उशना-
नमस्तस्मै भगवते देवाय प्रभविष्णवे
यस्य पृथ्वी तलं पादा आशा वै बाहुगोचरः
मूर्धा यस्य त्वनन्तस्य स्थानं दानवसत्तम
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्
भीष्मः-
तयोस्संवदतोरेवमाजगाम महामुनिः
सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा
निषसादासने राजन्महार्हे मुनिपुङ्गवः
तमासीनं महाप्रज्ञमुशना वाक्यमब्रवीत्
उशना-
ब्रूह्यस्मै दानवेन्दाय विष्णोर्माहात्म्यमुत्तमम्
भीष्मः-
सनत्कुमारस्तु वचश्श्रुत्वा चाह वचोऽर्थवत्
विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते
सनत्कुमारः-
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम्
विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप
तस्मिन्गच्छन्ति विलयं तस्माच्च प्रभवन्ति हि
सृजत्येष महाबाहो भूतग्रामं चराचरम्
एष चाक्षिपते काले काले विसृजते पुनः
नैष दानकृता शक्यस्तपसा नैव चेज्यया
सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः
निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत्
बहुशोऽतिप्रयत्नेन महताऽऽत्मकृतेन च
तद्वज्जातिशतैर्जीवश्शुद्ध्यतेऽल्पेन कर्मणा
यत्नेन महता चैवाप्येकजातौ विशुद्ध्यते
लीलयाऽल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः
बहुजातिप्रयत्नेन दोषनिर्हरणं तथा
यथा चाल्पेन माल्येन वासितं तिलसर्षपम्
न मुञ्चति स्वकं गन्धं तथा सूक्ष्मस्य दर्शनम्
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः
विमुच्य तं स्वकं गन्धं माल्यगन्धेऽवतिष्ठते
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन च
कर्मणा स्वेन रक्तानि विरक्तानि च दानव
यथा कर्मविशेषाच्च प्राप्नुवन्ति तथा शृणु
यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठति चानिशम्
तदाऽऽनुपूर्व्याद्व्याख्यास्ये तदिहैकमनाश्शृणु