युधिष्ठिरः-
शरीरमापदश्चैव न विदन्त्यविहिंसकाः
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते
भीष्मः-
यथा शरीरं न म्लायेन्नैव मृत्युवशं भवेत्
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रजानामुपकारार्थं गीतं राज्ञा विचख्युना
भिन्नं स्थूलवृषं दृष्ट्वा विरावं च गवां भृशम्
जगर्हे यज्ञवाटस्थः प्रेक्षमाणस्स पार्थिवः
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम्
हिंसायां तु प्रवृत्तेयमाशीरेषाऽनुकम्पिता
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः
संशयात्मभिरव्यक्तैर्हिंसा समनुदर्शिता
सर्वकर्मस्वहिंसां हि धर्मात्मा मनुरब्रवीत्
कामकाराद्विहिंसन्ति बहिर्वेद्याः पशून्नराः
तस्मात्प्रमाणतः कार्यो धर्मस्सूक्ष्मो विजानता
अहिंसा ह्येव सर्वेभ्यो धर्मेभ्यो ज्यायसी मता
उपोष्य संशितो भूत्वा हित्वा वेदकृतां शुचिः
आचार इत्यनाचारः कृपणाः फलहेतवः
यदि च्छिन्दन्ति वृक्षांश्च यूपांश्चोद्दिश्य मानवाः
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते
सुरा मत्स्यो मधुर्मांसमासवः कृसरौदनम्
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम्
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम्
विष्णुमेव यजन्तीह सर्वयज्ञेषु ब्राह्मणाः
पायसैस्सुमनोभिश्च तस्यैव यजनं स्मृतम्
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः
यच्चापि किञ्चित्कर्तव्यमन्यच्चोक्षैस्सुसंस्कृतम्
महासत्वैश्शुद्धभावैस्सर्वं देवार्हमेव तत्
युधिष्ठिरः-
शरीरमापदश्चैव विवदन्त्यविहिंसकाः
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति
भीष्मः-
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत्