युधिष्ठिरः-
कथं कार्यं परीक्षेत शीघ्रं वाऽथ चिरेण वा
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसां कुले
चिरकारिक भद्रं ते भद्रं ते चिरकारिक
चिरकारी हि मेधावी नापराध्यति कर्मसु
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः
चिरेण सर्वकार्याणि विमृशन्प्रतिपद्यते
चिरं सञ्चिन्तयत्यर्थं चिरं जाग्रच्चिरं स्वपन्
चिरं कार्याभिपत्तिश्च चिरकारी तथोच्यते
अलसग्रहणं प्राप्तो दुर्मेधा इति चोच्यते
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान्
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः
विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम्
चिरकारिकः-
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्
कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत्
पितुराज्ञा परो धर्मस्स्वधर्मो मातृरक्षणम्
अस्वतन्त्रं च पुत्रत्वं कि नु मामत्र पीडयेत्
स्त्रियं हत्वा मातरं च को नु जातु सुखी भवेत्
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्
अनवज्ञा पितुर्युक्ता स्वधर्मो मातृरक्षणम्
युक्तक्षमावुभावौ तौ नातिवर्त्यौ कथं मया
पिता ह्यात्मानमाधत्ते माता भस्त्रा ह्यनिन्दिता
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च
सोऽहमात्मा स्वयं पित्रा पुत्रत्वे च कृतः पुनः
विज्ञानमेतत्किं न स्याद्बुबुधे चात्मसम्भवम्
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि
पर्याप्तस्स दृढीकारः पितुर्गौरवनिश्चये
गुरोरग्र्यः परो धर्मः पोषणाप्यायनान्वितः
पिता यदाह धर्मस्स वेदेष्वपि सुनिश्चितः
प्रीतिमात्रं पितुः पुत्रस्सर्वं पुत्रस्य वै पिता
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति
तस्मात्पितुर्वचः कार्यं न विचार्यं कदाचन
पातकान्यपि पूयन्ते पितुश्शासनकारिणः
भाग्यभोगे प्रसवने सर्वलोकनिदर्शने
भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा
आशिषस्ता भजन्त्येनं पुरुषं प्राह यत्पिता
पिता धर्मः पिता स्वर्गः पिता परमकं तपः
पितरि प्रीतिमापन्ने सर्वाः प्रीणन्ति देवताः
निष्कृतिस्सर्वपापानां पिता यच्चाभिनन्दति
मुच्यते बन्धनात्पुरष्पं फलं वृन्ताच्च मुच्यते
क्लिश्यन्नपि पितुस्स्नेहः पुत्रस्नेहं न मुञ्चति
एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम्
पितुरल्पान्तरं स्थानं चिन्तयिष्यामि मातरम्
यो ह्ययं मयि सङ्घातो मर्त्यत्वे पाञ्चभौतिकः
अस्य मे जननी हेतुः पावकस्य यथाऽरणिः
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः
न च शोचति नाप्येष स्थाविर्यमपकर्षति
श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते
पुत्रपौत्रसमापन्नो जननीं यस्समाश्रितः
अपि वर्षशतस्यान्ते हायनत्वे स वर्तते
समर्थं वाऽसमर्थं वा कृशं वाऽप्यकृशं तथा
रक्षत्येव सुतं माता नान्यः पोष्टा तथाविधः
तदा स वृद्धो भवति तदा भवति दुःखितः
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते
नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया
कुक्षौ सन्धारणाद्धात्री जननाज्जननी स्मृता
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः
शिशोश्शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम्
चेतनावान्स को हन्याद्यस्य नासुषिरं शिरः
दम्पत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल
तं माता वा पिता वेति भूतार्थो मातरि स्थितः
माता जानाति यद्गोत्रं माता जानाति यस्य सः
मातुर्भरणमात्रेण प्रीतिस्स्नेहः पितुः प्रजाः
पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च
यदा याप्यन्ति पुरुषास्स्त्रियो नार्हन्ति याप्यताम्
भरणाद्धि स्त्रिया भर्ता पालनाद्धि पतिस्तथा
गुणस्यास्य निवृत्तौ तु न भर्ता न पतिस्तथा
एवं स्त्री नापराध्नोति नर एवापराध्यति
व्युच्चरंश्च महादोषं नर एवापराध्यति
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम्
तस्यात्मना तु सदृशमात्मानं परमं ददौ
नापराधोऽस्ति नारीणां नर एवापराध्यति
सर्वकार्यपराधीना नापराध्यन्ति चाङ्गनाः
यश्च नोक्तोऽथ निर्देशस्स्त्रिया मिथुनवृत्तये
तस्य स्मारयतो व्यक्तमधर्मो नास्ति संशयः
एवं नारीं मातरं च गौरवे चाधिके स्थिताम्
अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः
देवतानां समावापमेकस्थं पितरं विदुः
मर्त्यानां देवतानां च स्नेहादभ्येति मातरम्
भीष्मः-
एवं विमृशतस्तस्य चिरकारितया बहु
दीर्घः कालो व्यतिक्रान्तस्ततोऽस्याभ्यागमत्पिता
मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः
सम्मृश्य तेन कालेन पत्न्यास्तस्या व्यतिक्रमम्
सोऽब्रवीद्भृशसन्तप्तो भृशमश्रूणि वर्तयन्
धूतधैर्यप्रसादेन पश्चात्तापमुपागतः
गौतमः-
आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरन्दरः
अतिथिव्रतमास्थाय ब्राह्मण्यं रूपमास्थितः
स तदा सान्त्वितो वाग्भिस्स्वागतेनाभिपूजितः
अर्घ्यं पाद्यं च न्यायेन मया च प्रतिपादितम्
परवानस्मि चेत्युक्तः अनुशिष्टोऽस्मि तेन च
अत्र चाकुशले जाते स्त्रिया नास्ति व्यतिक्रमः
एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः
अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति
ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः
ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे
हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासितम्
हन्तव्यत्वेन भार्यां च को नु मां तारयिष्यति
अन्तरेण मयाऽऽज्ञप्तिरकारीत्युदारधीः
यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात्
चिरकारिक भद्रं ते भद्रं ते चिरकारिक
यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः
त्राहि मां मातरं चैव तपो यच्चार्जितं मया
आत्मानं पातकेभ्यश्च ततोऽद्य चिरकारिकः
सहजं चिरकारित्वमतिप्रज्ञतया तव
सफलं तत्तथाद्यास्तु भवाद्य चिरकारिकः
चिरमाशसितो मात्रा चिरं गर्भेण धारितः
सफलं चिकारित्वं कुरु त्वं चिरकारिक
चिरायते तु सत्यात्मा चिरं स्वपिति धारितः
आवयोश्चित्तसन्तापमवेक्ष्य चिरकारिक
सफलं तत्प्रदद्यास्तु भवाद्य चिरकारिकः
भीष्मः-
एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा
चिरकारिं ददर्शाथ स्थितं पुत्रमथान्तिके
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः
शस्त्रं त्यक्त्वा तदा मूर्ध्ना प्रसादायोपचक्रमे
गौतमस्तु ततो दृष्ट्वा शिरसा पतितं भुवि
पत्नीं चैवानिराकारां परामभ्यागमन्मुदम्
न हि सा तेन सम्भेदं पत्नी नीता महात्मना
विजने चाश्रमस्थेन पुत्रश्चापि समाहितः
हन्यामिति न वा चेति शस्त्रपाणौ सुते स्थिते
विनीतप्रसवत्वाच्च निवासे चात्मकर्मसु
बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम्
शस्त्रग्रहणचापल्यं संवृणोति भयादिति
ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि
चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः
एवं स गौतमः पुत्रं प्रीतिहर्षमुदायुतः
अभिनन्द्य महाप्रज्ञ इदं वचनमब्रवीत्
गौतमः-
चिरकारिक भद्रं ते चिरकारी चिरं भव
चिराय यदि ते सौम्य चिरमस्मि सुदुःखितः
गाथाश्चात्राब्रवीद्विद्वान्गौतमो मुनिसत्तमः
चिरकारिषु धीरेषु गुणोद्देशसमाश्रयाः
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत्
चिरेण हि कृतं मित्रं चिरं धारणमर्हति
रागे गर्वे च माने च द्रोहे पापे च कर्मणि
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते
भीष्मः-
एवं स गौतमस्तत्र प्रीतः पुत्रस्य भारत
कर्मणा तेन कौन्तेय चिरकारितया तया
एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः
चिरेण निश्चयं कृत्वा चिरेण प्रतिपद्यते
चिरं धारयते रोषं चिरं कर्म नियच्छति
पश्चात्तापकरं कर्म न किञ्चिदुपपद्यते
चिरं वृद्धानुपासीत चिरमन्यांश्च पूजयेत्
चिरं धर्मं निषेवेत कुर्याच्चान्वेषणं चिरम्
चिरमन्वास्य विद्वांसं चिरं शिष्टान्निषेव्य च
चिरं विनीय चात्मानं चिरं यात्यनवद्यताम्
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्
चिरं पृष्टो हि यो ब्रूयाच्चिरं न परिभूयते
उपास्य बहुलास्तस्मिन्नाश्रमे स महातपाः
समास्स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा