भीष्मः-
इत्युक्तस्स तदा तेन तुलाधारेण धीमता
प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः
जाजलिः-
विक्रीणनस्सर्वरसान्सर्वगन्धांश्च वाणिज
वनस्पतीनोषधीश्च तेषां मूलफलानि च
अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामियमागता
एतदाचक्ष्व मे सर्वं निखिलेन महामते
भीष्मः-
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित्
जाजलिं क्लिष्टतपसं ज्ञानतृप्तस्तदा नृप
तुलाधारः-
वेदाहं जाजले धर्मं सरहस्यं सनातनम्
सर्वभूतेषु मैत्रत्वं पुराणं यं जना विदुः
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः
या वृत्तिस्स परो धर्मस्तेन जीवामि जाजले
परिच्छिन्नैः काष्ठतृणैर्ममेदं शरणं कृतम्
अलातं पद्मकं तुङ्गं गन्धांश्चोच्चावचानपि
रसांश्च तांस्तान्विप्रर्षे मद्यवर्जमहं बहून्
क्रीत्वा तु प्रतिविक्रीणे परहस्तादमायया
सर्वेषां यस्सुहृन्नित्यं सर्वेषां च हिते रतः
कर्मणा मनसा वाचा स धर्मं वेद जाजले
नाहं परेषां कर्मानि प्रशंसामि शपामि वा
आकाशस्येव लोकस्य जाजले पश्य चित्रताम्
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये
समोऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम्
तुला मे सर्वभूतेषु समा तिष्ठति जाजले
इष्टानिष्टवियुक्तश्च प्रियद्वेषविवर्जितः
इति मां त्वं विजानीहि सर्वलोकस्य जाजले
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनः
यथाऽन्धबधिरोन्मत्ता उच्छ्वासपरमास्सदा
दैवेन पिहितद्वारास्सोपमा पश्यतो मम
यथा वृद्धातुरकृशा निस्पृहा विषयान्प्रति
तथा कामार्थभोगेषु ममापि विगता स्पृहा
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति
यदा नेच्छति न द्वेष्टि तदा सिद्ध्यति वै द्विज
यदा न कुरुते भावं सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा
न भूतो न भविष्योऽत्र न च धर्मोऽस्ति कश्चन
योऽभयस्सर्वभूतानां सम्प्राप्नोत्यभयं पदम्
यस्मादुद्विजते लोकस्सर्वो मृत्युमुखादिव
क्रूरवाक्यो दण्डपरस्स प्राप्नोति महद्भयम्
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्
अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम्
प्रनष्टश्शाश्वतो धर्मस्सदाचारेण मोहितः
तेन वैद्यस्तपस्वी वा ज्ञातवान्वाऽपि मुह्यते
एवं यस्साधु दान्तश्च चरेदद्रोहचेतसा
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात्
नद्यावेगाद्यथा काष्ठमुह्यमानं यदृच्छया
यदृच्छयैव काष्ठेन सन्धिं गच्छेत केनचित्
तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः
तृणकाष्ठकरीषाणि कदाचिन्न समीक्षया
एवमेवायमाचारः प्रादुर्भूतो यतस्ततः
सहायवान्द्रव्यवान्यस्सुभगोऽपि यतस्ततः
ततस्तानेव कवयश्शास्त्रेषु प्रवदत्युत
कीर्त्यर्थमथ हृल्लेखाः पटवः कृत्स्ननिर्णयाः
यस्मान्नोद्विजते भूतं जातु किञ्चित्कथञ्चन
अभयं सर्वभूतेभ्यस्स प्राप्नोति महामते
यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः
स भयं सर्वभूतेभ्यस्सम्प्राप्नोति महामते
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा
नाप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते
लोके यस्सर्वभूतेभ्यो ददात्यभयदक्षिणाम्
स सत्ययज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम्
न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन
यस्मान्नोद्विजते दीनो जातु किञ्चित्कथञ्चन
सोऽभयं सर्वभूतेभ्यस्सम्प्राप्नोति महामुने
यस्मादुद्विजते लोकस्सर्पाद्वेश्मगतादिव
न स धर्ममवाप्नोति इह लोके परत्र च
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः
देवा अप्यस्य मुह्यन्ति अपदस्य पदैषिणः
दानं भूताभयस्याहुस्सर्वदानेभ्य उत्तमम्
ब्रवीमि ते सत्यमिदं श्रद्धत्स्व मम जाजले
स एव सुभगो भूत्वा पुनर्भवति दुर्भगः
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनास्सदा
अकारणो हि नेहास्ति धर्मस्सूक्ष्मो हि जाजले
भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम्
सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिर्णयः
उपलभ्यान्तरे चान्यानाचारानवबुध्यते
ये च च्छिन्दन्ति वृक्षानां ये च छिन्दन्ति संस्थितान्
कृषन्ति महतो भारान्बध्नन्ति दमयन्ति च
हत्वा सत्वानि खादन्ति तान्कथं न विगर्हसे
मानुषा मानुषानेव दासभोगेन भुञ्जते
वधबन्धनिरोधेन कारयन्ति दिवानिशम्
आत्मनश्चापि जानासि यद्दुःखं वधताडने
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम्
आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः
तानि जीवानि विक्रीय का मृतेषु विचारणा
का तैले का धृते ब्रह्मन्मधुन्यप्स्वोषधीषु वा
अदंशमशके देशे सुखसंवर्धितान्पशून्
तांश्च मातुः प्रियान्धुर्यान्नाक्रम्य बहुधा नराः
बहुदंशाकुलान्देशान्नयन्ति बहुकर्दमान्
वाहसम्पीडिता धुर्यास्सीदन्त्यविधिना परे
न मन्ये भ्रूणहत्याऽपि विशिष्टा तेन कर्मणा
कृषिं साध्विति मन्यन्ते सा च वृत्तिस्सुदारुणा
भूमिं भूमिशयांश्चैव हन्ति काष्ठैरयोमुखैः
तथैवानडुहो युक्तान्क्षुत्तृष्णाश्रमकर्शितान्
अघ्न्या इति गवां नाम क एतान्हन्तुमर्हति
महच्चकाराकुशलं वृथा यो गां निहन्ति च
ऋषयो यतयो ह्येते नहुषे प्रत्यवेदयन्
गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम्
अकार्यं नहुषाकार्षींर्लप्स्यामस्त्वत्कृते व्यथाम्
शतं चैकं च रोगाणां सर्वभूतेष्वपातयन्
ऋषयस्ते महाभागाः प्रशस्तास्ते च जाजले
भ्रूणघ्नं नहुषं चाहुर्न तं भोक्ष्यामहे वयम्
इत्युक्त्वा ते महात्मानस्सर्वे तत्त्वार्थदर्शिनः
ऋषयो यतयश्शान्तास्तपसा प्रत्येषधयन्
ईदृशानशिवान्घोरानाचारानिह जाजले
केवलाचरितत्वात्तु नैपुणान्नावबुध्यसे
कारणाद्धर्ममन्विच्छेन्न लोकं विरसं चरेत्
यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले
समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये
एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः
उपपत्त्या हि सम्पन्नो यतिभिश्चेह सेव्यते
सततं धर्मशीलैश्च निपुणेनोपलक्ष्यते