युधिष्ठिरः-
इमे वै मानसास्सर्वे धर्मं प्रति विशङ्किताः
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह
धर्मस्त्वयमिहार्थः किममुत्रार्थोपि वा भवेत्
उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह
भीष्मः-
सदाचारस्स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्
चतुर्थमर्थमप्याहुः कवयो धर्मलक्षणम्
अविध्युक्तानि कर्माणि व्यवस्यन्त्युप्तमूषरे
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः
उभयत्र सुखोदर्क इह चैव परत्र च
अलब्ध्वा निपुणं धर्मं पापः पापेषु सज्जति
न च पापकृतः पापान्मुच्यन्ते केचिदापदि
अपापवादी भवति यथा भवति धर्मवित्
धर्मनिष्ठस्सदाचारस्तमेवाश्रित्य चावसेत्
सत्यस्य वचनं साधु न सत्याद्विद्यते परम्
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्
अपि पापकृतो रौद्रास्सत्यं कृत्वा मिथःकृतम्
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः
तेऽपि मिथ्याविधिं कुर्युर्विनश्येयुरसंशयम्
न हर्तव्यं परधनमिति धर्मविदो विदुः
मन्यन्ते बलवन्तस्तद्दुर्बलैस्सम्प्रवर्तितम्
यदा नियतिदौर्बल्यमथैषामेव रोचते
न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा
रमतेऽपहरंस्तेनः परवित्तमराजके
यदाऽस्य तद्धरन्त्यन्ये तदा राजानमिच्छति
यथा धर्मसमाविष्टो धनं गृह्णाति तस्करः
तदा तेषां स्पृहयते ये वै तुष्टास्स्वकैर्धनैः
अभीतश्शुचिरभ्येति राजद्वारमशङ्कितः
न हि दुश्चरितं किञ्चिदन्तरात्मनि पश्यति
तस्मादनार्जवे बुद्धिर्न कार्या ते कथञ्चन
असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः
न किञ्चित्कस्यचित्कुर्वन्निर्भयश्शुचिरावसेत्
सर्वतश्शङ्कते स्तेनो मृगो ग्राममिवेयिवान्
बहुधाऽऽचरितं पापमन्यस्यैवानुपश्यति
मुदितश्शुचिरभ्येति सर्वतो निर्भयस्सदा
न हि दुश्चरितं किञ्चिदात्मनोऽन्येषु पश्यति
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः
तं मन्यन्ते धनयुताः कृपणैस्सम्प्रवर्तितम्
यदाऽनीयन्त कार्पण्यमथैषामेव रोचते
धनवन्तोपि नात्यन्तं भवन्ति सुखिनोपि वा
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः
योऽन्यस्य स्यादुवद्वक्ति कस्तं हिंसितुमर्हति
यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः
जीवितुं यस्स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत्
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत्
अतिरिक्तस्संविभजेद्भोगैरन्यानकिञ्चनान्
एतस्मात्कारणाद्धात्रा कुसीदंसम्प्रवर्तितम्
यस्मिंस्तु देवास्समये सम्पद्येरंस्तमारभेत्
अथ चेल्लोभसमये स्थितिर्धर्मेऽप्यशोभना
सर्वं प्रियाभ्युपगतं पुण्यमाहुर्मनीषिणः
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर
लोकसङ्ग्रहसंयुक्तं विधात्रा विहितं पुरा
सूक्ष्मतत्त्वार्थनियतं सदाचरितमुत्तमम्
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम
तस्मादनार्जवे बुद्धिर्न ते कार्या कथञ्चन