युधिष्ठिरः-
य इमे पृथिवीपालाश्शेरते पृथिवीतले
पृतनामध्यगास्ते हि गतसत्त्वा महाबलाः
एकैकशो भीमबला नागायुतबलास्तथा
एते हि निहतास्सङ्ख्ये तुल्यतेजोबलैर्नरैः
नैषां पश्यामि हर्तारं प्राणानां संयुगे पुरा
विक्रमेणैव सम्पन्नास्तेजोबलसमन्विताः
अथ चेमे महाप्राज्ञाश्शेरते हि गतासवः
मृता इति च शब्दोऽयं वर्तत्येव गतासुषु
इमे मृता नृपतयः प्रायशो भीमविक्रमाः
तत्र मे संशयो जातः कुतस्सञ्ज्ञा मृता इति
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह
भीष्मः-
पुरा कृतयुगे तात राजा ह्यासीदकम्पनः
स शत्रुवशमापन्नस्सङ्ग्रामे क्षीणवाहनः
तस्य पुत्रो हरिर्नाम नारायणसमो बले
स शत्रुभिर्हतस्सङ्ख्ये सबलस्सपदानुगः
स राजा शत्रुवशगः पुत्रशोकसमन्वितः
यदृच्छया शान्तिपरो ददर्श भुवि नारदम्
तस्मै स सर्वमाचष्ट यथावृत्तं जनेश्वरः
शत्रुभिर्ग्रहणं सङ्ख्ये पुत्रस्य मरणं तथा
तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः
आख्यानमिदमाचष्टे पुत्रशोकहरं तथा
नारदः-
राजञ्शृणु महाख्यानं ममेदं बहुविस्तरम्
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप
प्रजास्सृष्ट्वा महातेजाः प्रजासर्गे पितामहः
अतीव वृद्धा बहुला न मृतास्ते ततः प्रजाः
न ह्यन्तरमभूत्किञ्चित्क्वचिज्जन्तुभिरच्युत
निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप
तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते
चिन्तयन्नाध्यगच्छत्स संहारे हेतुकारणम्
तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत
तेन सर्वा दिशो राजन्ददाह स पितामहः
ततो दिवं भुवं खं च जगच्च सचराचरम्
ददाह पावको राजन्भगवत्कोपसम्भवः
तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च
महता क्रोधवेगेन कुपिते प्रपितामहे
ततो हरो जटी स्थाणुश्श्मशाननिलयश्शिवः
जगाम शरणं देवो ज्वलन्निव तदा शिवम्
तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया
अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम्
करवाण्यद्य कं कामं वरार्होऽसि मतो मम
कर्ता ह्यसि प्रियं शम्भो तव यद्धृदि वर्तते