्थितम्
बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते
भ्रुवोरेवान्तरं तस्य ग्रहा दानवसत्तम
नक्षत्रचक्रं नेत्रं च आस्यमग्निश्च दानव
तं विद्धि भूतं विश्वादिं परमं विद्धि चेश्वरम्
सत्वं रजस्तमश्चैव सर्वं नारायणात्मकम्
सोश्रमाणां मुखं तात कर्मणस्तं फलं विदुः
अकर्मणः फलं चैव स एव पुरुषोऽव्ययः
छन्दांसि यस्य रोमाणि अक्षरं च सरस्वती
बह्वाश्रयो बहुमुखो धर्मो हृदि समास्थितः
स ब्रह्मपरमो धर्मस्स तपस्सदसच्च सः
स्तोत्रशस्त्रग्रहोपेतष्षोडशर्त्विक्क्रतुश्च सः
पितामहश्चन्द्रमसावश्विनौ स पुरन्दरः
मित्रस्स वरुणश्चैव यमोऽथ धनदस्तथा
ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम्
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदन्ति हि
जन्तुः पश्यति ज्ञानेन ततस्सत्वं प्रकाशते
संहारविक्षेपसहस्रकोटीस्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये
प्रजानिसर्गस्य च पारिमाण्यं वापीसहस्राणि बहूनि तानि
वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयाऽवगाढाः
आयामतः पञ्चशतैश्च सर्वाः प्रत्येकशो योजनविस्तृतास्ताः
वाप्या जलं क्षिप्यति बालकोट्या त्वह्ना सकृच्चाप्यथ न द्वितीयम्
तासां क्षये विद्धि परं विसर्गं संहारमेकं च तथा प्रजानाम्
षड्जीववर्णाः परमं प्रमाणं कृष्णो नीलं धूम्रमथाभ्रवर्णम्
रक्तं पुनस्सह्यतरं सुखं तु हारिद्रवर्णं सुसुखं तु शुक्लम्
परं तु शुक्लं विमलं विशोकं गतक्लमं सिद्ध्यति दानवेन्द्र
गत्वा तु योनिप्रभवानतीत्य सहस्रशस्सिद्धिमुपैति जीवः
गतिश्च या दर्शनमाप देवो गत्वा शुभं दर्शनमाप जीवः
गतिस्ततः पुन्यकृतां प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र
शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगणस्य दैत्य
आरोहणं तत्कृतमेव विद्धि स्थानं तथा निस्सरणं च तेषाम्
योऽस्मादथ भ्रश्यति कालयोगात्कृष्णे वर्णे तिष्ठति सर्वकृष्टे
कृष्णस्य वर्णस्य गतिर्निकृष्टा स मज्जते नरके पच्यमानः
स्थानं तथा दुर्गतिभिस्तु तस्य प्रजाविसर्गान्सुबहून्वदन्ति
शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात्
स चैव तस्मिन्निवसत्यनिशो युगक्षयं तमसा संवृतात्मा
अपि प्रयुक्तो नरकेण दैत्य ततस्सहस्राणि दशापराणि
स वै यदा धूम्रगुणेन युक्तस्तमो व्यपोहन्घटते स्वबुद्ध्या
स तत्र संहारविसर्गमेकं स्वकर्मजैर्बन्धनैः क्लिश्यमानः
स लोहितं वर्णमुपैति जीवो मनुष्यलोके परिवर्तते च
ततस्स हारिद्रमुपैति वर्णं संहारविक्षेपशते व्यतीते
हारिद्रवर्णे तु प्रजाविसर्गान्सहस्रशस्तिष्ठति सञ्चरन्वै
गतीस्सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव
विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च सम्भवेषु
स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषतामुपैति
संहारविक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठन्विमलत्वमेति
सोऽस्मादपि भ्रश्यति कालयोगात्कृष्णे वर्णे तिष्ठति सर्वकृष्टे
यथा त्वयं सिध्यति जीवलोकस्तत्तेऽभिधास्याम्यसुरप्रवीर
दैवानि स व्यूहशतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः
संसृज्य सन्धावति शुक्ल एव यष्ट्वाऽमरान्सेव्यतमान्स लोकान्
अष्टौ च षष्टिं च शतानि यान्ति मनोविरुद्धानि महाद्युतीनाम्
शुक्लस्य वर्णस्य परा गतिर्या तृष्णा विरुद्धानि महाद्युतीनाम्
संहारविक्षेपनिविष्टमेकं चत्वारि चान्यानि वसत्यनीशः
षष्ठस्य वर्णस्य परा गतिर्या सिद्धा विशिष्टस्य गतक्लमस्य
सप्तोत्तरं तेषु वसत्यनीशस्संहारविक्षेपशतं सशेषः
तस्मादुपावृत्य मनुष्यलोकं ततो महान्मानुषतामुपैति
संहारविक्षेपनिविष्टमेकं चत्वारि चान्यानि वसत्यनीशः
तस्मादुपावृत्य ततः क्रमेण स्वर्गे स्म सन्तिष्ठति भूतसर्गः
स सप्तकृत्वस्समुपैति लोकान्संहारविक्षेपकृतप्रवासः
सप्तैव संहारमुपप्लवांश्च सम्भाव्य सन्तिष्ठति सिद्धलोके
ततोऽव्ययं स्थानमुपैत्यनन्तं देवस्य विष्णोरथ ब्रह्मणश्च
शेषस्य देवस्य नरस्य चैव देवस्य विष्णोः परमस्य चैव
संहारकाले परिदग्धदेहा ब्रह्माणमायान्ति तदा प्रजा हि
चेष्टात्मनो देवगणाश्च सर्वे ये ब्रह्मलोके ह्यमरास्स्म तेऽपि
प्रजानिसर्गे तु सशेषकालास्स्थानानि स्वान्येव सरन्ति जीवाः
निश्शेषा वै तत्पदं यान्ति चान्ते सर्वावदातैस्सदृशा मनुष्याः
ये तु च्युतास्सिद्धलोकात्क्रमेण तेषां गतिं यान्ति यथाऽऽनुपूर्व्यात्
जीवाः परे तद्बलवेषरूपा विधिं स्वकं यान्ति विपर्ययेण
स यावदेवास्ति विशेषभावः पर्जाश्च दिव्याश्च तथा च शुक्ले
तावत्तरत्येष विशुद्धभावस्संयम्य पञ्चेन्द्रियरूपमेतत्
शुद्धां गतिं तां परमां प्रयाति शुद्धेन नित्यं मनसा विचिन्वन्
ततोऽव्ययं स्थानमुपैति ब्रह्म दुष्प्रापमप्येति स शाश्वतं वै
इत्येतदाख्यातमदीनसत्व नारायणस्येह बलं मया ते
वृत्रः-
एवं गते मे न विषादोस्ति कश्चित्सम्यक्च पश्यामि वचस्तदेवम्
श्रुत्वा च ते वाक्यमदीनसत्व विकल्मषोऽस्म्यद्य तथा विपाप्मा
प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्तवीर्यम्
विष्णोरनन्तस्य सनातनं तत्स्थानं सर्गा यत्र सर्वे प्रवृत्ताः
स वै महात्मा पुरुषोत्तमोऽसौ तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम्
भीष्मः-
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत्
योजयित्वा तथाऽऽत्मानं परं स्थानमवाप्तवान्
युधिष्ठिरः-
अयं स भगवान्देवः पितामह जनार्दनः
सनत्कुमारो वृत्राय यदुवाच पुरातनम्
भीष्मः-
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा
तत्स्थस्सृजति तान्भावान्नानारूपान्महामनाः
तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम्
तुरीयार्धेन ब्रह्माणं तस्य विद्धि महात्मनः
तुरीयार्धेन लोकांस्त्रीञ्जयत्येष हि बुद्धिमान्
अर्वाक्स्थितस्तु यस्स्थायी कल्पान्ते परिवर्तते
स शेते भगवानप्सु योऽसावतिबलः प्रभुः
तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान्
सर्वाणि शून्यानि करोत्यनन्तस्सनत्कुमारश्चरते च लोकान्
स चानिरुद्धस्सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम्
युधिष्ठिरः-
वृत्रेण परमार्थज्ञ दृष्टां मन्ये मनोगतिम्
सुखादस्मादसुखितो न शोचति पितामह
शुक्लश्शुक्लाभिजातीयस्सद्यो नावर्ततेऽनघ
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः
वयं तु भृशमापन्ना रक्ताः कष्टास्सुखेऽसुखे
कां गतिं प्रतिपत्स्यामो नीलां कृष्णां समामथ
भीष्मः-
शुद्धाभिजनसम्पन्नाः पाण्डवास्संशितव्रताः
विहृत्य देवलोकेषु पुनर्मानुषमेष्यथ
प्रजाविसर्गं च सुखेन लोके प्रेत्यान्यदेहेषु सुखानि भुक्त्वा
सुखेन संयास्यथ सिद्धसङ्ख्यां मा वो भयं भवतु न वोऽस्तु पापम्