जाजलिः-
अयं प्रवर्तितो धर्मस्तुलाधार यथा त्वया
स्वर्गद्वारप्रवृत्तिश्च भूतानामवरोत्स्यते
कृषिभ्योऽन्नं च भवति ततस्त्वमुपजिवसि
पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज
ततो यज्ञश्च भवति नास्तिक्यमपि जल्पसि
न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलाम्
तुलाधारः-
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः
न च यज्ञं विनिन्दामि यज्ञवित्तु सुदुर्लभः
नमो ब्राह्मण यज्ञाय ये च यज्ञविदो जनाः
स्वयज्ञं ब्राह्मणा हित्वा क्षत्रयज्ञमनुष्ठिताः
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैस्सम्प्रवर्तितम्
वेदवादार्थविज्ञानं सत्याभासमिवानृतम्
इदं देयमिदं देयमिति नान्यच्चिकीर्षति
अतस्स्तैन्यं प्रभवति विकर्माणि च जाजले
तदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः
नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा
पूजा स्याद्देवतानां हि यथाशास्त्रनिदर्शनम्
इष्टापूर्तात्तु साधूनां विदुषां जायते प्रजा
लुब्धेभ्यो जायते लुब्धस्समेभ्यो जायते समः
यजमानं यथा चाहुरृत्विजश्च तथा प्रजा
यज्ञात्प्रजा प्रभवति नभसोऽम्भो यथाऽमलम्
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपगच्छति
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः
यज्ञात्स्वनुष्ठितात्पूर्वे सर्वान्कामांश्च लेभिरे
अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन्
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किञ्चन
शंसमानाः फलं यज्ञे ये यजेरन्कथञ्चन
जानन्तश्च तथा साधु लुब्धा वित्तप्रयोजनाः
ते स्म पापकृतां लोकान्गच्छेयुः पापकर्मणः
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः
स पापात्माऽकृतप्रज्ञस्सदैवेह द्विजोत्तम
कर्तव्यमिति कर्तव्यं वेत्ति यो ब्राह्मणो भयम्
ब्रह्मे स वर्तते लोके नैतत्कर्तव्यता पुनः
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम
सर्वभूतोपकारश्च फलभावे च संयमः
सत्ययज्ञा जपयज्ञा अलुब्धाश्चात्मवृत्तयः
उत्पन्नत्यागिनस्सर्वे जना आसन्नमत्सराः
क्षेत्रक्षेत्रज्ञतत्त्वज्ञास्स्वयज्ञपरिनिष्ठिताः
ब्राह्मं वेदमधीयन्ते तोषयन्त्यपरानपि
अखिलं दैवतं सर्वं ब्रह्म ब्रह्मणि संश्रितम्
तृप्यन्ति तृप्यतो देवास्तृप्तास्तृप्तस्य जाजले
यथाऽमृतरसैस्तृप्तो नाभिनन्दति किञ्चन
तथा प्रज्ञानतृप्तस्य नित्यतृप्तिस्सुखोदया
धर्मारामो धर्मपरः कृत्स्नं व्यवसितास्तथा
अस्ति नस्तत्त्वतो भूय इति प्राज्ञस्त्ववेक्षते
ज्ञानविज्ञानिनः केचित्परं पारं निनीषवः
अतीव तत्सदा पुण्यं पुण्याभिजनशोभितम्
यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च
ते तु तद्ब्रह्मणस्स्थानं प्राप्नुवन्तीह सात्विकाः
नैव ते स्वर्गमिच्छन्ति न यजन्ति तपोधनाः
सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया
वनस्पतीनोषधीश्च फलमूलानि ते विदुः
न चैतानृत्विजो लुब्धा याजयन्ति फलार्थिनः
स्वमेवार्थं कुर्वाणा यज्ञांश्चक्रुरनृत्विजः
परिनिष्ठतकर्माणः प्रजानुग्रहकाङ्क्षिणः
प्रापयेयुः प्रजास्स्वर्गे स्वधर्माचरणेन वै
इति मे वर्तते बुद्धिस्समा सर्वत्र जाजले
प्रयुञ्जते येन यज्ञे सदा प्राज्ञा द्विजर्षभ
तेन ते देवयानेन पथा यान्ति महामुने
आवृत्तिस्तत्र चैकेषां नास्त्यावृत्तिर्मनीषिणाम्
उभौ तौ देवयानेन गच्छतो जाजले पथा
स्वयं चैषामनडुहो युञ्जन्ति च वहन्ति च
स्वयमुस्राश्च दुह्यन्ते मनस्सङ्कल्पसिद्धिभिः
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणाः
यस्तथा भावितात्मा स्यात्स कामाँल्लब्धुमर्हति
ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते न तादृशाः
श्रद्धयाऽहं पुरस्कृत्य तादृशं प्रब्रवीमि ते
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः
न श्रावयन्न च यजन्न ददद्ब्राह्मणेषु च
ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात्
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते
जाजलिः-
अथ स्म कर्मणा केन वाणिज प्राप्नुयात्सुखम्
महाप्राज्ञ वदस्वैतद्भृशं वै श्रद्दधामि ते
तुलाधारः-
उभयस्यानुपायज्ञो नैव यज्ञमथार्हति
आज्येन पयसा दध्ना सत्कृत्यामिक्षया त्वचा
बालैः पादैश्च शृङ्गेण सम्भरत्येव गोर्मखम्
पत्नीवतेन विधिना प्रकरोति नियोजयन्
सर्वा नद्यस्सरस्वत्यस्सर्वे पुण्याश्शिलोच्चयाः
जाजले तीर्थमात्मेव मा स्म देशातिथिर्भवेत्
एतानीदृशकान्धर्मानाचरन्निह जाजले
कारणैर्धर्ममन्विच्छन्स लोकानाप्नुते शुभान्
भीष्मः-
एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति
उपपत्त्या हि सम्पन्नान्नित्यं सद्भिर्निषेवितान्