युधिष्ठिरः-
कथं भवति पापात्मा कथं धर्मं करोति वा
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति
भीष्मः-
विदितास्सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः
विज्ञानार्थं हि पञ्चानामिच्छापूर्वं प्रवर्तते
प्राप्य तां वर्तते कामो द्वेषो वा भरतर्षभ
ततस्तदर्थं यतते कर्म चारभते पुनः
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति
ततो लोभः प्रभवति द्वेषश्च तदनन्तरम्
ततो रागः प्रभवति मोहश्च तदनन्तरम्
लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च
व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते
व्याजेन सिद्ध्यमानेषु धर्मेषु कुरुनन्दन
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति
सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत
उत्तरं न्यायसम्बद्धं प्रब्रवीति प्रचोदितः
अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः
पापं चिन्तयते कर्म प्रब्रवीति करोति च
तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः
स नेह सुखमाप्नोति कुत एव परत्र वै
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु
यथा कुशलधर्मा सन्कुशलं प्रतिपद्यते
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति
कुशलस्सुखदुःखेषु साधूंश्चाप्युपसेवते
तस्य साधु समाचारादभ्यासाच्चैव वर्धते
प्राज्ञा धर्मे च रमते धर्मं चैवोपजीवति
सोऽथ धर्मादवाप्तेषु धनेषु कुरुनन्दन
तस्यैवासिञ्चते मूलं गुणान्पश्यति यत्र च
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्
स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति
शब्दे स्पर्शे तथा गन्धे रसे रूपे च भारत
प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः
स तु धर्मफलं लब्ध्वा न तृप्यति युधिष्ठिर
धर्मे स्थितानां कौन्तेय सर्वभोगक्रियासु च
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति
शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत
विमुच्यते तदाऽकामो न च धर्मं विमुञ्चति
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्
ततो मोक्षे च यतते नानुपायादुपायतः
शनैर्निर्वेदमादत्ते पापं कर्म जहाति च
धर्मात्मा चैव भवति मोक्षं च लभते परम्
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि
पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत
तस्माद्धर्मे प्रवर्तेथास्सर्वावस्थो युधिष्ठिर
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती