युधिष्ठिरः-
कथं राजा प्रजा रक्षेन्न च किञ्चित्प्रतापयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह
अव्याहृतं व्याजहार सत्यवानिति नश्श्रुतम्
वधाय नीयमानस्य पितुरेवानुशासनात्
सत्यवान्-
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम्
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति
द्युमत्सेनः-
कथं च त्ववधो धर्मोऽधर्मः को जातुचिद्भवेत्
दस्यवश्चेन्न हन्येरन्सत्यवन्सङ्करो भवेत्
ममेदमिति चाप्येतत्प्रवर्तति कलौ युगे
लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः
सत्यवान्-
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः
धर्मपाशनिबद्धानां नाल्पो व्यतिचरिष्यति
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत्
तत्त्वभेदेन यच्छास्त्रं तत्कुर्यान्नान्यथा वधः
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि
दस्यून्हिनस्ति वै राजा भूयसो वाऽप्यनागसः
भार्या माता पिता पुत्रो हन्यन्ते पुरुषे हते
परेणापकृतो राजा तस्मात्सम्यक्प्रधारयेत्
असाधुश्चैव पुरुषो लभते शीलमेकदा
असाधोश्चैव साधुभ्यश्शोभना जायते प्रजा
न मूलघातः कर्तव्यो नैष धर्मस्सनातनः
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते
उद्वेजनेन बन्धेन विरूपकरणेन च
वधदण्डेन ते क्लेश्या न पुरोहितसम्पदा
यदा पुरोहितं वा ते पर्येयुश्शरणैषिणः
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः
तदा विसर्जनार्हास्स्युरिति दण्डानुशासनम्
विभ्रद्दण्डाजिनं मुण्डी ब्राह्मणोऽर्हति शासनम्
गरीयांसो गरीयांसमपराद्धाः पुनः पुनः
तदा विसर्गमर्हन्ति न यथा प्रथमे तथा
द्युमत्सेनः-
यत्र यत्रैव शक्यन्ते संयन्तुं समये प्रजाः
स तावान्प्रोच्यते धर्मो यावन्न ह्यतिलङ्घ्यते
अहन्यमानेषु पुनस्सर्वमेव पराभवेत्
पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः
जन्तवस्सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम्
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः
पात्रं श्मशानादादत्ते पिशाचं चापि दैवतम्
तेषु यस्समयं कश्चित्कुर्वीत हतबुद्धिषु
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः
न गन्धर्वपितॄणां च कः कस्येह कथञ्चन
सत्यवान्-
तान्न शक्नोषि चेत्साधु परित्रातुमहिंसया
कस्यचिद्भूतभव्यस्य लोभेनान्तं तथा कुरु
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः
अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च
चित्रायमानास्सुकृतैर्न कामाद्धन्ति दुष्कृतीन्
सुकृतेनैव राजानो भूयिष्ठं शासति प्रजाः
श्रेयस्सु श्रेयसो ह्येवं वृत्तिं लोकोऽनुवर्तते
सदैवेति गुरोर्वृत्तिमन्ववर्तन्त मानवाः
द्युमत्सेनः-
आत्मानमसमाधाय समाधित्सति यः परान्
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्
आत्मैवादौ नियन्तव्यो दुष्कृतं सन्नियच्छता
दण्डयेच्च तथा दण्डैरपि बन्धूननन्तरान्
यो राज्ञो दम्भमोहेन किञ्चित्कुर्यादसाम्प्रतम्
सर्वोपायैर्नियम्यस्स तथा पापान्निवर्तते
यो राज्ञः पापकृत्क्लेशं न महद्दुःखमर्च्छति
वर्धन्ते तत्र पापानि धर्मो ह्रसति वै ध्नुवम्
इति कारुण्यशीलो वै यो विद्वान्ब्राह्मणानुगः
इति चैवानुशिष्टोऽस्मि पूर्वैस्तातपितामहैः
आश्वासयद्भिस्सुभृशमनुक्रोशात्तथैव च
एतत्प्रथमकल्पेन राजा कृतयुगे जयेत्
पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा
द्वापरे तु द्विपादेन पादेन त्ववरे युगे
तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन च
भवेत्कालविशेषेण कला धर्मस्य षोडशी
अथ प्रथमकल्पेन सत्यवन्सङ्करो भवेत्
आयुश्शक्तिं च कालं च निर्दिश्य तप आविशेत्
सत्याय न तथा तेन जह्याद्धर्मफलं महत्
भूतानामनुकम्पार्थं मनुस्स्वायम्भुवोऽब्रवीत्