भीष्मः-
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं देवलस्यासितस्य च
आसीतं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरम्
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययौ
नारदः-
कुतस्सृष्टमिदं विश्वं जगत्स्थावरजङ्गमम्
प्रलये च किमप्येति भगवान्प्रब्रवीतु मे
देवलः-
येभ्यस्सृजति भूतानि कालोऽह्नायप्रचोदितः
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः
एभ्यस्सृजति भूतानि काल आत्मप्रचोदितः
एतेभ्यो यत्परं ब्रूयादसद्ब्रूयादसंशयम्
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान्
महतस्तेजसो रश्मीन्कालषष्ठान्स्वभावतः
आपश्चैवान्तरिक्षं च पृथिवी पावकानिलौ
असिद्धि परमेतेभ्यो भूतेभ्यो मुक्तसंशयम्
सोपपत्त्या तु युक्त्यासन्ब्रूयादसदसंशयम्
वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः
पञ्च चैतानि कालश्च भावाभावौ च केवलौ
अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ
अभावभावितेष्वेषु तेभ्यश्च प्रभवन्त्यपि
विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा
तस्य भूमिमयो देहश्श्रोत्रमाकाशसम्भवम्
सूर्याच्चक्षुरसुर्वायोरद्भ्यस्तु खलु शोणितम्
चक्षुषी नासिका कर्णौ त्वग्जिह्वेति च पञ्चमी
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा
रूपं गन्धो रसस्स्पर्शश्शब्दश्चैवाथ तद्गुणाः
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः
रूपगन्धरसस्स्पर्शशब्दांश्चैतांश्च तद्गुणान्
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते
चित्तमिन्द्रियसङ्घातात्परं तस्मान्मनः परम्
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक्
विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति
इन्द्रियैरुपलभ्यार्थान्मत्वाऽयं त्वध्यवस्यति
चित्तमिन्द्रियसङ्घातं मनो बुद्धिं तथाऽष्टमीम्
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः
पाणिं पादं च पायुं च मेहनं पञ्चमं मुखम्
इति संशब्द्यमानानि पञ्च कर्मेन्द्रियाण्यपि
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते
गमनेन्द्रियं तथा पादौ कर्मणां करणे करौ
पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी
विसर्गे च पुरीषस्य विसर्गे चापि कामिके
मनष्षष्ठान्यथैतानि वाचा सम्यग्यथागमम्
ज्ञानचेष्टेन्द्रियगुणास्सर्वेषां शब्दिता मया
इन्द्रियाणां स्वकर्मभ्यश्श्रमादुपरमो यदा
भवतीन्द्रियसन्न्यासादथ स्वपिति वै नरः
इन्द्रियाणामुपरमे मनोऽनुपरतं यदि
सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्
सात्विकाश्चैव ये भावास्तथा राजसतामसाः
कर्मयुक्तान्प्रशंसन्ति सात्विकान्नेतरांस्तथा
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः
सात्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः
जन्तुष्वेकतमेष्वेवं भावं यो वा समाश्रितः
भावयोरीप्सितं नित्यं प्रत्यक्षं गमनं द्वयोः
इन्द्रियाणि च भावाश्च गुणास्सप्तदश स्मृताः
तेषामष्टादशो देही यश्शरीरे स शाश्वतः
अथ वा सशरीरास्ते गुणास्सर्वे शरीरिणाम्
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते
अथवा संविभागेन शरीरं पाञ्चभौतिकम्
एकश्च दश चाष्टौ च गुणास्सह शरीरिणः
ऊष्मणा सह विंशेन सङ्घातः पाञ्चभौतिकम्
महान्सन्धारयत्येतच्छरीरं वायुना सह
तस्यास्य भावयुक्तस्य निमित्तं देहभेदने
यथैवोत्पद्यते किञ्चित्पञ्चत्वं गच्छते तथा
पुण्यपापविनाशान्ते पुण्यपापसमन्वितः
देहं विशति कालेन ततोऽयं कर्मसम्भवम्
हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः
कालसञ्चोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम्
तं तु नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः
कृपणास्त्वनुतप्यन्ते जनास्सम्बन्धिमानिनः
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक्
नैव सञ्जायते जन्तुर्न च जातु विपद्यते
याति देहमयं हित्वा कदाचित्परमां गतिम्
पुण्यपापमयं देहं क्षपयेत्कर्मसंश्रयात्
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति
पुण्यपापक्षयार्थं च साङ्ख्यं ज्ञानं विधीयते
तत्क्षये हृदि पश्यन्ति ब्रह्मभावे परां गतिम्