युधिष्ठिरः-
किंशीलः किंसमाचारः किंविद्यः किम्परायणः
प्राप्नोति ब्रह्मणस्स्थानं यत्परं प्रकृतेर्ध्रुवम्
भीष्मः-
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः
प्राप्नोति ब्रह्मणस्थानं यत्परं प्रकृतेर्ध्रुवम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
हारीतेन पुरा गीतं तं निबोध युधिष्ठिर
स्वगृहादभिनिस्सृत्य लाभेऽलाभसमो मुनिः
सम्मुखेषु च कामेषु निरपेक्षः परिव्रजेत्
न चक्षुषा न मनसा न वाचा दूषयेत्परम्
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित्
न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत्
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्
अतिवादांस्तितिक्षेत नाभिमन्येत कञ्चन
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्
प्रदक्षिणं प्रसव्यं च ग्राममध्ये सदा चरेत्
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतनम्
अवकीर्णस्सुगुप्तश्च न वाचाऽप्यप्रियं चरेत्
मृदुस्स्यादप्रतीकारो विस्रब्धस्स्यादरोषणः
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीतपात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः
अनुयात्रिकमर्थी स्यान्मात्रालाभेष्वनादृतः
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः
अभिपूजितलाभे हि जुगुप्सेतैव तादृशः
न चान्नदोषान्निन्देत न गुणानभिपूजयेत्
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्
शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम्
अज्ञातचर्यां गत्वाऽन्यत्ततोऽन्यत्रैव संविशेत्
अनुरोधविरोधाभ्यां समस्स्यादचलो ध्रुवः
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि
नित्यतृप्तस्सुसन्तुष्टः प्रसन्नवदनेन्द्रियः
ध्यानजप्यपरो मौनी वैराग्यं समुपाश्रितः
अव्यक्तं भौतिकं स्वर्गं पश्यद्भूतगतिं गतिम्
विस्मितस्सर्वदर्शी च पक्वापक्वेन वर्तयेत्
आत्मारामः प्रशान्तात्मा लघ्वाहारो निरामयः
वाचो वेगं मनसः क्रोधवेगं विवित्सावेगमुदरोपस्थवेगम्
एतान्वेगान्विनयेद्वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात्
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः
एतत्पवित्रं परमं परिव्राजक आश्रयेत्
महात्मा सर्वतो दान्तस्सर्वत्रैवानपाश्रितः
अपूर्वचारकस्सौम्यो ह्यनिकेतस्समाहितः
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित्
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत्
विजानतां मोक्ष एवं श्रमस्स्यादविजानताम्
मोक्षयानं नृणां कृत्स्नं विदुषां हारितोऽब्रवीत्
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात्
लोकास्तेजोमयास्तस्य तथाऽऽनन्त्याय कल्पते