युधिष्ठिरः-
सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम्
प्रतिभा ह्यस्ति मे काचित्प्रब्रूयामनुमानतः
भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया
इममन्यं प्रवक्ष्यामि न राजन्निग्रहादिव
इमे हि पालयन्तीह सृजन्त्युत्तारयन्ति च
न धर्मः परिपाठेन शक्यो भारत वेदितुम्
अन्यो धर्मस्समस्थस्य विषमस्थस्य चापरः
अतस्ते तु कथं शक्याः परिपाठेन वेदितुम्
सदाचारो मतो धर्मस्सन्तस्त्वाचारलक्षणाः
साध्यासाध्यं कथं शक्यं सदाचारोऽप्यलक्षणाः
दृश्यते धर्मरूपेण ह्यधर्मं प्राकृतश्चरन्
धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन्
पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः
वेदवादाश्चानुयुगं ह्रसन्तीतीह नश्श्रुतम्
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव
आम्नायवचनं सत्यमित्ययं लोकसङ्ग्रहः
आम्नायेभ्यः पुनर्वेदाः प्रसृतास्सर्वतोमुखाः
ते चेत्सर्वे प्रमाणं वै नाप्रमाणं तु विद्यते
प्रमाणं चेत्प्रमाणेन विरुद्ध्येच्छास्त्रता कुतः
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
यदा विक्रियते संस्था ततस्साऽपि प्रणश्यति
विद्मो वैनं न वा विद्मश्शक्यं वा वेदितुं न वा
अणीयान्क्षुरधाराया गरीयान्पर्वतादपि
गन्धर्वनगराकारः प्रथमं सम्प्रदृश्यते
अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम्
निपानानीव गोभ्याशे क्षेत्रे कुल्ये च भारत
स्मृतो हि शाश्वतो धर्मो विप्रहीणो न दृश्यते
कामादपेक्षया चान्ये कारणैरपरैस्तथा
असन्तोऽपि वृथाचारं भजन्ते बहवोऽपरे
धर्मो भवति स क्षिप्रं विलोमस्तेष्वसाधुषु
अन्ये तानाहुरुन्मत्तानपि वाचं हसन्त्युत
महाजनादुपावृत्ता राजधर्मं समाश्रिताः
न हि सर्वगतः कश्चिदाचारस्सम्प्रदृश्यते
तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः
दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया
यो नैवान्यः प्रभवति सोऽपरानपि बाधते
आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत्
भीष्मः-
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः
तेनाचारेण पूर्वेण संस्था भवति शाश्वती