व्यासः-
हृदि कामद्रुमश्चित्रो मोहसञ्चयसम्भवः
क्रोधमानमहास्कन्धो विवित्सापरिवेषणः
तस्य चाज्ञानमाधारः प्रमादः परिषेचनम्
सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान्
सम्मोहचिन्ताविटपश्शोकशाखो भयाङ्कुरः
मोहनीभिः पिपासाभिर्लताभिः परिवेष्टितः
उपासते महावृक्षं सुलुब्धास्ते फलेप्सवः
आयतैस्संयुताः पाशैः फलानि परिभक्षयन्
यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति
गतस्स दुःखयोरन्तं जरामरणयोर्द्वयोः
संरोहत्यकृतप्रज्ञस्ससत्त्वो हन्ति पादपम्
स तमेवाहतो हन्ति विषं ग्रस्तमिवातुरम्
तस्यानुगतमूलस्य मूलमुद्ध्रियते बलात्
त्यागाप्रमादात्कृतिना सत्येन परमासिना
एवं यो वेद कामस्य केवलं परिसर्पणम्
एतच्च शस्त्रं कामस्य सुदुःखान्यतिवर्तते
शरीरं पुरमित्याहुस्स्वामिनी बुद्धिरिष्यते
तत्र बुद्धेश्शरीरस्थं मनो नामार्थचिन्तकम्
इन्द्रियाणि जनाः पौरास्तदर्थास्तु पुरोहिताः
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा
यमर्थमुपजीवन्ति पौरास्सह पुरेश्वराः
अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः
तत्र बुद्धिर्हि दुर्धर्षा मनस्साधर्म्यमुच्यते
पौराश्चापि मनस्तृप्तास्तेषामपि चला स्थितिः
यदर्थं बुद्धिरध्यास्ते सोऽर्थः परिविषीदति
पौरमन्त्रिवियुक्तोऽयं सोऽर्थस्संसीदति क्रमात्
यमर्थं पृथगध्यास्ते मनस्तत्परिषीदति
पृथग्भूतं यथा बुद्ध्या मनो भवति केवलम्
अत्रैनं विकृतं शून्यं रजः पर्यवतिष्ठते
तन्मनः कुरुते सख्यं रजसा सह सङ्गतम्
तं चादाय जनं पौरं रजसे सम्प्रयच्छति