कपिलः-
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः
निर्द्वन्द्वा निर्नमस्कारा निराशीर्बन्धना बुधाः
विमुक्तास्सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः
अपवर्गेऽथ सन्त्यागे बुद्धौ च कृतनिश्चयाः
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः
विशोका नष्टरजसस्तेषां लोकास्सनातनाः
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम्
स्यूमरश्मिः-
यद्येषां परमा निष्ठा यद्येषां परमा गतिः
गृहस्थाननुपश्रित्य नाश्रमोऽन्यः प्रवर्तते
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः
एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः
गृहस्थ एव यजते गृहस्थस्तप्यते तपः
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किञ्चिदेव हि
प्रजनाद्यभिनिर्वृत्तास्सर्वे प्राणभृतो मुने
प्रजनश्चान्यतोऽन्यत्र न कथञ्चन विद्यते
यथा स्युर्बहिरोषध्यो बहिरन्यस्तथा द्विज
ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति
अश्रद्दधानैरप्राज्ञैस्सूक्ष्मदर्शनवर्जितैः
अलसैनीरसैरज्ञैस्तप्यमानैस्स्वकर्मभिः
श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः
त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा
ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते
प्राग्गर्भाधानमन्त्रा हि प्रवर्तन्ते द्विजातिषु
अविश्वस्तेषु वर्तन्ते विश्वस्तेष्वपि संश्रिताः
दानं पुनस्सङ्ग्रहणं संश्रितं पात्रभोजने
दानं गवां पशूनां हि पिण्डानां चाप्सु मज्जनम्
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरस्तथा
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम्
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित्
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु
क्रियाविहीनैरलसैः पितरो ह्यपलापिताः
वेदवादापरिज्ञानं सत्याभासमिवानृतम्
न वै पापैर्ह्रियते गृह्यते वा यो ब्राह्मणो यजते वेदशास्त्रैः
ऊर्ध्वं यजन्पशुभिस्सार्धमेति ततः पुनस्तर्कयते न कामम्
न वेदानां परिभवान्न शाठ्येन न मायया
महत्प्राप्नोति पुरुषो ब्रह्म ब्राह्मणि विन्दति
कपिलः-
दर्शश्च पूर्णमासश्च अग्निहोत्रं च धीमताम्
चातुर्मास्यानि चैवासंस्तेषु यज्ञस्सनातनः
अनारम्भास्सुधृतयश्शुचयो ब्रह्मसंश्रिताः
ब्राह्मणा एव ते देवांस्तर्पन्त्यमृतैरिव
सर्वभूतात्मभूतस्य सर्वं ज्ञानेन पश्यतः
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः
चतुर्द्वारं पुरुषं चर्तुर्मुखं चतुर्मुखो नैनमुपैति निन्दा
बाहुभ्यां चैवमुदरादुपस्थाद्वाचि द्वाराणि द्वारपालो बुभूषेत्
नाक्षैर्दीव्येन्नाददीतान्यवित्तं नायोनिजस्येह ध्रुवं प्रगृह्णेत्
क्रुद्धो नैव प्रहरेत विद्वांस्तथास्य तत्पाणिद्वारं सुगुप्तम्
नाक्रोशमृच्छेन्न मृषा वदेच्च न पैशुनं जनवादं च कुर्यात्
तस्य व्रतं मितभाष्यप्रमत्तस्तथाऽस्य वाग्द्वारमथो सुगुप्तम्
नानाशनस्स्यान्न महाशनस्स्यान्न लोलुपस्साधुरनागसस्स्यात्
यात्रार्थमाहारमिहाददीत तथाऽस्य तज्जाठरद्वारगुप्तिः
न वीरपत्नीं विहरेत नारीं न चैव भार्यामनृतावाह्वयेत
भार्याव्रतं ह्यात्मनि धारयेत तथास्योपस्थद्वारगुप्तिर्भवेत
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः
उपस्थमुदरं पाणी वाक्चतुर्थी स वै द्विजः
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना
अनुत्तरीयवसनमनुपस्तीर्णशायिनम्
बाहूपशायिनं शान्तं तं देवा ब्राह्मणं विदुः
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या
गतिज्ञस्सर्वभूतानां तं देवा ब्राह्मणं विदुः
अभयं सर्वभूतेभ्यस्सर्वेषामभयं यतः
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः
नान्तरेणानुजानाति वेदानां यः क्रियाफलम्
अनुज्ञाय च तत्सर्वमन्यद्रोचयते फलम्
स्वकर्मभिस्संश्रितानां तपो घोरत्वमागमत्
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्
अशक्नुवद्भ्यश्चरितुं किञ्चिद्धर्मेण सूचितम्
निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च
विगुणानि च पश्यन्ति तथा नैकानि केन च
गुणाश्चात्र तु दुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि
स्यूमरश्मिः-
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्वदस्व मे
कपिलः-
प्रत्यक्षमिव पश्यन्तो भवन्तस्सत्पथे स्थिताः
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते
स्यूमरश्मिः-
स्यूमरश्मिरहं विद्वञ्जिज्ञासार्थमिहागतः
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे
प्रत्यक्षमिव पश्यन्तो भवन्तस्सत्पथे स्थिताः
किमत्र प्रत्यक्षतमं भगवन्त उपासते
अन्यत्र तर्कशास्त्रेभ्य आगमार्थं यथागमम्
आगमो वेदवादास्तु तर्कशास्त्राणि चागमः
यथागममुपासीत आगमस्तत्र सिध्यति
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात्
नौर्नावीव निबद्धा हि स्रोतसा सन्निबन्धना
ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति
एवं ब्रवीतु भगवानुपपन्नो ह्यधीहि भो
नैव त्यागी न सन्तुष्टो नाशोको न निरामयः
नानिर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम्
इन्द्रियार्थाश्च भवतां समानास्सर्वजन्तुषु
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु
एकमालम्बमानानां निर्णये किं निरामयम्
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भो
कपिलः-
यद्यदाचरते शास्त्रमर्थ्यं सर्वप्रवृत्तिषु
यस्य यत्र ह्यनुष्ठानं तस्य तत्तु निरामयम्
सर्वं प्रापयति ज्ञानं यो ज्ञानं ह्यनुवर्तते
ज्ञानादपेता या वृत्तिस्सा विनाशयति प्रजाः
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरामयाः
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते
शास्त्राण्यबुद्ध्वा तत्त्वेन केचिद्वादबलाज्जनाः
कामद्वेषाभिभूतत्वादहङ्कारवशं गताः
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः
ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः
नैर्गुण्यमेव पश्यन्ति न गुणाननुयुञ्जते
तेषां तमश्शरीराणां तम एव परायणम्
यो यथाप्रकृतिर्जन्तुः प्रकृतेस्स्याद्वशानुगः
तस्य क्रोधश्च कामश्च द्वेषो दम्भोऽनृतं मदः
नित्यमेवानुवर्तन्ते गुणाः प्रकृतिसम्भवाः
एतद्बुद्ध्वाऽनुपश्यन्तस्सन्त्यजेयुश्शुभाशुभम्
परां गतिमभीप्सन्तो यतयस्संयमे रताः
स्यूमरश्मिः-
सर्वमेतत्त्वया ब्रह्मञ्शास्त्रतः परिकीर्तितम्
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः
यः कश्चिन्न्याय्य आचारस्स वै शास्त्रमिति श्रुतिः
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः
न प्रवृत्तिर्ऋते शास्त्रात्काचिदस्तीति निश्चयः
यदन्यद्वेदवादेभ्यस्तदुच्छास्त्रमिति श्रुतिः
कपिलः-
शास्त्रादपेता भ्रश्यन्ति बहवोऽत्यर्थमानिनः
शास्त्रे दोषान्न पश्यन्ति इह चामुत्र चापरे
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः
शक्यं त्वेकेन युक्तेन कृतकृत्येन सर्वशः
पिण्डमात्रमपाश्रित्य चरितुं सर्वतो दिशम्
नात्यन्तं वन्दमानेन सक्तेन विदितात्मना
वेदवादं समाश्रित्य मोक्षोऽस्तीति प्रभाषितुम्
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम्
दानमध्ययनं यज्ञः प्रजासन्तानमार्जवम्
यद्येतदेवं कृत्वाऽपि न विमोक्षोऽस्ति कस्यचित्
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतः क्रिया
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा
तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोस्म्यधीहि भोः
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम्