तुलाधारः-
सद्भिर्वा यदि वाऽसद्भिरयं पन्थास्समास्थितः
प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि यद्यथा
एते शकुन्ता बहवस्समन्ताद्विचरन्ति ह
तवोत्तमाङ्गे सम्भूताश्श्येनाश्चान्याश्च जातयः
आह्वयैनान्महाब्रह्मन्विशमानांस्ततस्ततः
पश्येमान्हस्तपादेन श्लिष्टान्देहेन सर्वशः
सम्भावयन्ति पितरं त्वया सम्भाविताः खगाः
असंशयं पिता च त्वं पुत्रानाह्वय जाजले
भीष्मः-
ततो जाजलिना ते तु समाहूताः पतत्रिणः
वाचमुच्चारयन्दिव्यां धर्मस्य वचनात्किल
पक्षिणः-
अहिंसादि कृतं कर्म इहैव च परत्र च
स्पर्धा निहन्ति वै धर्मं स हता हन्ति तं नरम्
समानां श्रद्दधानानां सम्मतानां सुचेतसाम्
कुर्वतां यज्ञ इत्येव नायज्ञो जातु चेष्यते
श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता नृप
सावित्री प्रसवित्री च हविर्धानमयी ततः
वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च जाजले
श्रद्धावृद्धं वाङ्मनसी न यज्ञस्त्रातुमर्हति
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः
शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः
देवा वृत्तममन्यन्त सदृशं यज्ञकर्मणि
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः
मीमांसित्वोभयं देवास्सममन्नमकल्पयन्
प्रजापतिस्तानुवाच विषमं कृतमित्युत
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत्
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः
अश्रद्दधान एवैको देवानां नार्हते हविः
तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः
अश्रद्धा परमः पाप्मा श्रद्धा पापप्रमोचनी
जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम्
ज्यायसी या पवित्राणां निवृत्तिश्श्रद्धया हि सा
निवृत्तदोषशीलो यश्श्रद्धावान्पूत एव सः
किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धस्स एव सः
इति धर्मस्समाख्यातस्सद्भिर्धर्मार्थदर्शिभिः
वयं जिज्ञासमानास्त्वां सम्प्राप्ता धर्मदर्शनात्
स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत्परम्
जाजलिः-
न वै मुनीनां शृणुमश्च तत्वं पृच्छामि ते वाणिज तत्वमेतत्
पूर्वे हि पूर्वेऽप्यनवेक्षमाणा नातः परं ते ऋषयस्स्थापयन्ति
यस्मिन्नेव तु तत्त्वेन पशवः प्राप्नुयुस्सुखम्
पत्नीव्रतेन विधिना प्रकरोति नियोजयन्
तुलाधारः-
श्रद्धावाञ्श्रद्दधानश्च धर्मश्चैव हि वाणिज
स्ववर्त्मनि स्थितश्चैव गरीयानेष भूतले
भीष्मः-
ततोऽचिरेण कालेन तुलाधारस्स एव च
दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम्
स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम्
एवं बहुमतार्थं च तुलाधारेण भाषितम्
सम्यक्चैनमुपालब्धो धर्मश्चोक्तस्सनातनः
तस्य प्रख्यातवीर्यस्य श्रुत्वा वाक्यानि जाजलिः
तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत
समानां श्रद्दधानानां युक्तानां च यथाबलम्
कुर्वतां यज्ञ इत्येव नायज्ञो जातु नेष्यते