युधिष्ठिरः-
बहूनां यज्ञतपसामेकार्थानां पितामह
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः
भीष्मः-
अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम्
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य च
नारदः-
राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः
उञ्छवृत्तिर्ऋषिः कश्चित्स च यज्ञं समादधे
श्यामाकमशनं तत्र सूर्यपर्णी सुवर्चला
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम्
उपगम्य वने पृथ्वीं सर्वभूताविहिंसया
अपि मूलफलैरिज्या यज्ञस्स्वर्गपरो मतः
तस्य भार्या व्रतकृशा शुचिः पुष्करमालिनी
यज्ञपत्नीत्वमानीता सत्यान्नानुविधीयते
सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी
मायूरजीर्णपर्णानां वस्त्रं तस्याश्च वर्णितम्
अकामायाः कृतस्तत्र यज्ञो होत्रनुमार्गतः
शुक्रस्य पुनराजातिरवध्यानादधर्मवत्
तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः
वचोभिरब्रवीत्सत्यं त्वया दुष्कृतकं कृतम्
यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः
मा भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्त्रितः
ततस्तु यज्ञे सावित्री साक्षात्तं च न्यमन्त्रयत्
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम्
एवमुक्त्वा निवृत्ता प्राक्प्रवृत्ता यज्ञपावकात्
किञ्च दुश्चरितं यज्ञे दिदृक्षुस्सा रसातलम्
स तु बद्धाञ्जलिस्सत्यमयाचद्धरिणः पुनः
सत्येन सम्परिष्वज्य सन्तुष्टोऽथोच्यतामिति
ततस्स हरिणो गत्वा पदान्यष्टौ न्यवर्तत
साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम्
पश्येमा अप्सरसो दिव्या मया दत्तेन चक्षुषा
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम्
ततस्स सुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत्
स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने
तस्य निष्कृतिमाधत्त न त्वसौ यज्ञसंविधिः
तस्य तेन तु भावेन मृगहिंसात्मनस्तदा
तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया
ततस्तु भगवान्धर्मो यज्ञं याजयत स्वयम्
समाधानं च भार्याया लेभे स तपसा परम्
अहिंसा परमो धर्मो हिंसा यज्ञे समाहितः
सत्यं तेऽहं प्रवक्ष्यामि यो धर्मस्सत्यवादिनाम्