कपिलः-
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतः कृताः
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
शरीरमेतत्कुरुते यद्वैतत्कुरुते तनुम्
कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः
आनन्त्यमनुचिन्त्यैवं कर्मणस्तद्ब्रवीमि ते
निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम्
धर्म इत्येव ये यज्ञं वितन्वन्ति निराशिषः
उत्पन्नत्यागिनोऽलुब्धाः कृपासूयाविवर्जिताः
धनिनामेष वै पन्थास्तीर्थेषु प्रतिपादनम्
अनाश्रिताः पापकृत्यं कदाचिद्ब्रह्मयोनितः
मनस्सङ्कल्पसंसिद्धा विशुद्धाज्ञाननिश्चयाः
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः
आसन्गृहस्था भूयिष्ठं ह्यपक्रान्तास्स्वकर्मसु
राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि
समा ह्यार्जवसम्पन्नास्सन्तुष्टा ज्ञाननिश्चयाः
प्रत्यक्षधर्माश्शुचयश्श्रद्दधानास्तपोधनाः
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः
चरन्ति धर्मं कृच्छ्रेऽपि कृच्छ्रे चापि सुसंहिताः
संहत्य धर्मं चरतां पुराऽऽसीत्सुखमेव तत्
तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः
य एव प्रथमः कल्पस्तमेवात्र चरन्महान्
अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते
यदा तु दुर्बलात्मानः प्रायश्चित्तं तदा भवेत्
एत एवंविधाः प्राहुः ब्रह्मणा यज्ञवाहनाः
त्रैविद्यवृद्धाश्शुचयो वृत्तवन्तो यशस्विनः
यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः
तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम्
आगमाश्च यथाकामं सङ्कल्पश्च यथाव्रतम्
अपेतकामक्रोधानां प्रकृत्या शंसितात्मनाम्
ऋजूनां शमनित्यानां स्वेषु कर्मसु वर्तताम्
सर्वमानन्त्यमेवासीदिति नश्शाश्वती श्रुतिः
तेषामदीनसत्वानां दुश्चराचारकर्मणाम्
स्वकर्मभिस्संशितानां तपो घोरत्वमागतम्
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्
अशक्नुवद्भिश्चरितुं किञ्चिद्धर्मेषु सूचितम्
निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः
सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः
धर्ममेकं चतुष्पादमाश्रिता ये नरा विभो
तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम्
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः
गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः
व्यस्तमेकं चतुर्धा तु ह्याश्रमं ब्राह्मणा विदुः
सर्वे सर्वत्र तिष्ठन्तो गच्छन्ति परमां गतिम्
एत एवं विधाः प्राहुः पुराणा ब्रह्मचारिणः
त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः
आनन्त्यमुपसम्प्राप्ता वसन्तो दिवि देववत्
यद्वा गच्छन्ति संसारं पुनर्योनिषु तादृशाः
न लिप्यन्ते पापकृद्भिः कदाचित्कर्मयोनितः
एवं युक्तो ब्राह्मणस्स्यादन्यो ब्राह्मणको भवेत्
कर्मैव पुरुषस्याहुश्शुभं वा यदि वाऽशुभम्
एवं पक्वकषायाणामानन्त्येन श्रुतेन च
सर्वमानन्त्यमेवासीदिति नश्शाश्वती श्रुतिः
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम्
चतुर्थ औपनिषदो धर्मस्साधारणस्स्मृतः
स सिद्धैस्सेव्यते नित्यं ब्राह्मणैर्नियतात्मभिः
सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते
अपवर्गमतो नित्यो यतिधर्मस्सनातनः
साधारणः केवलो वा यथाबलमुपास्यते
गच्छन्तो बलिनः क्षेमं दुर्बलोऽत्रावसीदति
ब्राह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः
स्यूमरश्मिः-
ये भुञ्जते ये ददते यजन्तेऽधीयते च ये
मात्राभिर्धर्मलब्धाभिर्ये वा त्यागं समाश्रिताः
एतेषां प्रेत्यभावे तु कतमे स्वर्गजित्तमाः
एतदाचक्ष्व मे ब्रह्मन्याथातथ्येन पृच्छतः
कपिलः-
परिग्रहाश्शुभास्सर्वे गुणतोऽभ्युदयाश्च ते
न तु त्यागसुखं प्राप्ता एवं त्वमपि पश्यसि
स्यूमरश्मिः-
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः ज्ञाननिश्चयाः
आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते
एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते
तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे
कपिलः-
कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः
पक्वे कषाये विज्ञानं यथा ज्ञानेन तिष्ठति
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम्
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा शमस्तथा
पन्थानो ब्रह्मणस्त्वेत एतैः प्राप्नोति यत्परम्
तद्विद्वाननुबुद्ध्येत मनसा कर्मनिश्चयम्
यां विप्रास्सर्वतश्शान्ता विशुद्धज्ञाननिश्चयाः
गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम्
वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम्
एवं वेदविदित्याहुरतोऽन्यो वेदवादकाः
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम्
वेदे हि निष्ठा सर्वस्य यद्यदस्ति न चास्ति च
एतदन्तं च मध्यं च सच्चासच्च विजानतः
समाप्तं त्याग इत्येव शम इत्येव निश्चितम्
सन्तोष इत्यनुगतमपवर्गे प्रतिष्ठितम्
ऋतं सत्यं विदितं वेदितव्यं सर्वस्यात्मा स्थावरं जङ्गमं च
सर्वं सुखं यच्छिवं चोत्तरं च ब्रह्माऽव्यक्तं प्रभवश्चाव्ययश्च
तेजः क्षमा शान्तिरनामयश्च तथाविधं व्योम सनातनं ध्रुवम्
एतैश्शब्दैर्गम्यते बुद्धिनेत्रैस्तस्मै नमो ब्रह्मणे ब्राह्मणाय