भीष्मः-
भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय
द्वैपायनमुखाद्भ्रष्टं श्लाघया परयाऽनघ
दीप्तानलनिभः प्राह भगवान्धर्मवत्सलः
तत्तेऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम्
व्यासः-
भूमेस्स्थैर्यं गुरुत्वं च काठिन्यं प्रसवात्मता
गन्धो भारश्च शक्तिश्च सङ्घातस्स्थापना धृतिः
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता
जिह्वाविष्यन्दनं चैव भूमावास्रवणं तथा
अग्नेर्दुर्धर्षता दीप्तिस्तापः पाकः प्रकाशनम्
शौचं रागो लघुस्तैक्ष्ण्यं सततं चोर्ध्वभागिता
वायोस्तिर्यग्गतिस्स्पर्शो पांसूत्थानं स्वतन्त्रता
बलं शैघ्र्यं च मोक्षश्च कर्मचेष्टात्मता तथा
आकाशस्य गुणश्शब्दो व्यापिता छिद्रताऽपि च
अनाश्रयमनालम्बमव्यक्तमविकारिता
अप्रतीघातिता चैव श्रोतृत्वं विवराणि च
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतविभाविताः
फलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा
सदसत्ताशुता चैव मनसो नव वै गुणाः
इष्टानिष्टविकल्पश्च व्यवसायस्समाधिता
संशयः प्रतिपत्तिश्च बुद्धेः पञ्चेह ये गुणाः
आहुः षष्टिं भूतगुणान्वै भूतविषक्ताः प्रकृतिविसृष्टाः
नित्यविषक्ताश्चाक्षरसृष्टास्सर्वमनित्यं तदिह वदन्ति
तत्पुत्रचिन्तालयनं यदुक्तमनागतं तेन च सम्प्रतीह
भूतार्थवत्त्वं तदवाप्य सर्वं भूतप्रवाहाद्भव शान्तबुद्धिः