स्थाणुः-
प्रजासर्गनिमित्तां मे कार्यवत्तामिमां प्रभो
विद्धि सृष्टास्त्वया हीमा मा कुप्यस्त्वं पितामह
तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः
तद्दृष्ट्वा मम कारुण्यं मा कुप्यस्त्वं जगत्प्रभो
प्रजापतिः-
न कुप्येऽहं न मे कामो न भवेरन्प्रजा इति
लाघवार्थं धरण्यास्तु ततस्संहार इष्यते
इयं हि मां सदा देवी भारार्ता समचोदयत्
संहारार्थं महादेव भारेणाप्सु निमज्जती
यदहं नाधिगच्छामि बुद्ध्या बहु विचारयन्
संहारमासां वृद्धानां ततो मां क्रोध आविशत्
स्थाणुः-
संहारात्त्वं निवर्तस्व मा क्रुध्यस्त्रिदशेश्वर
मा प्रजास्स्थावरांश्चैव जङ्गमांश्च व्यनीनशः
पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम्
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम्
तदेतद्भस्मसाद्भूतं जगत्सर्वमुपप्लुतम्
प्रसीद भगवन्साधो वर एष वृतो मया
नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथञ्चन
तस्मान्निवर्ततामेतत्तेजस्स्वेनैव तेजसा
उपायमन्यं सम्पश्य प्रजानां हितकाम्यया
यथेमे जन्तवस्सर्वे निवर्तेरन्परन्तप
अभावं नाधिगच्छेयुरुत्सन्नप्रजनाः प्रजाः
पुत्रत्वेनानुसङ्कल्प्य त्वयाऽहं तपसाऽत्यज
अधिदैवं नियुक्तोऽस्मि लोकानां हितकारणात्
त्वद्भवं हि जगन्नाथ जगत्स्थावरजङ्गमम्
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः
नारदः-
श्रुत्वा तु वचनं देवस्स्थाणोर्नियतवाङ्मनाः
तेजस्तत्स्वं निजग्राह पुनरेवान्तरात्मनि
ततोऽग्निमुपसङ्गृह्य भगवाल्ँलोकभावनः
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः
उपसंहरतस्तस्य तमग्निं रोषजं तदा
प्रादुर्बभूव विश्वेशात्खेभ्यो नारी महात्मनः
कृष्णरक्ताम्बरधरा रक्तनेत्रतलान्तरा
दिव्यकुण्डलसम्पन्ना दिव्याभरणभूषिता
सा विनिस्सृत्य खेभ्योऽस्य दक्षिणामाश्रयाद्दिशम्
ददृशातेऽथ तां कन्यां देवौ विश्वेश्वरावुभौ
तामाहाथ तदा देवो लोकानामादिरीश्वरः
मृत्यो इति महीपाल जहि चेमाः प्रजा इति
प्रजापतिः-
त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च
तस्मात्संहर सर्वास्त्वं प्रजास्सजडपण्डिताः
अविशेषेण चैव त्वं प्रजास्संहर भीमिनि
मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि
नारदः-
एवमुक्ता तु सा देवी मृत्युः कनकमालिनी
प्रदध्यौ दुःखिता बाला सास्रपातमतीव च
पाणिभ्यां साऽथ जग्राह तान्यश्रूणि जनेश्वरः
मानवानां हितार्थाय ययाचे पुनरेव सा